SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ३३ २।१६] ५ २ अनुमानप्रस्तावः न च स्वभावनानात्वं समवायस्य यबलात् । विषयेषु नियामोऽयं संयोगस्य प्रकल्प्यताम् ॥१२८९॥ तन्नानात्वादभेदश्चेत् समवायोऽपि भिद्यते । तथा च "तत्त्वं भावेन व्याख्यातम्" इति' दुष्यति ॥१२९०॥ भेदश्चेत् तत्कथं तस्य तत्र चेत्समवायतः । तस्याप्येकस्वभावत्वे ततस्तन्नियमः कथम् ? ॥१२९१॥ तत्र स्वभावनानात्वे दोषः पूर्वोऽभिलक्ष्यताम् । समवायान्तराक्षेपस्त्वाक्षिपत्यनवस्थितिम् ॥१२९२॥ कथञ्चिदेवाभेदश्चेत्स्वभावसमवाययोः । सम्बन्धतद्वद्रूपः स्यादेको भावस्तथा न किम् ? ॥१२९३॥ यतः सम्बन्धिनोऽन्यस्य सम्बन्धस्य प्रकल्पना । प्रेक्षावत्ताविलोपाय भवतो नावकल्पते ॥१२९४॥. तन्नापरः संयोगादिः सम्बन्धः । नाप्युपकार्योपकारकभावादिः; तस्यापि भावादर्थान्तरत्वे कुतः स-तस्येति व्यपदेशः ? सम्बन्धादुपकार्योपकारकभावादेरिति चेत् ; न ; तत्रापि तथैव प्रसङ्गादनवस्थोपनिपाताच्च । ततः स्थितम्-'समान' इत्यादि । 'प्रतिपत्तितः' इत्यनेन तदात्मनः सम्बन्धस्य निरवद्यसंवेदनविषयतामवद्योतन् स्वमनीषिकया तत्कल्पनं परिहरति । प्रतिपादिता च तत्प्रतिपत्तिर्बहुशः पूर्वमिति नेदानी प्रतन्यते । ननु यथा धूमस्य तदन्तरसदृशस्य पावकसम्बन्धः तथा मशकवतेरपि, पावकस्यापि यथा तादृशस्य धमप्रतिबन्धस्तथा मणिविशेषादेरपीति मशकवतेः पावकस्य धूमाच्च मण्यादेरनुमानमापद्यत इति चेत् ; एवमेतद् , यदि समानपरिणाममात्रेण तद्भावः । न चैवम् ; तद्विशेषेण तदुपकल्पनात् , तस्य च धम- २० पावकभेदेष्वेव भावात् न मशकादिभेदेषु । कथं पुनस्तत्परिणामो विशिष्टश्चाविशिष्टश्चेति चेत् ? कथं .. सामान्य तादृशं यतो यथोक्तदोषस्तत्रापि न भवेत् ? तथा प्रतीतेरिति समानमन्यत्र । नन्वेवं सामान्यस्यैव समानपरिणाम इति शब्दान्तरमिति चेत् ; न : प्रतिव्यक्तिपर्यवसितस्यैव परिणतिविशेषस्य तेनाभिधानात् , सामान्यस्य तद्विपरीतत्वात् । . भवतु तत्परिणाम एव सामान्यम् , तस्य तु व्यक्तिभ्यो भेद एवेति योगाः । अभेद एवेति २५ साङ्ख्याः । तत्राह न भेदोऽभेदरूपत्वान्नाभेदो भेदरूपतः । इति । न भेदो न व्यतिरेकः तत्परिणामस्य विशेषेभ्यः । कुत एव तद् ( एतद् )? अभेदरूपत्वात् अभेदस्तस्य तैस्तादात्म्यं रूपं यस्य तस्य भावात् अभेदरूपत्वात् । एतदपि कुत इति चेत् ? तथा प्रतीतेरेव । तथा च वक्ष्यति–'तथासंवित्तिसम्भवात्' इति । संवेद्यते ३० हि तत्परिणामस्य तदभेदरूपत्वं 'सदृशो देवदत्तः' इति देवदत्तविशेषसामानाधिकरण्येन तस्य संवित्तेः । १ वैशे० सू० ७।२।२८ २ -दि त-ता० । ३ समानपरिणामशब्देन ।
SR No.007280
Book TitleNyayvinischay Vivaran Part 02
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year1954
Total Pages538
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy