________________
२।१८ ]
२ अनुमानप्रस्तावः
३५
दविश्लेषस्यैवोपपत्तेस्तस्य द्विष्ठत्वात् । कथमिदानीं 'रुचकादेः सुवर्णादविश्लेषेऽपि सुवर्णस्य ततो विश्लेषः ? अन्यथा रुचकाद्यषक्रमे तस्याप्यपक्रमप्राप्तिः, न चैवम्; असत्यपि तस्मिन् तदवस्थितेरुपलम्भादिति चेत् ; रुचकादेरपि कथमवस्थायिनः सुवर्णादविश्लेषे ऽनवस्थायित्वं विरोधादिति न किञ्चिदेतत् । स्यादाकूतम् – वस्तुन्ययं भवति विकल्पः संश्लेषो विश्लेष इति च । न च विभ्रमस्य वस्तुत्वम्, तत्त्वविरोधात्, अतस्तत्र सत्त्वासत्त्वाभ्यामिव संश्लेषविश्लेषाभ्यामनिर्वचनीयत्वमेव तत्त्वमिति; ५ · तदपि दुराकूतमेव; नित्यमुक्तिप्रतिज्ञाव्याघातस्य तदवस्थत्वात् । तथा हि
निश्चिते सति विश्लेषे नित्यमुक्तत्वसम्भवः । ताद्रूप्यात्तस्य विश्लेषावाच्यत्वे स कथं भवेत् ॥१२९५॥ आत्मविभ्रमयोस्तस्माद्विश्लेषं वक्तुमर्हसि ।
तथा चेदन्यभावानामप्यसौ किन्न कथ्यते ? || १२९६॥ कुतोऽसाविति चेदात्मभ्रमयोरप्यसौ कुतः ।
. तथासंवित्तिभावाच्चेदन्यत्रापि स दृश्यते || १२९७||
तदाह - ' तथा संवित्तिसम्भवात्' इति । तथा तेन विश्लेषप्रकारेण सर्वभावानां संवित्तेः सम्यग्बुद्धेः सम्भवात् विश्लेषो विश्लेषाच्च संसर्गे नास्तीति संग्रहणेन तत्संवित्तरविद्योपरचितत्वं प्रत्याख्यातम् ; तद्रचितत्वे सम्यक्त्वानुपपत्तेः । समीचीना च तत्संवित्तिः बाधकाभावात् । १५. ‘भ्रान्ता तत्संवित्तिः भेदविषयत्वात् मायातोयादिसंवित्तिवत्' इत्यनुमानं बाधकमिति चेत् ; न; तस्य विभ्रमात्मभेदसंवित्त्या व्यभिचारात् । ततः स्थितम् -'संसर्गे नास्ति' इति ।
तथा विश्लेषोऽपि न केवलः संसर्गरहितः । कुतः ? संसर्गात् समाश्लेषात् सर्वभावानाम् । तदपि कुतः ? तथा संवित्तिसम्भवात् । तथा तेन संसर्गप्रकारेण संवित्तेः गौरयम् गौरयमित्यनुगमयत्या बुद्धः सम्भवात् । संसर्गश्चात्र न मिश्रीभावो मतान्तर - २० सिद्धिप्रसङ्गात्, अपि तु सदृशपरिणामः तस्यैवोक्तसंवित्तौ प्रत्यवभासनात् संसर्गशब्देन च तदभिधानोपपत्तेः समः सर्गः संसर्ग इति । न च तत्संवित्तेर्विभ्रमत्वं विश्लेषसंवित्तावपि तत्प्रसङ्गात्, बाधकाभावस्योभयत्रापि समानत्वादिति । एतावन्तर श्लोकौ, 'समानपरिणाम' इत्यादेराभ्यां व्याख्यानात् ।
कुतः पुनः समानपरिणाम एवं सामान्यमभिमतं न नैयायिकादिकल्पितमेवेति : अत्राहतद्व्याप्तिव्यतिरेकाभ्यां मतं सामान्यदूषणम् । इति ।
२५
तत् अनन्तरोक्तं सामान्यं मतम् इष्टं जैनस्य । कुतः ? सामान्यस्यान्यकल्पितस्य दूषणं सामान्यदूषणं यत इति । तदपि कुत: : व्याप्तिश्च सामान्यस्य स्वव्यक्तिवत् व्यक्त्यन्तरेष्वषि भावः, व्यतिरेकश्च स्वव्यक्तिष्वेव भावस्ताभ्यां व्याप्तिव्यतिरेकाभ्याम् । तथा हि-यदि सामान्यं व्यापि; खण्डादिवत् कर्कादावपि गोत्वस्य भावाद् वाहाद्यर्थी तत्रापि किन्न प्रवर्तेत ? तत्र तस्यानुपलम्भादिति चेत् ; खण्डादावुपलम्भः कुतः १ तत्र तस्य तत्करणशक्तेरिति चेत्; कर्कादावपि स्यात् । ३०
"
१०
१ "रुचकं मङ्गलद्रव्ये ग्रीवाभरणदन्तयोरिति विश्वप्रकाशिका ।" ता० टि० । २ - वं स-आ०, ब०, प० । ३ इति वचनवि-आ०, ब०, प० ।