________________
३२
न्यायविनिश्चयविवरणे
[ २।१५
णामस्य कल्पितत्वम्' ; कल्पितस्य वस्तुस्वभावत्वानुपपत्तेः, कल्पनानुपपत्तेश्च । तथा हि
कल्पना सदृशाकारा न चेत्तत्कल्पनं कथम् ? । वस्तुतः सदृशाकारा सा चेद्वस्तु न
२०
यदि कल्पनयैवासौ तदाकारा अनवस्थानदोषोऽयमनुषङ्गी
२५
किं तथा ? ॥१२८३॥
तेन सम्बन्ध इत्यनेनाप्यात्मान्तरेण सम्बन्धव्याख्यानम् ; न हि सम्बन्धस्यात्मान्तरमन्यत्र सन्धिरूपात् । संयोगादिरात्मान्तरमेवेति चेत्; सोऽपि कथं तदन्तरम् ? पावकादौ १० सम्बन्धप्रत्ययजननादिति चेत्; तदपि सर्वत्र कस्मान्न भवति ? तस्य तत्रासम्बन्धादिति चेत् ; पावकादावपि न भवेत् तदविशेषात् । तत्र सम्बध्यत इति चेत्; यदि स्वतः ; पावकादिरपि धूमादिना तथैव सम्बध्येतेति पर्याप्तं संयोगादिपरिकल्पनया । तस्य सम्बन्धत्वादुपपन्नः स्वतः सम्बन्धो न पावकादेर्विपर्ययादिति चेत्; तदेव कुत: ? स्वतः सम्बन्धादिति चेत्; सोऽपि कस्मात् ? सम्बन्धत्वाच्चेत्; न; परस्पराश्रयात् । सम्बन्धत्वं तथा प्रतीतेरिति चेत् ; नन्वियमेव तत्र दुर्लभा पावकादिव्यतिरेकेण तस्यैवाप्रतिपत्तेः । यदि न तत्प्रतिपत्तिर्न कश्चित्सम्बन्ध कथं 'सम्बन्धी पावकादि:' इति प्रत्यय: ? विशिष्टप्रत्ययस्यासति विशेषणेऽनुपपत्तेरिति चेत् ; न; स्वयं तथा तस्य परिणामादेव तदुपपत्तेः 'सम्बन्धः 'संयोगादिः' इति प्रत्ययवत् । न हि तद्विलक्षणं तत्रान्तर्भवति तदा पदार्थभेदाभावापत्तेः । तन्न स्वतस्तस्य तत्र सम्बन्धः । नापि तदन्तरेण ; तत्कल्पनायामनवस्थादोषात् । नायं दोष: ; समवायस्य तदन्तरत्वात्, तस्य चानाश्रितत्वेन तदन्तरनिरपेक्षत्वात् । न चैवं तस्यासम्बन्धत्वम् ; सम्बन्धबुद्धिकरणात् सम्बन्धत्वोपपत्तेः । न च पारतन्त्र्यात्सम्बन्धत्वं तद्बुद्धिकरणं वा ; द्रव्यगुणादावपि तत्प्रसङ्गात् । ततः स्वाभाव्यादेव तस्य तत्त्वं तत्करणचेति किं पारतन्त्र्येण यतोऽनवस्थानमिति चेत् ? उच्यते
१५
तदा कथम् ।
निषिध्यताम् ? ॥ १२८४ ॥
ततो दूरं गतेनापि सादृश्यं कल्पनागतम् ।
वस्त्वेव प्रतिपत्तव्यं तथा वस्तुषु धीमता ।। १२८५ ॥
समवायस्य
नित्यत्वव्यापकत्वोपकल्पनात् ।
एकत्र वृत्तः संयोगः सर्वत्रापि ततो भवेत् ॥ १२८६ ॥
न हि तत्रापि तद्भावे तस्मादन्यनिबन्धनम् ।
से चेत्सर्वत्र सर्वत्र संयोगोऽपि नियोगतः ।। १२८७ ॥
१" प्रत्युक्तमिति सम्बन्धः " ता० टि० । ४ संयोगादिति प्र - ता० । ५ न चेत्स - आ०, ब०, प० ।
ततोऽग्नाविव संयोगं धूमोऽन्यत्राप्युपत्रजन् । व्यभिचारात्कथं नाम पावकस्यानुमापक: : ।। १२८८ ॥
२ स्वरूपान्तरेण ।
३ प्रत्युक्तमिति सम्बन्धः ।