________________
२।८ ]
३
२ अनुमानप्रस्तावः
१७
चिन्ताकृताया एव तस्या अप्याकर्णनात् । अभावरूपैव चिन्तेति चेत्; बुद्धिरपि भावरूपैवेति समः समाधिः । अतो न प्रमाणाभावे परस्येवात्मनोऽपीष्टसिद्धिः । अस्तु तर्हि संवृत्यैव प्रमाणमिति चेत् ; किमिदं संवृत्येति ? स्वरूपेणेति चेत्; वस्तुसदेव तर्हि प्रमाणं स्वरूपभावात् । तथा च परेषां जैनानामेवेष्टसिद्धिः सिषाधयिषितप्रमाणप्रतिष्ठानां न सौगतानाम्, सति तस्मिन् सर्वाभावस्याप्रतिष्ठितेः । तदाह - इष्टसिद्धिः इष्टस्य साधयितुमभिप्रेतस्य प्रमाणस्य सिद्धिः निर्णीतिः परेषां वा जैनानामेव ५ वेत्यस्यावधारणार्थत्वात् । दूषणान्तरमाह - तत्र तस्मिन्स्वरूपे संवृत्यर्थे वक्तुः संवृत्यास्ति प्रमाण ब्रुवाणस्य अकौशलं वचनवैदग्ध्याभावः । प्रसिद्धार्थं स्वरूपपदं परित्यज्य तद्विपरीतस्य संवृतिशब्दस्योपादानात् यथा ‘तरुषङ्क्तिरसङ्कटैव मुनेः' इत्यनुक्त्वा 'तेर्वाल्युर्वेवर्षेः' इति ब्रुवाणस्य । तन्न संवृत्येति स्वरूपेणेत्यर्थः । न पररूपेणेत्यपि तत्रापि वस्तुतः प्रमाणसिद्धया परेषामेवेष्टसिद्धेर्वचनकौशलाभावस्य च तदवस्थत्वात् । अपि च, यदि पररूपम् ; कथं तेन भावः स चेत्; कथं पररूपं १० व्याघातात् । अव्याघातेऽप्याह- अतीतानागतादीनामपि सत्ता इति । तेषामपि सत्त्वं पररूपेण प्राप्नुयादित्यर्थः, न केवलं प्रमाणस्यैवेत्यपिशब्दः । तथा च
भावावबोधरूपेणैवातीतेन भवेदयम् ।
भावनैरात्म्यबोधस्ते भाविकालसमन्वयी ॥ १२३६॥ तेनैव भावबोधः स्यादतीतो भावनाऽथवा ।
तद्गोचरो विचारश्च सर्वोऽप्येवं वृथा भवेत् ॥ १२३७ ॥ सतापि तेन पूर्वस्मिन् भावग्राहनिवर्तनात् ।
परत्रापि विना तेन भावनैरात्म्यनिर्णयात् ॥ १२३८ ॥ प्रतिपाद्यो न कश्चित्स्यादेवमन्यत्र कथ्यताम् ।
२०
तन्न पररूपेणेत्यपि तदर्थः । अयं तर्हि स्यात् संवृत्या स्वपरविकल्पनिर्मुक्तयेति चेत् ; न ? तन्निर्मुक्तेरप्यस्य स्वरूपत्वेन तत्रापीष्टॊसिद्धिरित्यादेर्दोषस्याविशेषात् । तदाह- अनुषङ्गवत् अनुषञ्जनं पूर्वदोषस्यानुगमोऽनुषङ्गः स विद्यते ऽस्येति अनुषङ्गवत् । तन्निर्मुक्तिः संवृतिरिति परमतं तस्यानुक्तस्य प्रक्रमवशात् आगमात् । यदि पुनस्तुच्छैव तन्निर्मुक्तिः ; तर्हि स्पष्टमभिधातव्यम्'न कथञ्चिदप्यस्ति प्रमाणम्' इति, किं संवृत्या ऽस्तीति ? प्रथमत एव तदभावाभिधाने तत्त्वगवेषिणामुद्वेगात् न तत्त्वप्रतिपत्तावाभिमुख्यं भवेत्, ततो मा भूत्तथोद्वेग इति प्रच्छादिताभावस्य प्रमाणस्ये- २५ दमभिधानं संवृत्याऽस्तीति । तदुक्तम्
“सर्वमस्तीति वक्तव्यमादौ तत्त्वगवेषिणा " [
] इति ।
न चैवं वदतः किमप्यकौशलमनुद्वेगवचनादेव कौशलोपपत्तेरिति चेत् ; न ; एवं नित्येश्वरप्रधानादेरपि वचनप्रसङ्गात्, तदभावस्याप्रच्छादितस्य वचने लोकस्योद्वेगाविशेषात् । उद्विजतां वा लोको मा वा यथावस्थितमेव तु तत्त्वं तत्त्वविदा वक्तव्यम्, अन्यथा वञ्चकत्वप्रसङ्गादिति चेत्; न; ३०
१ तर्वाद्युर्वैवर्षे इ-आ०, ब०, प० । तर्वालिः तरुपंक्तिः ऊर्वेव विशालव ऋषेः मुनेः । २- द्धिर्वब०, प० । ३ तेनाभा - भा०, ब०, प० । ४- सिद्धेरि -आ०, ब०, प० । ५-नुयुक्त - आ०, ब०, प० ।
आ,
१५