________________
२७
२।१२]
२ अनुमानप्रस्तावः तदेकसाध्यत्वे वस्तुत्वाध्यवसायस्यैव भावात् , भिन्नसाध्येन च तस्याविषयीकरणात् । न चाविषयीकृतमवस्तु वस्तु वेति शक्यमवगन्तुम् । नापि प्रत्यक्षं विचारः ; तस्यापि स्वलक्षणनियतत्वेन तत्राप्रवृत्तेः , प्रवृत्तौ वा प्रमेयाभावान्नानुमानं भवेत् । नाप्यन्यत्प्रमाणम् ; तवयनियमव्याघातात । नाप्यप्रमाणम् ; ततः कस्यचित्तत्त्वनिर्णयायोगात् , प्रमाणचिन्तावैफल्यात् । तन्न तस्यावस्तुत्वं कुतश्चिदपि सुनिश्चयम् । निश्चयेऽपि न तस्य वस्त्वेकत्वा- ५ ध्यवसायो येन प्रवर्तकत्वात् प्रामाण्यमनुमानस्य निगदितोत्तरत्वात् ।
___भवतु तर्हि संवादादेव वस्तुनि तस्य प्रामाण्यम् , सोऽपि तस्मादात्मलाभादिति चेत् ; स कुतोऽवमन्तव्यः ? नानुमानात् ; वस्तुनस्तेनावेदनात् । नापि वस्तुप्रत्यक्षेण ; अनुमाने तस्याप्रवृत्तेः । न च तद्वयोरेकाविषयत्वे तत इदमिति प्रतिपन्नः संवादः । संवादाच्च प्रामाण्ये अतिप्रसङ्गमाह -
__ प्रमाणमर्थे संवादाद भ्रान्तिरध्यवसायतः । इति ।
भ्रान्तिः अतस्मिंस्तद्ग्रहो मणिप्रभामणिज्ञानादिः, प्रमाणम् । कुतः ? अर्थे मण्यादौ संवादाद अविप्रतिसारात् । स एव कस्मात् ? अध्यवसायतः। अध्यवसायो य एव दृष्टः स एव प्राप्तः इत्यभिप्रायः तस्मात्तत इति । प्रसिद्धश्चैतत् परस्मात्-( 'परस्यापि ) "अविसंवादनमभिप्रायनिवेदनात्" [प्र. वा. १।३ ] इति वचनात् । इष्टमेव तत्र १५ प्रामाण्यं प्रत्यक्षत्वेन तत्कथमतिप्रसङ्ग इति चेत् ? न ; भ्रान्तेस्तत्त्वानुपपत्तेः । अप्रतिपन्नव्यभिचारस्य न तत्र भ्रान्तिबुद्धिरपीति चेत् ; न तहमिं प्रत्यनुमानप्रामाण्ये तन्निदर्शनम् । भ्रान्तमपि यथेदं प्रमाणं तथानुमानमपीति भ्रान्तिविदं प्रत्येव तत्तत्र निदर्शनमिति चेत् ; इतरं प्रति तन्निरपेक्षमेव यदि तत्सिद्धछ तीति तथैव तद्विदं प्रत्यपि सिद्धयतीति व्यर्थमेतत् “मणिप्रदीपप्रभयोः" [प्र० वा० २।५७ ] इत्यादि । तद्विदं प्रत्यपि नानुमानत्वेन निदर्शनं २० विप्रतिपत्तिविषयत्वेन साध्यान्तःपातित्वात् , अतः प्रमाणान्तरमेव सेति कथन्नातिप्रसङ्गः ? तन्न संवादादपि प्रामाण्यमनुमानस्य आप तु वस्तुविषयत्वादेव ।
यद्येवं तदेवं स्पष्टावभासित्वमपीति कथमनुमानत्वम् ? लिङ्गजत्वादिति चेत् ; न ; तथापि परोक्षलक्षणस्यावैशद्यस्याभावेन तत्त्वानुपपत्तेः । परोक्षं च जैनस्यानुमानम् । एतदेवाह
प्रत्यक्षाभेप्रसङ्गश्चेत् [तथाऽनभिनिवेशतः] ॥१२॥ इति । २५
प्रत्यक्षमिव स्पष्ठत्वेनाभातीति प्रत्यक्षाभमनुमानं तस्मिन् अप्रसङ्गः प्रसङ्गाभावः प्रक्रमादनुमानत्वस्य । ततो वस्तुविषयत्वं तस्य ब्रुवतां तदेव निलु तमिति परस्याकूतम् । चेदिति तद्योतने । तत्रोत्तरमाह-"तथानभिनिवेशतः' इति । तथा तेन स्पष्टाभप्रकारेण अनभिनिवेशतः अनध्यवसायात् प्रसङ्ग इति । प्रसङ्गाप्रसङ्गयोः संहितायां समानत्वात् पूर्वत्राप्रसङ्गस्य अत्र च प्रसङ्गस्य सम्बन्धः । न हि वस्तुविषयत्वात् तदाभत्वमपि तु अन्तरङ्गादेव ३० कारणविशेषात् , अन्यथा दूरे क्वचिन्नरस्य दूरतरे गृद्धादेः दूरतमे च योगिनोऽवस्थितस्य एकवस्तुविषयमेकप्रतिभासमेव विज्ञानं भवेत् , न चैवम् , स्पष्ट-स्पष्टतर-स्पष्टतमभेदेन तद्भावात् । न च तत्र प्रतिप्रतिभासं विषयस्य भेदः; तस्यासाधारणतया बहिरर्थत्वाभावप्रसङ्गात् । अन्तरङ्गात्तु
१ बौद्धस्यापि । २ भ्रान्तिविदम् । ३ वस्तुविषयत्वमेव । ४ तत्तत्प्रतिपत्तृज्ञानविषयतया अनन्यवेद्यत्वं स्यात् , तथा च बहिरर्थत्वाभावः।