________________
२।९]
२ अनुमानप्रस्तावः तहीदं सुभाषितम्-"ज्ञानवान् मृग्यते" [प्र० वा० ११३२ ] इति, स्वत एव बोधात् तदन्वेषणस्य वैयर्थ्यात् । ज्ञानवत एव बुद्धस्योपदेशादिति चेत् ; स' तर्हि बहिरर्थरूप एव, बोधरूपत्वे पूर्ववदोषात् । साधनदूषणात्मा च स इति कथन्न तत्प्रयोगान्यथानुपपत्त्या बहिरर्थसत्तासाधनम् ? अथ तत्प्रयोग एव कस्यचिन्नास्ति तत्प्रतिभासस्तु विप्रलम्भ एव स्वप्नवत् तदयमसिद्धो हेतुरिति चेत् ; न ; अस्यैव असिद्धतोद्भावनस्य तत्प्रयोगत्वप्राप्तेः । अयमपि नास्त्येव, एतत्प्रतिभासस्याषि विप्रलम्भत्वादिति चेत् ; ५ न; अत्रापि तथैव प्रसङ्गादनवस्थादोषाच्च । तन्न तत्प्रतिभासो विप्रलम्भः स्वरूपप्रतिभासेऽपि प्रसङ्गाच्च ।
भवतु तत्त्वं विभ्रम एव बहिरन्तश्चासत एव प्रतिभासात् स्नप्नवदिति चेत् ; नेदानीमसिद्धो हेतुः तत्प्रयोगत्वात् । नापि विरुद्धो बहिरर्थत्वादन्यत्र तदभावात् । न हि विभ्रमत्वे तद्भावः ; विभ्रमाद्विभ्रमसिद्धेर्निषेधात् । तत एव न व्यभिचारी चेति युक्तमतो बहिरर्थसत्तासाधनम् । ततः स्थितं 'तदभावेऽपि' इत्यादि । साम्प्रतं सौत्रान्तिकं प्रति सत्तासाधनमाह
अक्षादेरप्यदृश्यस्य तत्कार्यव्यतिरेकतः ॥ ॥ इति ।
अक्ष मिन्द्रियं चक्षुरादि, तदादिर्यस्य भूतादेस्तस्यापि न केवलं प्रमाणादेः । 'सत्ता प्रसाध्यते' इत्यधिकृत्याभिसम्बन्धः । कुत एतत् ? तस्याक्षादेः कार्य रूपादिज्ञान-कार्यविकारादिकं तस्य व्यतिरेकः कारणान्तरसाकल्ये ऽप्यभावः ततः । कार्यव्यतिरेको हि कारणव्यतिरेकं गमयत्यन्यथा तदनुपपत्तेः । यच्च गम्यमानव्यतिरेकं कारणं तदक्षादि, इत्युपपन्नं ततस्तत्साधनम् । किं तत्साधनेन १५ प्रत्यक्षादेव तत्सिद्धेः, गोलकादिकमेवाक्षादि तत एव तत्कार्यदर्शनात् , तच्च प्रत्यक्षत एव प्रतिपन्नमिति चेत् ; न; तस्य तद्धेतुत्वेऽविशेषेण प्रसङ्गात् । न चैवम् , सत्यपि तस्मिन् कस्यचित्तदभावात् । तदपि सशक्तिकमेव कारणं नापरमिति चेत् ; तत्तर्हि कथं दृश्यं शक्तेरतीन्द्रियत्वात् ? नन्वेवं न किश्चिदपि कारणं दृश्यं स्यात् सर्वशक्तेरतीन्द्रियत्वात् , तत्कथं जलादौ तत्कार्यार्थिनः प्रवृत्तिः तच्छक्तेरपरिज्ञाने तदनुपपत्तेः ? कार्याच्च तत्प्रतिपत्तौ परस्पराश्रयात्-तत्परिज्ञाने कार्यम् , ततश्च २० तत्परिज्ञानमिति । क्वचिदभ्यासादिसहायात् प्रत्यक्षादेव तत्प्रतिपत्तौ गोलकादावपि स्यादविशेषादिति चेत् ; न; जलादिवत्तत्राकारविशेषस्यानवधारणात् । यादृशो हि शक्तिमदभिमतस्याकारस्तादृशस्यैव तेंद्विपरीतेऽपि तस्मिन्नवलोकनात् । तन्न तत्प्रतिपत्तौ प्रत्यक्षमवलम्बनं हेतोरेवावलम्बनत्वात् । न चायमसिद्धो हेतुः ; रूपादिकारणान्तरे -तस्य प्रसिद्धत्वात् पिहितलोचनादिवत् । तत्रापि रूपादेः परिणतिविशेषव्यतिरेकादेव तद्व्यतिरेको न लोचनादिव्यतिरेकादिति चेत् ; न ; अपिहितलोचनादेः २५ तत एव तत्कार्यदर्शनात् । न हि परिणतिविशेषविकलादेव कस्यचित्कार्यमषरस्य तद्व्यतिरेक इत्युपपन्नम् । अतो लोचनादिव्यतिरेकादेव तद्व्यतिरेक इति कथं न स तत्प्रतिपत्तावालम्बनम् ? भवत्येवालम्बनं ततस्तु नाक्षादेः सत्त्वं साधयितव्यं परकीयस्यापि तत्प्रसङ्गात् , अपि तु कार्यस्यैव तदपेक्षत्वमिति चेत् ; तदपि परकीयेन किन्न साध्येत ? आत्मीयेनैवाविनाभावादिति चेत् ; न ; सत्तासाधनेऽप्यस्यैव परिहारत्वात् । अपि च ;
१ उपदेशः । २ “भूतशब्दोऽत्र व्यन्तरविशेषवाची'-ता० टि० । ३ गोलकस्य रूपादिज्ञानहेतुत्वे । . ४ गोलके । ५ शक्तिशून्येऽपि गोल के । ६ रूपादिः कारणान्तराद्वयतिरेकस्य प्र-आ०, ब०, प० । ७ तदस्तु मा०, ब०, प०। ८ "रूपादिज्ञानस्यैव”-ता० दि०। ९ "प्रत्यक्षेण"-ता० टि० ।
३०