________________
न्यायविनिश्चयविवरणे
[ २८ यतः शून्यप्रवादस्य प्रत्याख्यानं प्रकल्प्यताम् । सतोऽपि ब्रह्मणस्तस्य विशेषः कल्प्यतां कुतः ॥ १२४५ ।। अनित्यत्वाविभुत्वादेरिति चेन्नेदमुत्तरम् । नीलादेरिव तस्यापि वासितस्यैव भासनात् ॥ १२४६ ॥ सन्नेव यदि नीलादिः निर्बाधत्वेन बुध्यते । बहिर्भावोऽपि सन्नेव तथा किन्नावबुध्यते ॥ १२४७ ॥ न हि तत्रान्यथा ज्ञानं कदाचिदपि दृश्यते ।
बाधितो येन सैषः स्याद् बहिर्भावः प्रतीतिमान् ॥ १२४८ ॥ स्यान्मतम्-शरीरनीलादितदन्तरालप्रतिभासमेकमेव ज्ञानम् , न तत्कस्यचिदन्तर्नापि १० कुतश्चिद् बहिः स्वरूप एवावस्थानात् तदयमदोष इति ; 'तन्न ; 'दूरादेवाहमत्रस्थो नीलादिकमव
लोकयामि' इति नीलादितद्वेदनयोः भेदस्यैवानुभवतः प्रतीतेः । तस्याश्च भेदानवगमे बुद्धिचैतन्ययोरभेदप्रतीतेरप्यभेदावगमो मा भूत् , तथा च यथा साङ्ख्यं प्रत्येतत्त्वयोच्यते
"अभिन्नवेदनस्यैक्ये यन्नैवं तद्विभेदवत् ।
*सिद्ध्येदसाधनत्वेऽस्य न सिद्धं भेदसाधनम् ॥" [प्र० वा० २।२७८] इति । १५ तथा च भवन्तं प्रत्यस्माभिरिदमुच्यते
विभिन्नवेदनाद् भेदे यन्नैवं तदभेदवत् । ।
सिद्ध्येदसाधनत्वेऽस्य सिद्धं नाभेदसाधनम् ॥ १२४९ ॥ इति । कथं पुनर्नीलादेः तद्वेदनाद् भेदे 'नीलादिः प्रतिभासते' इति प्रतिभाससामानाधिकरण्येन प्रतिपत्तिः, अप्रतिभासात्मनि तदनुपपत्तेरिति चेत् ? अभेदेऽपि 'नीलादिः' इत्येव 'प्रतिभासः' इत्येव २० वा भावात् कथं तथा प्रतिपत्तिः ? अन्वयव्यतिरेकाभ्यां भेदपरिकल्पनात् , अन्वितो हि प्रतिभासः तस्य पीतादावपि भावाद्, व्यतिरिक्तश्च नीलादिविपर्ययात् ।
तदनेन विरुद्धधर्माध्यासेन भेदपरिकल्पनमुपस्थाप्यमानं सामानाधिकरण्यव्यवहाराय कल्पते इति चेत ; उच्यते
विरुद्धधर्माध्यासोऽयं तत्त्वतो यदि विद्यते । नीलतज्ज्ञानभेदः स्यात् तात्त्विकः कल्पितः कथम् ॥ १२५० ॥ कल्पितश्चेत्तदध्यासः कुतस्तत्कल्पनं मतम् । अन्यतश्चेत्तदध्यासादनवस्था प्रसज्यते ॥ १२५१ ॥ तद्भेदकल्पनादेव प्राच्यात्तद्भेदकल्पनम् । प्राच्यञ्चापि ततः प्राच्यान्न चेहास्त्यनवस्थितिः ॥ १२५२ ॥
१-त्यत्ववि-प० । २ तत्र प० । ३ विद्धे साधनत्वेऽस्य न सिद्धिं मेदबाधनम् । ता० । ४-व भासतेरित्येवाभा-आ०, ब०, प० ।