________________
२।१८]
२ अनुमानप्रस्तावः यद्रूपेण तस्याभिव्यक्तिः तदप्यन्यदेव यस्य ततोऽभिव्यक्तिरिति चेत् ; न ; तत्राप्येवं प्रसङ्गादव्यवस्थितेश्च । नापि' विशेषरूपेण ; तस्यैव स्वतो भावविलक्षणस्याभावात् । स्वतोऽसतः सत्तासम्बन्धस्याप्यनुपपत्तेः व्योमकुसुमवत् । तन्न तदव्यङ्गयत्वादपि तस्य तदाधेयत्वम् । तत्र वृत्तेरिति चेत् ; साषि यदि स्वतन्त्रा ; कथमसौ सामान्यतदाश्रययोः ? स्वतन्त्रा च तयोश्चेति व्याघातात् । वृत्त्यन्तरापेक्षयैव (क्ष एव ) सम्बन्धः स्वतन्त्रत्वान्न भवति न स्वभावत इति चेत् ; सोऽपि यद्येकः ; कथमनेक- ५ सम्बन्धित्वं ततस्तस्याः ? कारणस्वभावादप्येकस्मादेव निरवशेषकार्यविशेषोत्पत्तेः प्रधानवादस्याप्रतिक्षेषप्राप्तेः । अनेकश्चेत् ; न ; तभेदे वृत्तेरपि भेदप्रसङ्गात् । भिन्नैव ततो वृत्तिरपीति चेत् ; कथमसौ वृत्तेः ? तस्यास्तत्र सम्बन्धादिति चेत् ; न ; तत्राप्यनेकस्वभावकल्पनायामव्यवस्थितेः । तत्कार्यत्वादित्यप्यनेनापास्तम् । तस्मादसम्बन्ध एवं सामान्यसमवाययोरर्थस्य च ताभ्यामभ्युपगन्तव्यः । न च तथाविधं तत्त्रितयं कुतश्चिदपि प्रमाणान्निश्चितवपुरिति खपुष्पकल्पितमेव तदनल्पमतयः प्रतिपद्यन्ते । तदुक्तम्- १०
"सर्वथा न हि सम्बन्धः सामान्यसमवाययोः । ताभ्यामर्थो न सम्बद्धः तानि त्रीणि खपुष्पवत् ॥"
[ आप्तमी० श्लो० ६५ ] इति । कुतः पुनः समानपरिणामेऽपि न सामान्यदूषणमिति चेत् ? अत्राह
समानपरिणामे न तदेकस्यानुपायतः ॥१८॥ इति ।
समानपरिणामो व्याख्यातः तत्र, न सामान्यदूषणम् । कुतः ? तस्य तत्परिणामस्यैकस्य व्यक्तिप्वनुस्यूतस्य अनुपायतः अनभ्युपगमात् । नन्वेवं सामान्येऽपि व्यक्तिनियते न दूषणं स्यात् , तस्यापि व्यक्त्यन्तराले विच्छेदेनैकत्वाभावादिति चेत् ; न ; सत्यपि तस्मिन्नेकस्यैव परैस्तस्याभ्युपगमात् । व्याहतमेतत्–'विच्छिन्नं चैकं च' इति, एकत्वस्याविच्छेदरूपत्वात्तस्य चेतरविरोधादिति चेत् ; भवतु परेषामेवायं दोषः । न दोषः ; तन्नियतस्यापि तस्यैकप्रत्ययादेकत्वस्यैवोपपत्तेः। २० एकत्वे कथमाश्रयभेद इति चेत् ? आश्रयस्य कथं कालभेदः ? सति तस्मिंस्तस्यापि नैकत्वमिति चेत् ; न; क्षणक्षयवादापत्तेस्तस्यानिषेधात् । ततो यथा कालभेदेऽपि व्यक्तिरेकैव तथा प्रतिपत्तेः, एवमाश्रयभेदेऽपि जातिरिति प्रतिपत्तव्यम् । तदुक्तम्
"प्रत्येकसमवेतत्वं दृष्टत्वान्न विरोत्स्यते । तथा सत्यपि नानात्वं नैकबुद्धर्भविष्यति ॥ न हि सम्बन्धिभेदेन स्वरूपैकत्वबाधनम् । विभुत्वावयवाभावौ प्रतिपाद्यौ च शब्दवत् ॥ यथा च व्यक्तिरेकैव दृश्यमाना पुनः पुनः।
१-पि शेष- ता० । २ यः सम्बन्धः संयोगादिरूपः सम्बन्धान्तरसापेक्षः तस्मिन्नेव स्वतन्त्रत्वात् सम्बन्धाभाव आपादयितुं शक्यः न तु स्वभावतः सम्बन्धरूपे समवाये इति भावः । ३ स्वभाव इ-आ०, ब०,५०। ४ वृत्तेः । ५ सांख्याभिमतस्य । ६ कालभेदे ।