________________
२।१३ ]
२ अनुमान प्रस्तावः
५
दासन्नादावपि किमस्पष्टादितया तन्न दृश्यत इति चेत् ? न; संसारिज्ञानस्यासकलप्राहित्वात्, अन्यथा परमाणूनां नीलादिनेव परस्परविवेकेनापि दर्शनात् न क्वचित् स्थूलप्रतिभास: स्यात् । न च तदपह्नवः, सर्वत्र तत्प्राप्तेः । अपहनुतोऽपि विकल्पादेवासौ न दर्शनादिति चेत्; न; ततोऽप्यतदाकारात्तद्योगात् । तदाकारत्वे वस्तुतः परमाणुस्वलक्षणवादव्यापत्तिः । भ्रान्त्या तस्यापि तदाकारत्वमिति चेत्; न; ततस्तद्विवेकस्य दर्शने भ्रान्तेरयोगात् । अदर्शने सर्वात्मनाप्यदर्शनप्रसङ्गात् । असकलदर्शने तु सिद्धं परमाणु विवेकस्याप्यदर्शनम् । तद्वदासन्नादावस्पष्टादेरपि । विकल्पेऽपि विकल्पान्तरादेव तत्प्रतिभासो न स्वत इति चेत्; न; तत्रापि पूर्वदोषादनवस्थापत्तेश्च । ततो दूरमुपसरतो दृश्येतरात्मकस्वस्याशक्यपरित्यागत्वादुपपन्नं तद्वदेव कचिदस्पष्ठेतरस्वभात्वमपि । कथं पुनरस्पष्टस्येतरेण क्वचित्समुच्चयो बाधनस्यैवोपपत्तेर्विरोधात् ? अन्यथा चन्द्रमसि द्वित्वस्याप्येकत्वेन समुच्चयात्तदपि तात्विकमेवेति मिध्याज्ञानविलोपः स्यात्, न १० चैवम्, अतो द्वित्ववदसत्य एवास्पष्टस्वभाव इतरेण बाधनात् ; इत्यपि न सङ्गतम् ; दृश्येतरेण समुच्चयेऽपि समानत्वात् । न हि स्वलक्षणेषु विवेकः कुतश्चिदवस्थाप्यमानः स्थूलस्वभावमबाधित्वा अवस्थातुमर्हति । सत्यम्, असत्य एव स' इति चेत्; क इदानीं सत्यस्वभावः स्यात् ? नीलादिरिति चेत्; न; तस्यापि स्थूलादभेदेन प्रतिपत्तेः, तदसत्यत्वे सत्यत्वानुपपत्तेः ।
.अन्यथा
१५
२९
स एव सत्योsसत्यश्च नीलादिरिति ते कथम् ? समुच्चयप्रवादोऽयमनिष्टोऽपि प्रवर्तताम् ॥ १२८० ॥ सत्य एव स चेत्स्थूले तदभेदेन सत्यता ।
परमाणुप्रवादं ते भद्र भद्राकरोत्यलम् ।। १२८१ ॥
असत्य एव नीलादिर्यदि प्रत्यक्षवेद्यता ।
कस्येदानीं प्रवृत्तस्य यतः स्यादीहितस्थितिः ? ॥ १२८२ ॥
"
'एतदेव दर्शयति- न चेत् न यदि । सत्यम्, अस्पष्टादिप्रतिभासं वस्तुतत्त्वम् अनुरोधि स्वीकारविषयः । किम् ? न किञ्चित् उक्तनीत्या नीलादेरप्यसत्यत्वात् ततो नीलादावसत्यस्येतरेण समावेशो वक्तव्यः, तद्व दस्पष्टस्येतरेण अविशेषात् । नीलस्येतरेण किन्न स इति चेत् ? न, तत्र लोकाभिप्राणेय बाधनस्यैव भावात् । न चैवमस्पष्टादौ तदभिप्राय: - ' स एव २५ दविष्ठता होना अधिष्ठितो वृक्ष:' इति तद्भावात् । ननु पूर्वमन्तरङ्ग निबन्धनत्वेनावस्तुरूपत्वमस्पष्टत्वादेरुक्तम् इदानीं तु स्वभावत्वम्, तत्कथन्न विरोध इति चेत् ? न; इदानीमपि परामुरोधादेव तद्वचनात् । परो हि बाह्यस्यासतोऽपि लोकबुद्ध्या वस्तुत्वमन्विच्छन्नस्पष्टस्याप्यन्वेष्टुमर्हति तद् विशेषात् । एवमपि कथं तज्ज्ञानस्य प्रत्यक्षत्वं विस्पष्टज्ञानस्यैव तदुपगमादिति चेत् ? न ; तस्यापि परापेक्षयैवाभिधानात् । न तावत्तज्ज्ञानमप्रमाणम् ; अविप्रतिसारात्, ३० तल्लक्षणत्वादन्यत्रापि प्रामाण्यस्य । नाप्यनुमानम् ; लिङ्गाभावात् । तदेव लिङ्गमिति चेत्; न; तज्जनितस्य ज्ञानान्तरस्याप्रवेदनात् । प्रवेदनेऽपि न तत्स्पष्टम् ; अनुमानत्वात् । अस्पष्टमपि कथं प्रमाणम् ? साध्यं प्रत्यविनाभावादिति चेत्; न; लिङ्गस्यैव तत्त्वप्रसङ्गात् । तज्ज्ञानजनकत्वाच्चेत्; न; अनुमानानवस्थोपनिपातात् । तद्विषयत्वाच्चेत्; सिद्धो नः सिद्धान्तः
१ स्थूलस्वभावः । २ यत एव आ०, ब०, प० ।
२०