________________
१५
३८
न्यायविनिश्वयविवरणे
तदन्तरं क्रियारूपं यद्यन्योन्यसमाश्रयः । तदन्तरेण तद्वित्तेस्तद्वित्तेश्च तदन्तरात् ॥१३१३॥ ब्राह्मणत्वपरिज्ञानं सम्प्रदायात्कचिद्यदि । शूद्रेऽपि किन्न भट्टस्य सम्प्रदायात्तदिष्यते ॥ १३१४ ॥ शूद्रत्वस्यापि कौण्डिन्ये गतेस्तत्सम्प्रदायतः ।
तस्यापि नाधिकारः स्यात्तत्कर्मस्वन्यशूद्भवत् ॥१३१५॥
तन्न व्याप्तिः सामान्यस्य ।
भवतु व्यतिरेक एव स्वव्यक्तिष्वेव वर्तनात् न तदभावे नापि तदन्तरेष्विति चेत्; तर्हि व्यक्तीनां विनाशे चोत्पादे च कस्तस्य विधि: ? न विनाशोत्पादौ; नित्यत्वात्, व्यक्तिरहिते च तदभावे १० कथं तद्देशजन्मनि े तद्भावः ? तस्य तत्र पूर्वमभावात्, व्यक्त्यन्तराच्चातदात्मनो ऽनागमनात् । तदुक्तम्"सामान्यं समवायश्वाप्येकैकत्र समाप्तितः । अन्तरेणाश्रयं न स्यान्नाशोत्पादिषु को विधि: ?"
[ आप्तमी० श्लो० ६५ ] इति ।
२५
[ २१८
तन्न व्यतिरेकेऽषि सामान्यमुपपन्नम् । ततो निषिद्धमेतदपि - "व्यक्ति वेव हि सामान्यं नान्तरा गृह्यते यतः । न ह्याकाशवदिच्छन्ति सामान्यं नाम किञ्चन ।। "
[ मी० श्लो० आकृ० श्लो० २५ ] इति ।
चेत् ;
"
२०
यस्य तु मतं स्वाश्रयादपि तव्द्यतिरिक्तमिति ; तत्र कथं तस्य ? तेनोषकाराद्राजपुरुषवदिति '; उपकारस्याव्यतिरिक्तस्यासम्भवात् तस्य कौटस्थ्येनानाधेयातिशयत्वात् । व्यतिरिक्तश्च कथं तस्य ? ततोऽप्युषकारादिति चेत्; न; तस्याप्यव्यतिरिक्तस्यासम्भवात् । व्यतिरेके पूर्ववदोषादनवस्थानुषङ्गाच्च । नोषकारात्तत्तस्य अपि तु तदाधेयत्वादिति चेत् ; तदपि कुतः ? स्वशक्तितश्चेत्; तया तर्हि तदात्मकमेवास्तु तथैव प्रतीतेः, आश्रयाव्यतिरेकेण हि सामान्यस्य प्रतीतिः खण्डो गौः कर्कोऽश्व इति । चेन्न ततो विश्वासः स्वरूपेऽपि न स्यादविशेषादिति सामान्यमेव न किञ्चित् सामान्यकल्पनावैफल्योपनिपातात् । तथा हि
समानशक्त्या सामान्यं बिभ्रते यावदाश्रयाः ।
समानप्रत्ययं तावत्किन्न कुर्वन्ति ते तया ॥१३१६॥ एवं हि न भवत्यत्र पारम्पर्यप्रकल्पनम् ।
सामान्यभरणं शक्तेस्तस्मादपि च तन्मतिः ॥ १३१७॥ इति ।
तन्नाश्रयशक्तितोऽपि तस्य तदाधेयत्वम् । आश्रयव्यङ्ग्यत्वादिति चेत्; न; तदभिव्यक्ति-कृतस्तच्छक्तेः वैलक्षण्येतरपक्षयोः पूर्ववद्दोषात् । आश्रयादपि नाव्यक्तादेव तद्व्यक्तिः ; अन्धकारेऽ तत्प्रसङ्गात् । व्यक्तिरपि न सामान्यरूपेण ; एकत्र व्यङ्ग्यव्यञ्जकभावानुपपत्तेः । अन्यदेव तत्सामान्यं
३०
१ तदभावेन क- ता० । २ विशेषे । ३ -क्तमपि तत्र प० । ४ प्रतीतितः ।