________________
३४
न्यायविनिश्चयविवरणे
[२।१७ न हि सामानाधिकरण्यमन्यदभेदरूपत्वात् । समवायरूपमेव तन्नाभेदरूपत्वमिति चेत् ; न ; 'समवायः सम्बन्धः' इत्यादावभेदरूपतयैव भवतोऽपि तत्प्रसिद्धेः । नाभेदो नाप्येकान्तेन तस्य तैस्तादात्म्यम् । कुत एतत् ? भेदरूपः [ पतः ] तस्य तद्व्यतिरेकस्वभावत्वात् । एतदपि तथाप्रतीतेरेव । किं पुनर्भेदस्याभेदस्य च पृथक्प्रतिपत्तिरस्ति ? तथा चेत् ; न; "न पश्यामः क्वचित् किश्चित्" ५ [ सिद्धिवि० पृ० १२१ ] इत्यादेविरोधात् , तद्विषययोरन्योन्यासंसृष्टयोरेव सिद्धिप्रसङ्गाच्च । न हि तत्प्रतीत्योरन्योन्यविषयासंस्पर्श तत्संसर्गकल्पनमुपपन्नं प्रतीतिनिबन्धनत्वात् प्रमेयव्यवस्थायाः । तयोस्तसंस्पर्श वा जात्यन्तरप्रतिषत्तिरेवास्ति नाभेदप्रतिपत्तिः भेदप्रतिषत्तिर्वा पृथगिति चेत् ; सत्यमिदम् ; प्रमाणतो भेदाभेदप्रतिपत्तेरेव भावात् , भावस्य च ततो भेदाभेदात्मन एव प्रसिद्धः न पृथग्भेदात्मनो
नाप्यभेदात्मनश्च, किन्तु तत एव जात्यन्तरप्रतिपत्तेरपोद्धारपरिकल्पनया भेदस्येतरस्य च पृथक् प्रतिपत्ति१० मवस्थाप्य तद्विषयसद्भावः तदपरैकान्तप्रतिषेधे हेतुरुक्तः । तत एवाह
मामान्यं च विशेषाश्च तदपोद्धारकल्पनात् ॥१६॥ इति ।
सामान्यं च चशब्दात् तत्प्रतिपत्तिश्च । विशेषाश्च चशब्दात्तत्प्रतिपत्तिश्च । तस्माज्जात्यन्तरात् तस्यास्तत्प्रतिपत्तेश्च अपोद्धारो निष्कर्षणं भेदस्य तत्प्रतिपत्तेश्चाभेदस्य तत्प्रति
पत्तेश्च तस्य कल्पनमभिप्रायाधिरोहणम् , तस्मात् 'व्यवस्थाप्यन्ते' इति शेषः । यदि पुनः सदृश१५ परिणामः सामान्यं तर्हि भेदेन भवितव्यं तस्य तन्निष्ठत्वेन इतरत्रासम्भवात् । न चायं सम्भवति; अभेद
स्यैव सर्वभावेषु “सदेव सौम्येदम्" [छान्दो० ६।२।१] इति, "सर्वं खल्विदं ब्रह्म" [ छान्दो० ३।१४।१] इति, "ऐतदात्म्यमिदं सर्वम्" [छान्दो० ६।८।७ ] इति चाम्नायात् प्रतिपत्तेः । भेदप्रतिपत्तेश्चाविद्योषरचितत्वेन गन्धर्वनगरादिप्रतिपत्तिवत् भ्रान्तत्वादिति 'कश्चित् । भेद एव भावानां तात्त्विको न कथञ्चिदप्यनुगमः तत्प्रतिपत्तेरारोपितविषयत्वेन वितथा २० (थ) त्वादित्यपरः । तत्रोत्तरमाह
संसर्गो नास्ति विश्लेषाद्विश्लेषोऽपि न केवलः।।
संसर्गात्सर्वभावानां तथा संवित्तिसम्भवात् ॥१७॥ इति ।
संसर्ग ऐक्यापत्तिरात्मापरनामा । केषाम् ? सर्वभावानाम् सर्वेषां चेतनेतरात्मनां भावानां पदार्थानाम् । स किम् ? नास्ति न विद्यते । कुतः ? विश्लेषात् व्यावृत्तेः विभ्रमापर२५ नाम्नः संसारादिति गम्यते, विश्लेषस्य विश्लेप्याविनाभावात् , अन्यस्य विश्लेष्यस्य तत्रासम्भवात् ।
संसर्गे हि भावानामात्मनो विभ्रमेणापि तद्भावाद्विभ्रम एव स्यान्नात्मवाद आत्मना वा तस्य तद्भावादात्मैव न विभ्रमवादः । तदनभ्युपगमे च निविषयमेतत् “ इन्द्रो मायाभिः पुरुरूप ईयते' [ ऋग० ४।७।३३ ] इति । “एकानेकधा चैव दृश्यते जलचन्द्रवत्" [ ब्रह्मबि० १२ ] इति च । विभ्रमादन्यस्य तद्विषयस्याभावात् । तस्मादस्ति विभ्रमो विश्लिष्टश्चात्मन इति वक्तव्यम् । अविश्लेषे ३० तस्य संसारित्वापत्तेः नित्यमुक्तत्वप्रतिज्ञाव्याघातो विभ्रमरूपत्वात् संसारस्य । भवतु संसारस्य तस्मादविश्लेषः तथापि न तत्प्रतिज्ञाव्याधातः, आत्मनस्तस्माद्विश्लेषस्यैव भावादिति चेत् ; न ; अविश्लिष्टा
१ ब्रह्मवादी । २ बौद्धः । ३ भावानात्म--आ०, ब०, प० । ४ -धानक-भा०, ब०, ५० ।