________________
२८]
२ अनुमानप्रस्तावः अनादेस्तत्प्रबन्धस्य प्रवृत्तेरिति चेत्तथा । भेदस्तात्त्विक एवासौ किन्न तत्कल्पितो मतः ॥ १२५३ ॥ अभेदस्यैव संवित्तेः स्वतश्चेन्नीलवेदनम् । तद्भेदकल्पनं चैतवयं केनावगम्यताम् ॥ १२५४ ॥ तद्व्यापारं कथं विद्यादजानानश्च तवयम् । एकत्वं दर्शनाभेदः कल्पनादिति यद्वदेत् ॥ १२५५ ॥ केनापि तवयज्ञाने जानीयादर्थमप्यसौ ।
ज्ञानस्यैवान्यवेद्यत्वं नार्थस्येत्यव्यवस्थितेः ॥ १२५६ ॥ तदाह-.
अतश्च बहिरर्थानामपि सत्ता प्रसाध्यते ॥ ८ ॥ इति ।
अतः अस्मादनन्तरसाधितात् प्रमाणात् , सामान्योक्तावपि प्रत्यक्षादिति प्रतिपत्तव्यम् । अनुमानस्य वक्ष्यमाणत्वात् । चशब्दः सौष्ठवे । बहिरर्थानां जडनीलादीनाम् अपिशब्दान्न केवलं विज्ञानानां सत्ता विद्यमानता प्रसाध्यते प्रकर्षेण सिद्धिं नीयते । कथं पुनः प्रत्यक्षतस्तसाधनम् , तस्य तदभावेऽपि तन्नि सिनो दर्शनात् ? तैमिरज्ञानवदिति चेत् ; स्वरूपसाधनमपि न भवेत् , तदभावे तन्नि सिनोऽपि 'दर्शनात् भ्रान्तस्य विभागवेदनवत् । न तद्विभागस्य प्रत्यक्षतः १५ साधनं तद्विवेकस्यैव साधनादिति चेत् ; न तहीदमुपपन्नम्
"ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ।" [प्र० वा० २।३५४ ] इति ।
तद्भेदविवेकवेदिन एव तल्लक्षणानुपपत्तेः । प्रत्यक्षजन्मनो विकल्पादेव तल्लक्षणमिति चेत् ; न ; ततोऽपि व्यतिरिक्तस्यार्थवेदलक्षणात् । अव्यतिरेके तदात्मा तत्त्वतः सविभागः स्यात् तत्प्रत्यक्षात्मापीति न सूक्तमेतत्-"अविभागोऽपि बुद्ध्यात्मा" [प्र० वा० २।३५४ ] इति । तदात्मन्यपि २० तल्लक्षणमन्यत एव विकल्पादिति चेत् ; न ; पूर्ववत्प्रसङ्गादनवस्थितेश्च । ततो गत्वापि दूरं स्वत एव कुतश्चित्तल्लक्षणमनुमन्तव्यम् । एवञ्च यथेदमर्थग्रहापेक्षयोच्यते
"यथाकथञ्चित्तस्याथेरूपं मुक्त्वावभासिनः।
अर्थग्रहः कथं सत्यं न जानेऽहमपीदृशम् ॥" [प्र० वा० २।३५३ ] इति । तथेदं स्वग्रहापेक्षया वक्तव्यम्
यथा कथञ्चित्तस्यात्मरूपं मुक्त्वावभासिनः । आत्मग्रहः कथं सत्यं न जानेऽहमपीदृशम् ॥ १२५७ ॥ इति ।
विभागग्रहस्य सबाधत्वादसत्यत्वेऽपि सत्यत्वमेव विपर्ययात् संवित्तिमात्रग्रहस्येति चेत् ; न; अर्थग्रहस्यापि सत्यत्वापत्तेः । न हि तद्ग्रहोऽपि सर्वः सबाध एव ; बाधस्यैवाभावप्रसङ्गात् , सत्येव निर्बाधमरीचिग्रहे जलग्रहस्य बाधोपलम्भात् । वास्तवञ्च मरीचौ तज्ज्ञानस्य निर्बाधत्वं न वासनास्थैर्यात् , ३०
१ दर्शनादिविभा-आ०, ब०,प० । २ "ग्राह्यग्राहकसंवित्तिविभागवेदनवत् ।"-ता० टि० । ३-र्थस्य संविचिवदिति चालक्षणात् आ०, ब०, प० । ४ “निर्बाधत्वात्"-ता० टि० ।५ मरीचिज्ञानस्य । .