________________
न्यायविनिश्चयविवरणे
[२।१३ तदाभत्वे नायं दोषः ; एकविषयस्यापि तद्विशेषात् प्रतिभासविशेषोपपत्तेः । एतदेवाह
दूरदूरतराविस्थैरेकं वस्तु समीक्ष्यते । इति । सुगममेतत् । कथं समीक्ष्यते ? इत्याह[ नानाभं स्यात्तथाऽसत्यं न चेद्वस्त्वनुरोधि किम् ? ॥१३॥]
नानाभं वैशद्यतारतम्ये नानैकप्रतिभासं वस्तुविषयत्वात् । तदाभत्वे दूषणान्तरमाह'स्यात्तथाऽसत्यं न' इति । तथा तेन प्रत्यक्षाभप्रकारेण असत्यम् अविद्यमानं कामिन्यादि न स्यात् । अस्ति चाविद्यमानस्यापि तस्य तदाभत्वम् । परस्यापि "अभृतानपि पश्यन्ति” [प्र० वा० २।२८२ ] इति ब्रुवाणस्य प्रसिद्धत्वात् । तन्न वस्तुविषयत्वात्तदाभत्वं यतोऽनुमानेऽपि ततस्तदापत्त्या प्रत्यक्षत्वप्रसङ्ग इति भाव।।
कथं पुनः कामिन्यादेरसत्यत्वं ज्ञानरूपतया तस्यापि सत्यत्वात् ? 'अभूतानपि' इति वचनं बाह्यत्वापेक्षयैव । न चैवं पुरतोभावस्य विरोधः तस्य ग्राहकान्तरापेक्षत्वात् , स्वात्मनि च ग्राहके तदनुपपत्तेरिति मन्तव्यम् ; तस्यापि वेद्यवेदकभेदकल्पनादुपपत्तेः । ज्ञानात्मकत्वञ्च तस्य 'प्रतिभासमानत्वात् सुखादिवत् ' इत्यनुमानात् । न च सत्यकामिन्यादिना
व्यभिचारः; तस्यापि पक्षीकरणात् । ततो ज्ञानमेवास्ति न बाह्यमिति चेत् ; एतदेवाह-'न १५ चेद्वस्तु' इति । नञो मध्यदीपकत्वेनात्रापि सम्बन्धात् । न यदि वस्तु बाह्यं प्रक्रमात् ।
अत्र दूषणमाह-'अनुरोधि किम्' इति । अनुरोधः स्वीकारः सोऽस्मिन्नस्तीत्यनुरोधि पराभिमतं ज्ञानम् । तत्किम् ? नैव । तथा हि-न तन्नीलमेव तस्य बाह्यस्याप्यविरोधात् । अपरोक्षत्वेन विशिष्टमिति चेत् ; तदपि यदि नीलमेव कथं तदेव तेन विशिष्टं नाम ? कथं वा तद् बाह्यं न भवेत् ? अन्यदेव चेत् ; तदेव ज्ञानं स्यात् न नीलम् । भवत्वसदेव तदिति चेत् ; न ; प्रतिभासात् । सोऽप्यसत एवेति चेत् ; न; स्वतस्तदयोगात् । ज्ञानादिति चेत् ; न; "नान्योऽनुभाव्यो बुद्धयास्ति" [प्र० वा० २।३२७ ] इत्यस्य विरोधात् । विभ्रमादिति चेत् ; तस्यापि विज्ञानत्वे तदयोगात् । तत्रापि विभ्रमान्तरकल्पनायामनवस्थापत्तेः । अज्ञानत्वे तु न ततः तत्प्रतिभासो विरोधात् , बहिर्भावप्रत्युज्जीवनाच्च । तन्नासत्त्वे तस्य प्रतिभासः। तदभावे ज्ञानमपि न भवेत् तस्यापि निर्भेदस्याप्रतिवेदनात् इत्युपपन्नमेतत्-'अनुरोधि किम्' इति । यदि तु न ज्ञानं नीलमात्रम् अपरोक्षत्वमानं वा तदुभयरूपत्वात्तस्येति; तदा स्वपरविषयतयापि द्वैरूप्यापत्तेः कथं बाह्यस्य सतोऽसतो वा न ततः प्रतिपत्तिः यतो 'दूर' इत्यादि न स्यात् , 'तथा सत्यं न' इति च सूक्तं न भवेत् । तन्न वस्तुविषयत्वादेवानुमानस्य स्पष्टत्वं दूरस्थादिज्ञानानां तद्विशेषाभावप्रसङ्गात् , अवस्तुविषये च तदभावापत्तेः ।।
__ अथवा यद्यस्पष्टावभासित्वादनुमानमवस्तुविषयं प्रत्यक्षमपि कथञ्चित्तथा भवेदित्याह-- ३० 'दूर' इत्यादि । दूरदूरतरयोः आदिशब्दादासन्नासन्नतरयोस्तिष्ठन्तीति तत्स्थास्तैः ५कं
पादपादिलक्षणं वस्तु समित्यविप्रतिसारेण ईक्ष्यते दृश्यते । कथम् ? नानाभं दूरादावस्पष्टादित्वेन आसन्नादौ स्पष्टादित्वेनानेकप्रतिभासमेकमिति । आसन्नादिप्रतिभासमेव सत्यं नेतरदिति चेत् ; उत्तरम्-तथा तेन नानाभमिति प्रकारेण सत्यमवितथं वस्तु । यद्येवं दूरादिव
१ क्षयोपशमविशेषात् । २ अविसंवादितया।