________________
२रा ]
२ अनुमान प्रस्तावः
तन्निवृत्तौ च निराकुलो भावैकान्तः परनिःश्रेयसरूप इति चेत्; न; तद्वदभावैकान्तस्याप्यव्याकुलत्वापत्तेः, तत्रापि हि परं 'परैर्विचारज्ञानंमूरीक्रियते । तदपि न चित्रमेकं वस्तु; विरोधात् । नापि निष्कलस्वलक्षणरूपम् ; अपरिबोधगोचरत्वादिति भावप्रतिषेधपरतयोपजायमानमशेषमपि भावारोपमपसार्य गरल - निदर्शनबलेनात्मानमप्यपसारयदभावैकान्तमेव तन्निःश्रेयसमव्याकुलमवकल्पयेत् । कथं तादृशेनाप्यतद्विषयेण तदवकल्पनमिति चेत् ? आम्नायज्ञानेनापि कथम् ? न हि तस्यापि तद्विषयत्वम् । ५ " यः सर्वेषु वेदेषु तिष्ठन् सर्वेभ्यो वेदेभ्योऽन्तरो यं सर्वे वेदाः न विदुर्यस्य सर्वे वेदाः शरीरं यः सर्वान् वेदानन्तरो यमयति स त्वन्तर्याम्यमृतः ।" [ बृहदा० ३।७।१५ ] इति श्रुत्यैव तस्य तदविषयत्वनिवेदनात् । स्वसंवेदनादेव तस्य तत्त्वावकल्पनमिति चेत् ; न ; विवादात् । तदवस्थागतस्य न विवाद इति चेत्; तदपि कथं तस्यापरिज्ञाने सति हि तत्परिज्ञाने तद्गतं निर्विवादत्वमन्यद्वा सुपरिज्ञातं भवति नान्यथा । न चान्यतस्तत्परिज्ञानं भवतः सम्भवति, “विज्ञाना- १० न्तरमरे (विज्ञातारमरे) केन विजानीयात् " [ बृहदा० ४/५/५ ] इति तदनन्यवेद्यताया एव श्रवणात् । तन्न भावाभावैकान्तयोः परस्परतो ऽतिशयो यत एकत्र विरुद्धमिष्टसाधनं परस्य सत्त्वं साधयेत् तत्रापि तदभावात् स्वपरं भावाभ्यां भावाभावात्मकस्य साधयत्येव तत्र तस्य प्रतीतेः । ततो युक्तं विरोधादपि सत्त्वसाधनम् ।
?
"
विज्ञानवादी प्राह-मा भूदभावैकान्तः, तथापि विज्ञानमेवास्तु न बहिरर्थः तस्य तद्व्यतिरेकेणा - १५ प्रतीतेरिति ; सोऽपि न प्रातीतिकवादी ; यतः
अविवेके हि नीलादिज्ञानयोरवकल्पिते ।
बहिरेव भवेद्देहाद् बोधो नीलादिरूपवत् ॥ १२३९॥
तज्ज्ञानरहिताद्देहात्कथमेवं ततो वर्चः ।
.......”–बृहदा० ।
"दर्शनं नीलनिर्भासं नार्थी बाह्यः" इति स्फुटम् ॥ १२४०॥ तद्ज्ञानरहितोऽप्यन्यो ँ यद्यन्यावगतं वदेत् ।
सुगतावगतं तत्त्वं किन्न वक्ति कृषीवलः ॥ १२४१ ॥ अन्तःशरीरमेवायं नीलादिर्यदि बोधवत् ।
अन्तर्गतगिरिः कायो गिरेरपि पृथूभवेत् ॥ १२४२ ॥ अन्तर्गतः कुतश्चायं बंहिष्ठेनावभासताम् । वासना प्रकृतेः ̈तद्यद्यसंस्तद्वद्विभासताम् ॥ १२४३ ॥ तथा च शून्यवादाप्तेः ज्ञानवादो विभज्यते । न च ज्ञानं निराकारं सौगतैरुपगम्यते ॥ १२४४ ॥
१ बौद्धैः । २-मुररीक्रि-आ०, ब०, प० । ४-स्य तत्त्वं सत्त्वं सा - आ, ७ " देहः " - ता० टि० ।
१९
३ " यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्यो ऽन्तरः ब०, प० । ५ - परभावाभावाभ्या - आ०, ब०, प० । ८ " देहबहिर्गतबोधज्ञातम् " ता० टि० । ९ बहि
६ प्र० वा० २/३३५ । श्चेन्नाव-आ०, ब०, प०
।
१० - स्तद्वदसंसद्वद्वि-आ०, ब०, प० ।
२०
२५