________________
न्यायविनिश्चयविवरणे
[२।१८ । न हि तस्यैव क्वचिच्छक्तिरशक्तिरन्यत्रेत्युपपन्नम् भेदापत्तेः । शक्तिः कचिदन्यत्राशक्तिर्नापरेति चेत् ; न; विधिनिषेधयोरभेदस्यानभिमतस्य प्रसङ्गात् । ततः कचिच्छक्तावन्यत्रापि शक्तिरेव, अशक्तौ न क्वचिदपि शक्तिरित्येकान्तः । तत एवोक्तम्
.. "आत्मनि ज्ञानजनने यच्छक्त शक्तमेव तत् ।
अथाशक्तं कदाचिच्चेदशक्त सर्वदैव तत् ॥” [ प्र० वा० २।२१ ] इति ।
शक्तमपि सहकार्यभावान्न कर्कादौ तदुपलम्भं जनयतीति चेत् ; खण्डादौ कः सहकारी ? स एव खण्डादिरिति चेत् ; कुत एतत् ? तत्र तस्य समवायात् ; कर्कादिरपि स्यात्तदविशेषात् । शक्तस्य न च तदपेक्षणं सहकारिणोऽपि तत्प्रसङ्गात् अनवस्थापत्तेः । गोत्व (त्वं) तत्सहकारिसमुदायस्यैव शक्तिर्न
पृथगिति चेत् ; पृथक्तर्हि गोत्वमवस्त्वेव स्यादशक्तत्वात् । तन्न व्याप्तौ तस्य क्वचिदुपलम्भोऽन्यत्रानुप१० लम्भश्चोषपन्नः । तथा तस्य कालव्याप्तौ आश्रये असतीव प्रध्वस्तेऽपि तस्मिन्नुपलम्भः स्यात् तज्जन
नस्वभावत्वात् । आश्रयं तस्य सहकारी, तदभावान्नेति चेत ; न; तदभावेऽपि तस्य तत्स्वभावत्वाप्रच्युतेः अनित्यत्वप्रसङ्गात् । अत एवोक्तम्
"तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता।
नित्यत्वादचिकित्स्यस्य कस्तां क्षपयितुं क्षमः ॥" [प्र० वा० २।२२ ] इति । १५ शक्तिरपि तस्य सहकार्ये नापर इति चेत् ; न; तस्य सामान्यादिव व्योमकुसुमादपि कार्य
प्रसङ्गात् , स्वतः शक्त्यभावेनासत्त्वस्य तद्वत्सामान्येऽपि सहकारिशक्तिकृतस्य च सत्त्वस्य सामान्यवत्तत्राप्यनिवारणात् । तन्न व्यापि सामान्यम् ।
एतेन मीमांसकोऽपि सर्वगतसामान्यवादी प्रत्युक्तः । स्यान्मतम्-न तत्सामान्यस्य सर्वगतत्वेऽपि सर्वत्रोपलम्भः सर्वत्र तदभिव्यक्तावशक्तेः । खण्डादौ भवत्युषलम्भस्तस्य तच्छक्तिभावात् , २० तस्य च कार्यादेव तदुषलम्भादवगतेः । कर्कादावपि किन्न तच्छक्तिरित्यपि न पर्यनुयोगः, 'दाहशक्ति.
दहनवदाकाशेऽपि किन्न स्यात्' इत्यपि तत्प्रसङ्गात् । न चैकस्योपलभ्येतरात्मकत्वं विरुद्धम् ; उभयात्मकत्वाद्वस्तुन इति । तत्रोच्यते
सामान्यरूपा शक्तिश्चेत्तदभिव्यक्तिकारणम् । तस्याः सर्वत्र सद्भावात्तद्व्यक्तिः सर्वतो भवेत् ॥१२९८॥ शक्तेरपि च तद्व्यक्तिर्व्यक्ताया एव नान्यतः । तद्वयक्तिरपि खण्डादावेव नान्यत्र चेत्तदा ॥१२९९॥ शक्तौ तद्वयक्तिकारिण्यां प्रसङ्गः पूर्ववद्भवेत् । पुनस्तद्वयक्तिचिन्तायामापतत्यनवस्थितिः ॥१३००॥ विशेषात्मापि शक्तिश्चन्न समा खण्डमुण्डयोः ।
मुण्डात्कर्कादिव व्यक्तिर्गोत्वस्येह कथं भवेत् ? ॥१३०१॥ १ समवायाविशेषात् । २ गोत्वस्य । ३ व्योमकुसुमवत् । ४ व्योमकुसुमेऽपि ।