________________
२।११] ४
२ अनुमानप्रस्तावः कार्याभावात्प्रसिद्धच हेतुशक्तिनिषेधनम् । परस्यायनलाभावं धूमाभावेन जल्पतः ॥१२७१॥ नयनादिगुणस्यास्ति दोषेणानुमितेन यत् । विरोधावगतिस्तस्माददृश्येऽप्यस्तु तद्गतिः ॥१२७२॥ गुणवान्नात्र नेत्रादिमिथ्याज्ञानोपलम्भनात् । इत्थं विरुद्धकार्योपलम्भस्याप्युपपत्तितः ॥१२७३॥ अदृश्यानुपलम्भस्य संशयायैव कल्पनम् ।
वर्णयन्ति कथं नाम निपुणा वस्तुनिर्णये ॥१२७४॥ इदानीमतीन्द्रिये भावेत्यादिकमेव व्याचिख्यासुराह
व्याधिभूतग्रहादीनां विप्रकर्षेऽपि गम्यते ।
कुतश्चित्सदसद्भावविरोधप्रभवं तथा ॥११॥ इति ।। गम्यते बुध्यते । किम् ? सदसतो वश्व विरोधश्च प्रभवश्च हेतुफलभावः सदसद्भावविरोधप्रभवम् । कुतः ? कुतश्चित् आकारविशेषादेः। कथम् ? तथा तेनाऽन्यथानुपपत्तिप्रकारेण । केषाम् ? व्याधिभूतग्रहादीनाम् , आदिशब्दात् परचैतन्यानामपि । विप्रकर्षेऽपि अदृश्यत्वेऽपि । तथा हि
१५ अदृश्यस्यापि रोगादेहेतुत्वं कार्यजन्मनि । ततोऽपि तस्य सद्भावमसद्भावं विपर्ययात् ॥१२७५।। आरोग्यादिविरोधञ्च विप्रकर्षेऽपि तत्त्वतः ।
प्रतियन्तः प्रतीयन्ते निर्विवादं परीक्षकाः ॥१२७६।। यत्पुनरुक्तं धर्मोत्तरेण-"न घटे पिशाचस्य भिन्नस्याभावः साध्यते यतो दृश्यानुपलब्धिः स्यादपि त्वभिन्नस्य । एतदुपलभ्यमानं रूपं न भवति पिशाचे इति तत्रोपलभ्यमानत्वमभ्युपगम्य प्रतिषेधः क्रियते पिशाचस्येति दृश्यानुपलब्धिरेव यथा घटस्य दृश्यत्वमभ्युपगम्य यद्यत्र घटः स्यात् दृश्य एव भवेत् , तथा यद्ययं पिशाचः स्यात् दृश्यः स्यादित्येवं दृश्यमानरूपत्वमभ्युपगम्य नित्यत्वं निषिध्यत इति दृश्यानुपलब्धिरेव ।" [ ] इति । तन्न; घटवच्छरीरेऽपि तस्याभिन्नस्यैव प्रतिषेधप्रसङ्गात् । । न चैवम् , भिन्नस्यैव तत्र तत्कार्यानुपलब्ध्या परीक्षकैः प्रतिक्षेपात् ।
१ शक्तिहेतु-आ०, ब०, ५०। २ द्रष्टव्यम्-प्र० वा० ४॥३७७ । ३ "एवं प्रतिषेध्यस्य नित्यत्वञ्च दृश्यमानात्मत्वमभ्युपगम्य प्रतिषेधः कृतो भवति । वस्तुनोऽप्यदृश्यस्य पिशाचादेर्यदि दृश्यघटात्मत्वनिषेधः क्रियते दृश्यात्मत्वमभ्युपगम्य कर्तव्यः। यद्यथं दृश्यमानः पिशाचात्मा भवेत् पिशाचो दृष्टो भवेत् । न च दृष्टस्तस्मान्न पिशाच इति दृश्यात्मत्वाभ्युपगमपूर्वको दृश्यमाने घटादौ वस्तुनि वस्तुनोऽवस्तुनो वा दृश्यस्यादृश्यस्य च तादात्म्यनिषेधः । तथा च सति यथा घटस्य दृश्यत्वमभ्युपगम्य प्रतिषेधो दृश्यानुपलम्भादेव तद्वत् सर्वस्य परस्परपरिहारवतोऽन्यत्र दृश्यमाने निषेधो दृश्यानपलम्भादेव ।” -न्या०बि० टी० पृ. ५१ । ४ -चः त-आ०, ब०, प० ।