________________
न्यायविनिश्चयविवरणे
[२८
प्रमाणतत्त्वस्यापि तथैव वक्तव्यत्वापत्तेः । अथ तत्त्वं पश्चात् संवृत्यर्थपर्यालोचनपाटवाल्लोकः स्वयमेव प्रत्येति । यदुक्तम्
"पश्चादवगतार्थस्य भावग्राहो निवर्तते ।" [ ] इति ;
ततो न पूर्वमेव तद्वचनेनोद्वेगः क्रियत इति चेत् ; ईश्वरादितद्वचनेनापि न कर्तव्यः ५ तस्यापि तथैव प्रतीतेः । ततः संवृत्या प्रमाणादिवत् ईश्वरादिकमपि सौगतेन सिद्धान्तीकर्तव्यम् । तदाह-इष्टसिद्धिः परेषां वा इति । इष्टस्य लोकपूजितस्येश्वरस्य सिद्धिः संवृत्या स्यात् परेषां प्रमाणादीनामिव 'वा' इत्यस्येवार्थत्वात् । ततः किम् ? इत्याह-तत्र'इत्यादि । तत्रेति तस्येत्यस्यार्थे द्रष्टव्यः । तदयमर्थ :-तंत्र तस्येष्टस्य-वक्तुर्वदतः बौद्धस्य ।
कथं वक्तुः . ? अनुषङ्गवत् । अनुषङ्गो दोषोऽनुषज्यमानत्वात् तद्वत् यथा भवति, एवं १० न कौशलम् अकौशलमभिमतस्यैव दोषवत्त्वेन वचनात् । अपरमप्यतिप्रसङ्गमाह-'अतीत' इत्यादि । अतीतानां घटादीनां कपालादिषु तेषाञ्चानागतानां घटादिषु आदिशब्दाद्वर्तमानानां दण्डचक्रादीनां परस्परात्मनि सत्ता शक्तिरूपेण साङ्ख्यसिद्धा सापि न केवलमिष्टसिद्धिरेव संवृत्या सौगतस्य भवेत् । 'ततः किम्' इति प्रश्ने पूर्ववदत्रापि तत्र' इत्यादि वक्तव्यम् । तन्न संवृत्याऽस्तित्वं
प्रमाणानां यतस्तत्साधनं सिद्धसाधनं भवेत् । १५ अभावैकान्ते विरोध एवोद्भावयितव्यः-'यदि तदेकान्तो न किञ्चित्तत्साधनम् , तच्चेत्
न तदेकान्तः' इति किं सत्तासाधनेन ? तावता तद्वादिनः पराजयादिति चेत् ; उच्यतेविरोधो नाम हेतोरेव विपक्षगोचरो व्यापारः स कथमसतस्तस्य स्यात् ? सतश्चेत् ; सिद्धं तदुद्भावनं भावसाधनं तस्य तन्नान्तरीयकत्वात् । अस्तीदं किन्तु तेन तदेकान्तनिषेध एव
कर्तव्यो भावं साधयतापि तस्यावश्यकर्तव्यत्वात् , अन्यथा परस्यापरिक्षीणपक्षताप्राप्तेरिति चेत् ; न ; २० तन्निषेधस्य नीरूपस्य करणेऽपि तत्प्राप्तेरविशेषात् । भावरूपस्य तु करणं भावसाधनमेव । न
चायमप्येकान्तः, यस्मान्न हि तस्य स्वतः प्रतिपत्तिः ; विप्रतिपत्तेः । नापि परतः तदेकान्ते परस्यैवाभावात् । भावे तद्विरोधः, परस्परव्यवच्छेदस्यापि भावात् । अवस्त्वेव परम् अविद्याक्लप्तत्वात् , न हि तेन तदेकान्तो विरुध्यते चन्द्रमस्येकत्वैकान्तवत् द्वित्वेनेति चेत् ? न ; अभावैकान्तस्याप्येवं
परतः प्रतिपत्तिप्रसङ्गात् । सति तस्मिन् कथं तदेकान्त इति चेत् ? न ; तत्सत्त्वस्य सांवृतत्वात् । २५ वस्तुसता हि तेन तद्विरोधो न सांवृतेन तदनुकूलत्वात् । सांवृतात् कथं प्रतिपत्तिरिति चेत् ?
अविद्योपक्लप्तात् कथम् ? न ततोऽपि तत्प्रतिपत्तिः भेदारोषस्यैव निवृत्तेः । परं हि परैराम्नायज्ञानमुच्यते, तच्च "अस्थूलमनल्पमहस्वमदीर्घमलोहितमस्नेहमच्छायम्" [ बृहदा० ३।८।८ ] इति स्थूलादिभेदषयु दासप्रतिभासितयोपजायमानमखिलमपि भेदारोपमभ्यासपाटवाद्विनिवर्त्य स्वयमपि निवर्तते विषवत् । इष्टं हि विषं विषान्तरमुपशमय्य पुनरात्मानमप्युपशमयतीति,
१-दिः त-आ०, ब०, प० । २-ति सर्वस्येत्य-ता० । ३ तत्रेष्टस्य प० । ४ दोषत्वेन आ०, ब०, प०। ५-मस्य स्या-आ०, ब०, प०। ६-णप्रेक्षता-आ०, ब०, प० । अखण्डितपक्षता। ७ चन्द्रस्यकआ०, ब०, प०। ८ विश्वं हि आ०, ब०, ५०।