SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ३२ न्यायविनिश्चयविवरणे [ २।१५ णामस्य कल्पितत्वम्' ; कल्पितस्य वस्तुस्वभावत्वानुपपत्तेः, कल्पनानुपपत्तेश्च । तथा हि कल्पना सदृशाकारा न चेत्तत्कल्पनं कथम् ? । वस्तुतः सदृशाकारा सा चेद्वस्तु न २० यदि कल्पनयैवासौ तदाकारा अनवस्थानदोषोऽयमनुषङ्गी २५ किं तथा ? ॥१२८३॥ तेन सम्बन्ध इत्यनेनाप्यात्मान्तरेण सम्बन्धव्याख्यानम् ; न हि सम्बन्धस्यात्मान्तरमन्यत्र सन्धिरूपात् । संयोगादिरात्मान्तरमेवेति चेत्; सोऽपि कथं तदन्तरम् ? पावकादौ १० सम्बन्धप्रत्ययजननादिति चेत्; तदपि सर्वत्र कस्मान्न भवति ? तस्य तत्रासम्बन्धादिति चेत् ; पावकादावपि न भवेत् तदविशेषात् । तत्र सम्बध्यत इति चेत्; यदि स्वतः ; पावकादिरपि धूमादिना तथैव सम्बध्येतेति पर्याप्तं संयोगादिपरिकल्पनया । तस्य सम्बन्धत्वादुपपन्नः स्वतः सम्बन्धो न पावकादेर्विपर्ययादिति चेत्; तदेव कुत: ? स्वतः सम्बन्धादिति चेत्; सोऽपि कस्मात् ? सम्बन्धत्वाच्चेत्; न; परस्पराश्रयात् । सम्बन्धत्वं तथा प्रतीतेरिति चेत् ; नन्वियमेव तत्र दुर्लभा पावकादिव्यतिरेकेण तस्यैवाप्रतिपत्तेः । यदि न तत्प्रतिपत्तिर्न कश्चित्सम्बन्ध कथं 'सम्बन्धी पावकादि:' इति प्रत्यय: ? विशिष्टप्रत्ययस्यासति विशेषणेऽनुपपत्तेरिति चेत् ; न; स्वयं तथा तस्य परिणामादेव तदुपपत्तेः 'सम्बन्धः 'संयोगादिः' इति प्रत्ययवत् । न हि तद्विलक्षणं तत्रान्तर्भवति तदा पदार्थभेदाभावापत्तेः । तन्न स्वतस्तस्य तत्र सम्बन्धः । नापि तदन्तरेण ; तत्कल्पनायामनवस्थादोषात् । नायं दोष: ; समवायस्य तदन्तरत्वात्, तस्य चानाश्रितत्वेन तदन्तरनिरपेक्षत्वात् । न चैवं तस्यासम्बन्धत्वम् ; सम्बन्धबुद्धिकरणात् सम्बन्धत्वोपपत्तेः । न च पारतन्त्र्यात्सम्बन्धत्वं तद्बुद्धिकरणं वा ; द्रव्यगुणादावपि तत्प्रसङ्गात् । ततः स्वाभाव्यादेव तस्य तत्त्वं तत्करणचेति किं पारतन्त्र्येण यतोऽनवस्थानमिति चेत् ? उच्यते १५ तदा कथम् । निषिध्यताम् ? ॥ १२८४ ॥ ततो दूरं गतेनापि सादृश्यं कल्पनागतम् । वस्त्वेव प्रतिपत्तव्यं तथा वस्तुषु धीमता ।। १२८५ ॥ समवायस्य नित्यत्वव्यापकत्वोपकल्पनात् । एकत्र वृत्तः संयोगः सर्वत्रापि ततो भवेत् ॥ १२८६ ॥ न हि तत्रापि तद्भावे तस्मादन्यनिबन्धनम् । से चेत्सर्वत्र सर्वत्र संयोगोऽपि नियोगतः ।। १२८७ ॥ १" प्रत्युक्तमिति सम्बन्धः " ता० टि० । ४ संयोगादिति प्र - ता० । ५ न चेत्स - आ०, ब०, प० । ततोऽग्नाविव संयोगं धूमोऽन्यत्राप्युपत्रजन् । व्यभिचारात्कथं नाम पावकस्यानुमापक: : ।। १२८८ ॥ २ स्वरूपान्तरेण । ३ प्रत्युक्तमिति सम्बन्धः ।
SR No.007280
Book TitleNyayvinischay Vivaran Part 02
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year1954
Total Pages538
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy