________________
१४
न्यायविनिश्चयविवरणे
[२।६ सम्बन्ध इति चेत् ; न ; अभावात्मनस्तदभावात् , भावात्मनश्च तद्धर्मस्यासम्भवात् । सम्भवन्तोऽपि न तत्कार्यत्वम् , अभावस्याहेतुत्वात् । तन्न व्यभिचारस्य विरोधस्य चोद्भावनमुपपत्तिमदिति चेत् ; सत्यम् , अस्त्ययमुद्भावयितुर्दोषः, शास्त्रकारस्तूभयाभावधर्मयोरनभ्युपगमं परिहारं मन्यमानः परिहा
रान्तरमनुक्त्वा भावधर्मस्यासिद्धत्वमेव परिहरन्नाह५ भ्रान्तेः पुरुषधर्मत्वात् [ यथा वस्तुबलागमम् ] । इति ।
अत्र 'अदोषोऽयम्' इत्यनुवर्तनीयम् । तदयमर्थः-यदुक्तम्-'यो हि भावधर्मं तत्र हेतुमिच्छति स कथं भावं नेच्छेत्” [प्र० वा० स्ववृ० १।१९३ ] इत्ययसदोषो दोषो न भवति, भ्रान्तेः भावधर्ममिच्छतोऽपि भावानिच्छासम्भवात् , तस्याश्च पुरुषे तद्धर्मत्वेन सम्भवात् । एतदेवोदाहरणेन दर्शयन्नाह
यथा वस्तुबलागमम् । प्रपेदे सर्वथा सर्ववस्तुसत्ता प्रतिक्षिपन् ॥ ५॥ इति ।
यथा इत्युदाहरणोपदर्शनार्थम् । प्रपेदे प्रपन्नवान् । किम् ? वस्तुबलागमम् वस्तु ' तात्त्विकं बलमभिमतसाधनसामर्थ्य यस्य स वस्तुबलः स चासावागमश्च, आगमो ज्ञानं वचनं वा
आगच्छत्यनेन आगमयत्यनेन वेति व्युत्पत्तेः, गमेश्च बोधार्थत्वात् वस्तुबलागमः तमिति । अनेन भावधर्म१५ मिच्छन्नपीति दर्शितम् । प्रसिद्धश्चैतद् बौद्धस्य–'इदं वस्तुबलायातं यद्वदन्ति विपश्चितः।"
[प्र० वा० २।२०९ ] इति वचनात् । क एवं प्रपेदे ? इत्याह-सर्वथा सर्वेण पररूपादिप्रकारेण स्वरूपादिप्रकारेण च सर्वस्य चेतनस्येतरस्य च वस्तुनः सत्तां प्रतिक्षिपन निराकुर्वन् इति । अनेनापि भावं नेच्छतीति प्रतिपादितम् । इदमपि प्रसिद्धमेव
“यथा यथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा ॥" [प्र० वा० २।२०९ ] २० इत्यभिधानात् । विविच्यन्ते इति च न नानात्वस्य वचनम् अपि तु विशरणस्यैव । तथा च
व्याख्यानम्-"तस्माद्यथा यथा वस्तु चिन्त्यते तथा तथा विशीर्यत एवेति किमत्र कुर्मः ।" [प्र० वार्तिकाल० २।२०९] इति । कुतः पुनस्तदागमस्य भावधर्मत्वमिति चेत् ? अभावधर्मस्य वस्तुबलत्वाभावेन ततो भावप्रतिक्षेपायोगात् । तद्बलत्वमषि व्यवहारत एव तस्येति चेत् ; न ; तथा
विधात्ततो भावप्रतिष्ठानस्यापि भावात् कथमेकान्तिकस्तत्प्रतिक्षेपो यत इदं सूक्तम्-"विज्ञानं विज्ञान२५ रूपतयापि शून्यमिति सकलधर्मशून्यतैव न्याय्या ।" [प्र० वार्तिकाल० २।२०९ ] इति । ततः प्रतिष्ठापरिहारेण प्रतिक्षेपमेव ब्रुवता तात्त्विकमेव भावधर्मत्वं तस्याभ्युपगन्तव्यम् । तदाह
__ भावनादभ्युपैति स्म भावधर्ममवस्तुनि । इति ।
भावनात् भावप्रतिक्षेपस्य स्वपरबुद्धौ भवतः करणात् अभ्युपैति स्म सौगतो वस्तुबलागममिति सम्बन्धः । कीदृशम् ? भावधर्म तदन्येन तद्भावनानुपपत्तेः । कस्मिन् ? अवस्तुनि ३० भावप्रतिक्षेपे । ततो युक्तं भावमनिच्छतोऽपि भावधर्मस्येष्टत्वात्तस्य हेतुत्वमसिद्धत्वाभावात् । तदयमत्र
१-गमपरि-ता०। २-च्छतो भा-आ०, ब०, प०। ३ विज्ञानतयापि आ०, ब०, ५० । ४ तथाह आ०, ब०, प०।