________________
न्यायविनिश्चयविवरणे
[२८१ हि स्वपक्षं प्रतिपक्षो व्यवच्छेत्तव्यः, स्वपक्षसाधनस्यैवान्यथानुपपत्तेः । ततो वस्तुषु भावव्यवच्छेदेनाभावं साधयता प्रमाणादेव तत्साधनमनुमन्तव्यम् । भावनैरात्म्यवादिनः तत्साधनमपि नास्त्येव तत्कथमन्यथानुषपत्तिमत्त्वम् असिद्धस्य तदनुपपत्तेरिति चेत् ? न ; "इदं वस्तुबलायातम्" [प्र० वा० ।
२।२०९] इत्यादेस्तद्वचनादेव तत्साधनस्य श्रवणात् । तदपि स्वप्नवदेव न तत्त्वत इति चेत् ; ५ किमनेन कर्त्तव्यम् । इष्टसाधनस्याभावसाधनमिति चेत् ; सिद्धमिष्टसाधनं तदभावसाधनस्यैव तत्त्वात् । इदमपि स्वप्नवदेव न तत्त्वत इति चेत् ; न ; अत्राषि' 'किमनेन' इत्यादेः प्रसङ्गादनवस्थादोषाच्च । ततो दूरमनुसृत्यापि किश्चिद् ब्रुवता तात्त्विकमेव तच्च तत्प्रयोजनञ्च वक्तव्यमिति कथमिष्टसाधनस्यासिद्धिः यतोऽन्यथानुपपत्तिर्न भवेत् ? प्रमाणादिष्टसाधने प्रमाणस्यापि तदन्यतः साधनं तस्यापि
तदन्यतः साधनमित्यनवस्थानम् । स्वतस्तत्साधने भावनैरात्म्यस्यापि तत एव तदिति किं प्रमाणेन १० यतस्तत्साधनात् तदवस्थाप्यत इति चेत् ? अत्राह
इष्टसिद्धिः परेषां वा [ तत्र वक्तुरकौशलम् ] ॥७॥ इति ।
परं ब्रह्म तस्यैव परत्वेन ब्रह्मविदां प्रसिद्धत्वात् तदिच्छन्तीति परेषो 'वा' इति समुच्चये तेषामपि न केवलं बौद्धानाम् । किम् ? इष्टस्य ब्रह्मणः सिद्धिर्भवेदिति शेषः । तात्पर्यम्
स्वत एव यथा भावनैरात्म्यं वः प्रसिद्ध्यति । न प्रमाणात्प्रमाणे तन्नैरात्म्यस्यानवस्थितेः ॥ १३४ ॥ सर्वाभेदात्मकं तद्वत् ब्रह्म सिद्धं स्वतो भवेत् ।
प्रमाणान्नान्यतस्तस्मिन् तदभेदानवस्थितेः ॥ १३५ ॥ ततः किम् ? इत्याह-तत्र वक्तुरकौशलम्' इति । तत्र तस्यां परेषामषीष्टसिद्धौ वक्तः सर्वाभाववादिनः अकौशलं स्वपक्षस्य तत्प्रत्यनीकव्यवच्छेदेनाव्यवस्थापनादनिपुणत्वम् । २० ननु तदिष्टसिद्धिरप्यभावरूपैव "नेह नानास्ति किञ्चन" [ बृहदा० ४।४।१९ ] इति “स एष
न" [ बृहदा० ३।९।२६ ] इति च भेदप्रतिषेधस्यैव तदाम्नायेन श्रवणादिति चेत् ; न ; तेनापि तस्य पर्युदासस्यैव श्रवणात् न तुच्छस्य । अन्यथा “ऐतदात्म्यमिदं सर्वम्" [छान्दो० ६।८७] इत्यादिना तदसाङ्गत्यप्रसङ्गात् । ततः सत्तैव सर्वाभेदात्मिका तदिष्टसिद्धिः । इदमेवाह
अतीतानागतादीनामपि सत्ता [ अनुषङ्गवत् ] । इति ।
आदिशब्दाद्वर्तमानानाम् । अपिशब्दात् स्वभावदेशभिन्नानाञ्च भावानां सत्ता विद्यमानता । 'इष्टसिद्धिः परेषाम्' इति सम्बन्धः । कीदृशी सा ? इत्याह-अनुषङ्गवत् इति । अनुषङ्गो
देशकालादिभिरव्यवच्छेदः, तेन वदते दीप्यत इत्यनुषङ्गवत् , वदेः दीप्त्यर्थस्य विचि सत्येवंरूपात् । ‘कथमिष्टसिद्धिरीदृश्यपि स्वतः परेषाम् ? "गृह्यते अग्रयया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ।"
[ कठोप० ३।१२ ] इति बुद्धिकृताया एव तस्याः श्रवणादिति चेत् ; भवदिष्टसिद्धिरपि न स्वतो ३० भवेत् “यथा यथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा ।" [प्र० वा० २।२०९ ] इति
१-पि किमनेनकर्त्तव्यमिष्टसाधनं तदभावसाधनस्यैव तत्त्वात् , इदमपि स्वप्नवदेव न तत्त्वत इति चेन्नात्रपि किम-ता०। २ “दृश्यते त्वग्न्यया"-कठोप० ।