________________
न्यायविनिश्चयविवरणे
[२।१० अक्षादेस्तदपेक्षत्वमन्यच्चेत्तस्य सिद्धितः । नाक्षादिसिद्धिस्तस्यां वा कथं नातिप्रसज्यते ॥ १२६३ ॥ तत्सिद्धिरेव तत्सिद्धिरविनाभावतो यदि । हेतुसिद्धिर्भवेत्साध्यसिद्धिरित्यनुमा वृथा' ॥ १२६४ ॥ ततोऽपि तदपेक्षत्वात् कार्यधर्मान्तरस्य चेत् । सिद्धया तत्सिद्धिरुच्येत प्रादुष्यादनवस्थितिः ॥ १२६५ ॥ . साक्षात्तत्साधने व्यर्थं तदपेक्षत्वसाधनम् । हेतोरेवोदितात्तस्य तथा साधननिर्णयात् ॥ १२६६ ॥ अक्षादेस्तदपेक्षत्वस्याभेदे भिद्यते वचः ।
तत्सत्त्वं तदपेक्षत्वमिति साध्यं न वस्तुतः ॥ १२६७ ॥ यदि तदपेक्षत्वमक्षायेव न तर्हि तदपेक्षं तत्कार्यमिति सामानाधिकरण्यं व्यतिरेकात् , अन्यथा हेतुफलभावायोगादिति चेत् ; सत्यमिदं वस्तुवृत्तेन, वचनं तु केवलमपेक्षकप्राधान्येनापेक्ष्यमेव दर्शयत् सामानाधिकरण्यमुपदर्शयति । तस्मादुषपन्नम् अक्षादेस्तत्कार्यव्यतिरेकात् सत्त्वसाधनम् अविनाभावनिश्चयात् । एवमदृश्यस्यापि सत्तां प्रसाध्य तत्र परोक्त दूषणं प्रत्याचक्षाण आह
एतेनातीन्द्रिये भावकार्यकारणतागतेः।
तत्सत्ताव्यवहाराणां प्रत्याख्यानं निवारितम् ॥१०॥ इति । निवारितं निराकृतम् । किम् ? प्रत्याख्यानं प्रतिषेधवचनम् । केषाम् ? तत्सत्ताव्यवहाराणां तेषामतीन्द्रियाभावादीनां सत्ता विद्यमानता तद्व्यवहाराः तन्निर्णयादिरूषास्तेषामिति ।
अस्ति तत्प्रत्याख्यानं बौद्धस्य “अन्येषामदृश्यानां हेतुफलभावाभावविरोधासिद्धेः" [ ] २० इति वचनात् । कुतस्तन्निवारितम् ? इत्याह-अतीन्द्रिये अदृश्ये अभावश्च कार्यकारणता
च तयोः, उपलक्षणमिदं तेन विरोधस्यापि गतेः प्रतिपत्तेः । केन तद्गतिः ? एतेन अनन्तरन्यायेन । तथा हि
इन्द्रियादि हि तत्कार्यात् साधितं साधयत्यलम् । हेतुमन्यं स्वनिष्पत्तेस्तदभावे तदत्ययात् ॥ १२६८ ॥ तयोरदृश्ययोरेव कार्यकारणतागतेः । न हेतुफलनिर्णीतस्तत्रास्ति प्रतिषेधनम् ॥ १२६९ ॥ रूपज्ञानाद्यभावाच्च यदाक्षादेरभाववित् । अभावोऽयमदृश्यस्य कथन्नैवं प्रसिद्धिमान् ॥ १२७० ॥
१ "मा भूत्तदपेक्षत्वसिद्धिरेवाक्षादिसिद्धिरुक्तदोषात् , अपि तु प्राक्तनसाधनात्तदपेक्षत्वं सिद्धयदक्षादिकं साधयतीति साधनभेदात् सिद्धिभेदसिद्ध!क्तदोष इति चेत् ।" -ता० टि०। २ “भवतु तदपेक्षत्वसाधनादक्षादिसिद्धिस्तदपि तत्साघयद्रपादिकार्यगतधर्मान्तरं साधयति, तद्धर्मान्तरमक्षादिकं साधयतीति परम्परया तत्सिद्धर्वा साक्षाद्वा? न तावत्परम्परयेत्याह ।"-ता० टि.। ३-धासिद्धि-आ०, २० । ४-श्ये भाव-आ० ब०५०।