________________
१०
४०
२०
२५
उच्यते
व्यक्तीनामेवमेकत्वं कस्मान्न परिकल्प्यते । तथा सति न सामान्यमेकव्यक्तौ तदस्थितेः ॥ १३१८॥ मिथो न तासामेकत्वं व्यतिरेकेण वेदनात् । इति चेन्ननु जातावप्यस्त्येव व्यतिरेकधीः ॥१३१९|| अन्तरालेषु विच्छेदस्तस्याः कथमिवान्यथा । नाप्युपायान्तरं यस्मात्तद्विच्छेदव्यवस्थितौ ॥१३२०॥ 'विच्छेदवदविच्छेदोऽप्येकप्रत्ययतो यदि । विच्छिन्नेतररूपत्वे जातेर्निर्भागता कथम् ॥१३२१॥
कथं चासौ स्वाश्रयेषु वर्तेत ? एकदेशेनेति चेत्; न तर्हि तत्र समानप्रत्ययः तस्यं जातेरेव भावात्, एकदेशस्य चाजातित्वात् जाति बहुत्वापत्तेः । सर्वात्मना चेत्; न; तदैवान्यत्र तत्प्रत्ययाभावापत्तेः । न ह्येकत्रैव सर्वात्मना वृत्ता सती तदैवान्यत्र सम्भवति यतस्तत्रापि तत्प्रत्ययः स्यात् । १५ नन्ववयवशो वृत्तिः सावयवस्य यथा भूतकण्ठे सक्सूत्रादेः, परिसमाप्त्या च वृत्तिरविभोः यथा प्रतिपिण्डं गुणादेः । न च जातेः सावयवत्वमविभुत्वं वा यतस्तत्रैवंविधा वृत्तिरवकल्प्येत । तस्मादन्याव तद्वृत्तिस्तस्या अपि तत्रैव दृष्टत्वात् । तदुक्तम्
"कान्यवयवशो वृत्तिः प्रष्टुं जातौ न युज्यते । न हि भेदविनिर्मुके कार्यभाग विकल्पनम् ॥ या चावयवशो वृत्तिः स्रसूत्रादिषु दृश्यते । भूतकण्ठे गुणादेव प्रतिपिण्डं समाप्तितः ॥ तत्रावयवयोगित्वमविभ्रुत्वश्च कारणम् । आकृतेस्तदभावेन न प्रसक्तमदो द्वयम् ॥ न च द्वैविध्यमेवेति वृत्तेरस्ति नियामकम् । त्रिविधापि हि दृष्टत्वात् सम्भवेद् द्विविधा यथा ॥”
I
"
[ मी० श्लो० वन० श्लो० ३३-३७ ] इति चेत् ; अत्रोच्यते - तृतीयोऽपि वृत्तिप्रकारो नापर: स्वरूप [त ] स्तन्निष्ठत्वात् तत्प्रतीतेः । स्वरूपं च यदि तावदेव यावदेकत्र दृश्यते ; कथं व्यापकत्वम् ? न तावदेव, व्यापकत्वादिति चेत्; तस्य तर्हि निश्शेषव्यक्तिप्रतिपत्तावेव सम्भवति प्रतीतिः व्यापक प्रतिपत्तेः व्याप्यप्रतिपत्तिनान्तरीयकत्वात् । तथा च सति सत्त्वादिसामान्यप्रतिवेदिनः ।
सर्वे भवेयुः सर्वज्ञास्तत्कथं तन्निषेधनम् ॥१३२२॥
१ विच्छेदः स्यादवि ता० । २ प्रत्ययस्य । तस्याजा - ता० । ३ समवायत्वमपि ता० ।
३०
न्यायविनिश्चयविवरणे
कालभेदेऽप्यभिन्नैवं जातिभिन्नाश्रया सती ।"
[ २।१८
[ मी० श्लो० वन० श्लो० ३०-३२ ] इति चेत् ;