________________
२।४]
२ अनुमानप्रस्तावः स्थितम्-'ततोऽपरम् । साध्याभासं विरुद्धादि साधनाविषयत्वतः।' इति ।
यद्यप्रसिद्ध साध्यं धर्मिणो विद्यमानत्वमपि साध्यं भवेत् तत्रापि विप्रतिपत्तेः सम्भवात् , तदाह
जातेर्विप्रतिपत्तीनां सत्ता साध्याऽनुषज्यते । इति ।
सुगममेतत् । विप्रतिपत्तीनामिति बहुवचनं संशयादिभेदेन तासां बहुत्वात् । न च साधयितुं ५ शक्यत इति चोद्यस्याभिप्रायः । तत्रोत्तरमाह
तथेष्टत्वाददोषोऽयम् [ हेतोर्दोषत्रयं यदि ] ॥४॥ इति ।
तथा तेन सत्ता साध्येति प्रकारेण इष्टत्वात् जैनस्याभिमतत्वाद् अदोषो दोषो न • भवति अयम् अनन्तर इति ।
___ पर इदानीमशक्यसाध्यतां तस्यां दर्शयन्नाह-हेतोर्दोषत्रयं यदि इति । दोषाणामसि- १० द्धत्वादीनां त्रयं दोषत्रयं हेतोः सत्तासाधनस्य यदि चेत् । तथा हि-यदि भावधर्मों हेतुः, कथमसिद्ध भावे सिद्धः ? सिद्धश्चेद् ; भावोऽपि सिद्ध एवाव्यतिरेकात् । न हि तदव्यतिरिक्तं धर्म . प्रतिपद्यमानस्तमेव न प्रतिषोत व्याघातात् । ततो न तस्य साध्यत्वं प्रसिद्धस्यैव तत्त्वोषपत्तेः । अथोभयधर्मः ; तदा व्यभिचारः, तस्य भाववदभावेऽपि भावात् , न तादृशो हेतुरतिप्रसङ्गात् । कथं पुनर्भावधर्मस्याभावे सम्भवो यतो व्यभिचारः ? परस्य वचनादिति चेत् ; न; वचनात् तत्सम्भवे १५ अतिप्रसङ्गात् । असम्भवन्तमपि ब्रुवाणो दृश्यत इति चेत् ; स तर्हि मिथ्यावादित्वेनैव निगृहीतव्यो न व्यभिचारेण असम्भवतस्तदभावात् , अभूतमुद्भावयतश्च स्वयं निग्रहावाप्तेः । सम्भवत्येव कल्पितः स तत्रापि अमूर्तित्ववत् । अमूर्तित्वं हि मूर्तित्वप्रतिषेधमात्रमाकाशादाविव.अभावेऽपि खरविषाणादा वस्ति–अमूर्तमाकाशादि अमूर्त खरविषाणमिति च व्यपदेशात् , तद्वदन्योऽपि कल्पितभाववदन्यत्रापि सम्भवन्न विरुध्यत इति चेत् ; न ; तस्य भावधर्मत्वाभावात् , अतत्स्वभावत्वात् अतत्कार्यत्वाच्च, २० अन्यथा कल्पितत्वानुपपत्तेः । व्यवहारमात्रात्तस्यापि तद्धर्मत्वे वस्तुतः पक्षधर्मत्वाभावात् स एव दोषो वक्तव्यो न व्यभिचारः, तस्यावस्तुसत्यसम्भवात् । “वस्तुन्येष विकल्पः स्याद् विधेर्वस्त्वनुरोधतः।" [
] इति स्वयमेवाभिधानात । तन्न व्यभिचारोद्भावनमुपपन्नमिति चेत् ; आस्तामेतत् , वक्ष्यमाणोत्तरत्वात् । यदि पुनरभावधर्मः ; तदा विरुद्धः, भावसाधनार्थमुपनीतेनाभावस्यैव साधनात् । तन्न सत्तायां साध्यत्वं तत्साधनस्य दोषत्रयानतिवृत्तेः । तदुक्तम्- २५
"नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः । धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ॥” [ प्र० वा० ३।१९० ] इति ।
विरुद्धत्वं विरुद्धसाधनत्वात् । तच्च नासिद्धस्यैवाभावधर्मस्य चाक्षुषत्वादिवत् । नापि सिद्धस्य ; तत्सिद्धावेवाभावस्यापि सिद्धरव्यतिरेकात् । व्यतिरेके हि न तस्य तद्धर्मत्वमसम्बन्धात् । तत्कार्यत्वं
१ मानमपि-आ०, ब०, प० । २ बहुत्वं न च-आ०, ब०, प० । ३ कल्पितो भावभाववदआ०, ब०, प०। ४-त्तायामसा-आ०, ब०, ५०