________________
न्यायविनिश्चयविवरणे
[२।११ अपि च, एवं परचैतन्यस्यापि शरीरादभिन्नस्यैव प्रतिषेधो न भिन्नस्येति कथं मृतप्रतिपत्तिः यतो नास्त्येव अदृश्यत्वेन संशयविषयत्वात् । नित्यत्वस्यापि यदि भावादभिन्नस्यैव प्रतिषेधो भिन्नमप्रतिषिद्धं भवेत् । अस्तु कल्पितमेव तन्न वस्तुत इति चेत् ; कुत एतत् ?
अप्रतिपत्तेश्चेत् ; अस्ति तदृिश्यानुपलब्धेरप्यभावगतिरिति न युक्तम् ‘एवम्' इत्यादि । ५ किञ्च, परमाणूनामपि घटेऽभिन्नानामेव प्रतिषेधः पिशाचवत् , शक्यो हि तत्रापि दृश्यत्वमभ्युपगम्य निषेधो यद्ययं परमाणुरूपः स्याद् दृश्यः स्यादिति ।
एवञ्च परमाणुभ्यो घटस्यान्यस्य सिद्धितः । नैयायिकमतं सुस्थमवयव्यनिराकृतेः ॥१२७७।। घटोऽणुसञ्चयात्मैव नैकः स्थूलोऽस्ति चेदसत् । एकश्चायं ज्ञानसन्निवेशीत्येवं विनिश्चयात् ॥१२७८॥ संवृत्या स न तत्त्वाचेत् स कथं दृश्यतां यतः ।
तदभेदात्पिशाचादेई श्यत्वमुपगम्यताम् ॥१२७९।। - न हि सांवृतस्य दृश्यत्वम् ; दर्शनस्य वस्तुविषयत्वात् , सांवृतस्य चावस्तुत्वात् । न चाणुसञ्चयो दर्शनविषयः स्थूलस्यैकस्यैव तद्विषयत्वेनानुभवात् , 'एकश्चायं ज्ञानसन्निवेशीत्येवं १५ विनिश्चयात्' इत्युक्तेः । ततो यदि तदभेदेन दृश्यत्वोपगमात् पिशाचे दृश्यानुपलब्धिः पर
माणुष्वपीति तेषामपि तदभिन्नानां प्रतिषेधात् कथं नावयविसिद्धिः ? तदभेदेनापि तत्रादृश्यत्वस्यैवोपगमे स एव पिशाचेऽपीति न तस्याभिन्नस्यापि घटादौ प्रतिषेधो दृश्यानुपलब्धेरभावात् , अन्यतश्च तदनुपगमात् । इदमेवाकलय्य देवैरन्यत्रोक्तम्
"अदृश्यानुपलम्भारेकैकान्तेऽयं न लक्षयेत् । पिशाचो नाहमस्मीति दृश्यादृश्याविवेकधीः॥" [सिद्धिवि० प० ३४८] इति ।
अदृश्यानुपलम्भादेवाभिन्नस्य प्रतिषेधे भिन्नस्यापि स्यात् व्याध्यादौ तथा तत्प्रतिपत्तेः । इत्युपपन्नम्-अदृश्यानुपलम्भस्याप्यभावसाधनत्वम् । व्याधीत्यादि अन्तरश्लोकः ।
कथं पुनरनुमानात् सत्तासाधनं तस्यावस्तुविषयत्वात् ? अवस्तु हि सामान्यं तस्य विषयो निदर्शनसमानस्यैव पावकादेस्तत्र प्रतिभासनात् । सामान्यस्य च विचार्यमाणस्य वस्तुत्वेनानवस्थानात् । सत्तायाश्च वस्तुरूपत्वादिति चेत् ; कथमिदानीं तस्य प्रामाण्यम् ? वस्तुनि प्रवर्तनात् , तदपि तद्विषयस्य वस्त्वेकत्वेनाध्यवसायादिति चेत् ; उच्यते-तदेकत्वं यदि वस्तुरूपमेव; सिद्धमनुमानस्य तद्विषयत्वम् ? अवस्तुरूपं चेत् ; कथं ततोऽपि तत्र प्रवर्तनमतिप्रसङ्गात् ? तस्यापि तदेकत्वेनाध्यवसायादिति चेत् ; न ; तत्रापि पूर्ववत्प्रसङ्गादनवस्थापत्तेश्च । किञ्चेदं सामान्यस्यावस्तुत्वम् ? सर्वशक्तिवैकल्यम् , तच्च विचारादिति चेत् ; सोऽपि न तदेवानुमानम् ; तेन तत्र वस्तुत्वस्यैवाध्यवसायात् , तस्यापि तल्लिङ्गस्येवातल्लिङ्गस्यापि
१ कथममृतप्रति-आ०, ब०, प० । २ “घटः"-ता. टि०। ३ भादेकैका-आ०, ब०, प० । ४ अनुमानस्य । ५ वस्तुविषयत्वम् । ६ विचारोऽपि ।
२०