________________
२।१८]
३७
२ अनुमानप्रस्तावः शक्तिसाम्यं च सामान्यात्कुतश्चित्कल्प्यते यदि । तस्य सर्वत्र सद्भावात्समाः स्युः सर्वशक्तयः ॥१३०२।। व्यक्तं तत्साम्यहेतुस्तद्व्यक्तिश्च समशक्तितः । यदि तत्साम्यचिन्तायामन्या स्यादनवस्थितिः ॥१३०३॥ स्वत एव समत्वञ्चेच्छक्तीनामवकल्प्यते । भावानामपि तद्वत्स्याद् वृथा सामान्यकल्पनम् ॥१३०४॥ गौरयं गौरयं चेति कथमन्वयिनी मतिः । सामान्यं यदि नास्त्येव गोत्वलक्षणमन्वितम् ? ॥१३०५॥ इत्यप्यचोद्यमेवेदं समानपरिणामिषु । तथासङ्केतसामर्थ्यात्तन्मतेरनुपद्रवात् ॥१३०६॥ इयं शक्तिरियं शक्तिरित्यप्यन्वयिनी मतिः ।
शक्तिष्वपि कथन्नाम सामान्यविरहोऽन्यथा ॥१३०७॥ तन्न मीमांसकस्यापि सर्वगतं सामान्यमुपपन्नम् । ततो निराकृतमेतत्
"यद्वा सर्वगतत्वेऽपि व्यक्तिः शक्त्यनुरोधतः । शक्तिः कार्यानुमेया हि व्यक्तिदर्शनहेतुका ॥ तेन यत्रव दृश्येत व्यक्तिः शक्तं तदेव तु । तेनैव च न सर्वासु व्यक्तिष्वेतत्प्रतीयते ॥ भिन्नत्वेऽपि हि कासाश्चिच्छक्तिः काश्चिदशक्तिकाः। न च पर्यनुयोगोऽस्ति वस्तुशक्तः कदाचन ॥ अग्निदेहति नाकाशं कोऽत्र पर्यनुयुज्यताम् ।”
[ मी० श्लो० आकृ० २६-२९ ] इति । सत्येव सामान्ये वक्तुमेवमुचितत्वात् । अपि च,
सर्वत्र विद्यमानत्वाद् ब्राह्मणत्वस्य गोत्ववत् । शूद्रस्याप्यधिकारित्वं किन्न यज्ञादिकर्मसु ॥१३०८॥ तद्वयक्तावेव तत्त्वं स्यान्न च शूद्रेऽस्ति सा यदि । कौण्डिन्यादावपि व्यक्ति कृत्या तस्य विद्यते ॥१३०९॥ आकृत्या तदभिव्यक्तौ गोत्ववत्संशयः कथम् ? यतस्तत्प्रतिपत्त्यर्थमुपायान्तरमिष्यते ॥१३१०॥ तदन्तराच्च सामान्यरूपात्तत्प्रतिवेदने । शूद्रेऽपि तत्परिज्ञानं किन्न सर्वगतात्ततः ॥१३११॥ तस्याप्यवित्तेराकृ या यदि सामान्यरूपतः । उपायान्तरतो वित्तिरनवस्था प्रवर्तते ॥१३१२॥