________________
२७]
२ अनुमानप्रस्तावः प्रयोगः-अस्ति चेतनाचेतनात्मकं वस्तु वस्तुबलागमसद्भावात् । धर्मो हि सिध्यन् धर्मिणमवबोधयति अन्यथा तदनुषपत्तेः । ततो यदुक्तम्
"भावोपधानमात्रे तु साध्ये सामान्यधर्मिणि । न कश्चिदर्थः सिद्धः स्यादनिषिद्धश्च तादृशम् ॥" [प्र० वा० ३।१८७ ] इति ।
तत्प्रतिक्षिप्तम् ; भावोषधानमात्रस्य सत्ताविशेषणमात्रस्य सामान्यधर्मिणो वस्तुमात्रस्यापि ५ विप्रतिपत्तिविषयत्वे तत्सिद्धित एव स्वार्थसिद्धेः 'न कश्चिदर्थः सिद्धः स्यात्' इत्यस्यायोगात् । कथञ्चायम् “इदं वस्तुबलायातम्" [प्र० वा० २।२०९] इत्यादिना भावोपधानमात्रमपि साध्यं प्रतिषेधन्नेव “अनिषिद्धं च तादृशम्" इति ब्रूयात् न चेत् प्रतिक्षणोपक्षीणबुद्धिः । अथ व्यवहारे तस्यानिषिद्धत्वं निषिद्धत्वं तु परमार्थे, ततो मार्गभेदात् न तद्वचनयोः परस्परतो विरोध इति चेत् ; व्यवहारतोऽपि तन्निषेधे किं नश्यति : साध्यत्ववत् साधनत्वमपि नश्येत् , अस्ति च तत् शब्दे नित्य- १० त्वस्य सत्येव ( सतैव ) शुद्धाशुद्धरूपेण साधनादिति चेत् ; न तर्हि परमार्थतोऽपि तन्निषेधो भावप्रतिक्षेपस्यापि सतैव केनापि साधनोषपत्तेः । असतापि तत्साधने तदनित्यत्वसाधनमपि स्यात् । तन्न व्यवहारेऽप्यनिषिद्धमित्याधुपपन्न मिति कथं न तद्वचनयोर्विरोधः ? कथं वा निषिद्धस्य साधने सिद्धसाधनत्वम् । तदेवं निरुषाधिकं सत्त्वं प्रसाध्य सोपाधिकं साधयन्नाह
असिद्धधर्मिधर्मत्वेऽप्यन्यथानुपपत्तिमान् ॥६॥
हेतुरेव यथा सन्ति प्रमाणानीष्टसाधनात् । इति । असिद्धस्य अनिश्चितस्य धर्मिणो धर्मत्वेऽपि शब्दान्न केवलं सिद्धधर्मिधर्मत्वे, हेतरेव गमक एव तद्धर्मत्वेऽप्यसिद्धिदोषाभावस्य निरूपितत्वात् । कीदृशः ? अन्यथा साध्याभावप्रकारेण अनुपपत्तिमान् असम्भववान् । अत्रोदाहरणम्-'यथा' इत्यादि । यथेत्युदाहरणप्रदर्शने । सन्ति विद्यन्ते प्रमाणानि । बहुवचनं प्रतिपत्तृभेदेन तद्बहुत्वात् । कुतः सन्ति ? २० इष्टसाधनात् इंष्टस्य भावनैरात्म्यस्य साधनात् । व पुनः प्रमाणोपाधिकं सत्त्वं प्रतिपन्नं येन तदन्वयदृष्टिरिष्टसाधनस्येति चेत् ? न; तदंदृष्टावपि . अन्यथानुपपत्तिमत्त्वेन गमकत्वात् । मा भून्नामान्यथानुपपत्तिमतोऽन्यथा गमकत्वं, तथा गमकत्वम् , तथोपपत्त्यभावे कथमिति चेत् ? न ; अन्यथानुपपत्तरेव पर्युदासवृत्त्या तथोपपत्तित्वात् , तस्याः प्रसज्यप्रतिषेधरूपायाः अप्रातीतिकत्वात् । हेतुस्वरूपे तत्प्रतिपत्तिरेव च तथोषपत्तेरपि प्रतिपत्तिः, बहिस्तेदभावेऽपि दोषाभावात् । ततो नेदमत्र २५ दूषणम्- --
"उपात्तभेदे साध्येऽस्मिन् भवेद्धेतुरनन्वयः ।" [प्र० वा० ३।१८८ ] इति ।
बहिरनन्वये ऽपि क्षतेरभावात् अन्तरनन्वयस्यासिद्धत्वात् । कुतः पुनरिष्टसाधनं प्रमाणादेव न तद्विपर्ययादपीति चेत् ? न ; ततोऽनिष्टस्यापि साधनात् , प्रतिपक्षस्य व्यवच्छेदानुपपत्तेः । साधयता
१ "भावोपादानमात्रे"-प्र० वा०। २ भावोपादानमा-प०। ३ सत्येव के-आ०, ब०, प० । ४ असतोऽपि आ०, ब०, प० । ५-हारे तस्यानि-आ०, ब०, प० । ६-धनस्य चेत् आ०, ब०, प० । ७ तथानुग-ता०। ८ अन्यथानुपपत्तिप्रतिपत्तिरेव । ९-स्तदा भा-आ०, ब०, प० ।