________________
३०
न्यायविनिश्चयविवरणे
[२।१४ प्रथमस्यापि तत एव तत्वोपपत्तेः। तथा च प्रत्यक्षमेव तद् गत्यन्तराभावादिति सिद्धं तस्य स्पष्टज्ञानेनैकविषयत्वम् । ततो यदुक्तम्-'यद्यस्माद् भिन्नप्रतिभासं न तत्ते नैकविषयं यथा रूपज्ञानाद्रसाविज्ञानम् , भिन्नप्रतिभासं चानुमानं प्रत्यक्षात् ।' [ ] इति ; तन्निपिद्धम् ; दूरवृक्षवेदनेन व्यभिचारात् , तस्यास्पष्टावभासित्वेन आसन्नतद्वेदनात ५ भिन्नप्रतिभासित्वेऽपि तदेकार्थत्वात् । एतदेव दर्शयन्नाह
तस्मादनुमितेरर्थविषयत्वनिराकृतिः।
प्रतिभासभिदायाः किमेकस्यानेकतो ग्रहात् ॥ १४ ॥ इति । अनुमितेः अनुमानस्य अर्थविषयत्वनिराकृतिः वस्तुप्रतिभासवत्त्वप्रत्याख्यानम् । कुतः ? प्रतिभासभिदायाः प्रतिभासस्य तदाकारस्य भिदा भेदो स्पष्टतालक्षणः तस्याः । १० किम् नैव । कस्मात् ? तस्मात् अनन्तरोत्तात् । कस्मात् ? एकस्यानेकतो ग्रहात् ।
एकस्य पादपादेरनेकतोऽनेकेनास्पष्टास्पष्टतरादिरूपेण अनेकेन वा ज्ञानेनास्पष्टादिप्रतिभासिना ग्रहणं ग्रहस्तस्मात् । एतदुक्तं भवति-दूरभूरुहादिज्ञानेन प्रतिभासभेदस्य व्यभिचारात् न ततः तन्निराकृतिरिति । यदि प्रत्यक्षैकार्थमनुमानं गृहीतग्राहित्वात् कथं प्रमाणम् ? क्षणक्षयादेरतद्विषय
स्यापि ग्रहणादिति चेत् ; न; तस्यातद्विषयत्वे तद्विपर्ययस्य तद्विपयत्वं स्यात् गत्यन्तराभावात् , १. तथा च सुतरामप्रामाण्यमनुमानस्य तेन बाधनात् , प्रत्यक्षस्य वा तत्प्राप्तं "तेन बाधनात् ।
न चैतन्न्याय्यं तदप्रामाण्ये तस्यैवाभावप्रसङ्गात् तत्पूर्वकत्वात् । तन्न क्षणक्षयादेरतद्विपयत्वं यतोऽपूर्वार्थत्वमनुमानस्येति चेत् ; मा भूत् , तथापि नाप्रामाण्यं यथार्थत्वात् । अपूर्वार्थमेव ततोऽपि प्रमाणं नापरमिति चेत् ; कुत एतत् ? तत एव प्रयोजनादिति चेत् ; किं तत्प्रयोजनम् ? अधिगमश्चेत् ; न; तस्यानुमानेऽपि भावात् । परितोषोऽनेन व्याख्यातः । प्रवृत्तिरिति चेत् ; न तर्हि स्वसंवेदनं प्रमाणम् , ततोऽपि तदर्भावात् । क चेयं प्रत्यक्षात् प्रवृत्तिः ? न क्षणे तस्य प्रवृत्तिकालेऽनन्वयात् । नापि सन्ताने ; तस्य तेनाग्रहणात् । ग्रहणेऽपि नापूर्वार्थत्वम् ; पूर्वमपि तस्यान्यतोऽधिगमात् इत्यपूर्वार्थं प्रमाणयतः प्रत्यक्षमप्यप्रमाणं प्राप्तम् । अर्थाधिगमात्तु प्रामाण्यं नानुमानेऽपि प्रातिकूल्यमुद्घोषयति ।
किञ्च, कथञ्चिदपूर्वार्थमेवानुमानं तद्विषयस्य क्षणक्षयादेः प्रत्यक्षेणाग्रहणात् , न .. तावता तद्विपर्ययस्य तेन ग्रहणं तदुभयधर्मसाधारणस्य नीलादेरेव ग्रहणात् सदसत्त्वसाधारणस्येव
भ्रान्त्या । न हि तया तद्विषयसत्त्वग्रहणम् ; भ्रान्तित्वापत्तेः । नाप्यसत्त्वस्य वेदनम् ; अप्रवृत्तिप्रसङ्गात् । न हि तत एव तद्विषयस्यासत्त्वं प्रतिपद्यमानः तदर्थितया प्रवर्तितुमर्हति । प्रतिपद्यमानोऽपि सत्त्वसमारोपात् प्रवर्तत इति चेत् ; न; "तस्याप्रवेदनात् । प्रवेदनेऽपि तद्विपयस्याप्य
सत्त्वं यदि तत एवागम्येत स एव प्रवृत्त्यभावः । तत्रापि तत्समारोपकल्पनायामनवस्थापत्तिः । १. ततः सदसत्त्वसाधारणं नीलधवलादिकमेव भ्रान्तेविषयः तद्वत् प्रत्यक्षस्यापि क्षणभङ्गतद्विपर्यय
१ क्षणक्षयादेः प्रत्यक्षाविषयत्वे । २ नित्यत्वादेः। ३ नित्यत्वादिग्राहिणा प्रत्यक्षेण । ४ अप्रामाण्यम् । ५ क्षणिकत्वादिग्राहिणाऽनुमानेन । ६ प्रत्यक्षपूर्वकत्वात् । ७ यथार्थत्वादपि । ८ प्रवृत्यभावात् । ९ नित्यत्वादेः। १० सत्वसमारोपस्य ।