________________
२।१५]
२ अनुमानप्रस्तावः
३१
साधारणमिति कथं तदधिगतार्थमनुमानं यतः प्रामाण्यं न भवेत् ? असाध्यविषयत्वे प्रत्यक्षस्य कथं ततो व्याप्तिग्रहणमिति चेत् ? न; विपक्षे बाधकसामर्थ्यादेव तद्ग्रहणात् । साध्यविषयत्वे तु तस्य किमर्थमनुमानम् ? समारोपव्यवच्छेदार्थमिति चेत् ; तदभावे किं न भवेत्ततो विषयपरिज्ञानमिति चेत् ; व्याप्तिवेदनं कथम् ? तदपि तद्वयवच्छेदादेवेति चेत् ; न ; चक्रकात्-सति तद्वयवच्छेदे तद्वेदनम् , ततोऽनुमानम् , ततस्तद्वयवच्छेदे इति । ततो नीलादेः प्रत्यक्षावगतस्यैव क्षणभङ्गादि- ५ विशिष्टतया अनुमानतो निर्णयादुपपन्नं तस्य तदेकार्थत्वमपूर्वार्थत्वञ्चेति वस्तुविषयमेवानुमानम् । कथमेतत् ? कथं च न स्यात् ? सम्बन्धापरिज्ञानात् । तथा हि-न साध्यसाधनयोरपरिज्ञाने सम्बन्धपरिज्ञानम् ; तस्य तत्पूर्वकत्वात् । परिज्ञानेऽपि न निर्विकल्पेन तत्परिज्ञानम् ; 'इदमत्र प्रतिबद्धम्' इत्यपरामर्शात् । नापि तज्जन्मना विकल्पेन; तत्काले साध्यसाधनयोस्तदर्शनस्य च व्यपगमात् । विकल्पोपनीतयोस्तत्परिज्ञाने कथं वस्तुगतः सम्बन्धः, तदुपनीतयोरवस्तुत्वात् ? १० भवदपि तत्परिज्ञानं न सामस्त्येन ; साध्यसाधनवस्तूनामानन्त्यात् अनन्तेनापि कालेन तदसम्भवात् । नाप्येकदेशेन ; फलाभावात् । अनुमानं हि तत्फलम् , न च यत्रैव तत्परिज्ञानं तत्रैवानुमानं सम्बन्धज्ञानादेव साध्यसिद्धेः । नाप्यन्यत्र ; तत्र तत्साधनादेरभावात् , अन्यतश्च तद. नुपपत्तेः । सम्बन्धप्रतिपत्तिनिबन्धनस्य च प्रकारान्तरस्याभावादिति चेत् ; किमिदानीमनुमानमेव नेच्छेत् ? तथा चेत् ; न कुतश्चिदभिमतसिद्धिः । निवेदितञ्चैतत् । इच्छतोऽपि तदवस्तुविषय- १५ मेवेति चेत् ; न ; अवस्तुन्यपि सम्बन्धापरिज्ञाने तदनुपपत्तेः । तत्परिज्ञानस्य चोक्तनीत्या तत्राप्यसम्भवात् । किमर्थं वा तदनुमानम् ? व्यवहारार्थमिति चेत् ; न ; व्यवहारस्यावस्तुन्यसम्भवात् मरीचिकातोयादिवत् । वस्तुन्येवासौ तत्रानुमानस्य प्रतिबन्धादिति चेत् ; न ; तत्परिज्ञानेऽपि पूर्ववदोषात् । न दोषः, देशकालादिविशेषपरामर्शमन्तेरणापि ईदृशमीदृशप्रतिबद्धम्' इति कुतश्चित्प्रतिपत्तेः । नापि वैकल्यमनुमानस्य पुनस्तादृशादेव विशेषालिङ्गिताल्लिङ्गाल्लिङ्गि- २० विशेषस्य प्रतिपत्तेरिति चेत् ; सिद्धं तर्हि वस्तुष्वेव प्रतिबन्धपरिज्ञानमनुमानस्य च साफल्यम् । एतदेवाह
समानपरिणामात्मसम्बन्धप्रतिपत्तितः।
तत्राशक्तिफलाभावौ न स्यातां लिङ्गलिगिनोः ॥१५॥ इति । समानः सदृशः स चासौ परिणामश्च विवर्तः स एवात्मा स्वभावस्तेन , सम्बन्धस्याविनाभावस्य प्रतिपत्तितः परिज्ञानात् । कैयोस्तत्प्रतिपत्तितः ? इत्याह-लिङ्गलिगिनोः लिङ्गस्य धूमादेः लिङ्गिनश्च पावकादेः । ततः किम् ? इत्याह-तत्र तस्यां प्रतिपत्तौ तत्रानुमाने चाशक्तिश्च फलाभावश्च न स्यातां न भवेताम् । समानग्रहणेनात्यन्तवैलक्षण्यं स्वलक्षणानां प्रत्युक्तम् , तथाविधानां तेषामप्रतिपत्तेः । निरूपितं चैतत् । परिणामग्रहणेन समानाकारस्य कौटस्थ्यम् ; तस्याप्यपरिज्ञानाद्वैफल्याच्च । तत्र सम्बन्धप्रतिपत्तिः फलमिति चेत् ; न ; तस्यैवानुमानविषयत्वप्रसङ्गात् , तथा च कथं विशेषे ततः प्रवृत्तिः ? तस्य॑ तत्र सम्बन्धादिति चेत् ; लिङ्गस्यैव तंत्र किन्न स्यात् तत्परिज्ञानाशक्तेरन्यत्रापि तुल्यत्वात् । प्रवृत्तिरपि सामान्य एवेति चेत् न;; विशेषकल्पनावैफल्यानुषङ्गात् । आत्मपदेन च तत्परि
-नुमानस्य ता०। २-षात्त्रिलिंगत्वाल्लिगा-आ०, ब०, प०। ३ तयो- आ०, ब०, प० । ४ "प्रत्युक्तमिति प्रागुक्तमत्रापि सम्बन्धनीयम् ।"-ता. टि. । ५ सामान्ये । ६ सामान्यस्य । विशेषे । ८-पविक-आ०, ब०, प० ।