________________
२।१९]
२ अनुमानप्रस्तावः व्याप्याग्रहेऽपि गृह्येत यदि तु व्यापकं तदा ।
विज्ञेयाग्रहणेऽपि स्यात्तज्ज्ञानग्रहणं न किम् ? ॥१३२३॥ ततो दुर्व्याहृतमेतत्
'सर्वज्ञोऽयमिति ह्येवं तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥"
[ मी० श्लो० सू० २ श्लो० १३४ ] इति । अथ व्यापकतया तन्न गृह्यते ; तर्हि न गृह्यत एव, तत्स्वभावस्यान्यथा ग्रहणासम्भवात् तद्विभ्रमापत्तेः । तन्न सामान्यं नाम किञ्चित् । तदभावे कुतस्तत्प्रयोजनं समानप्रत्ययादिकमिति चेत् ? न ; समानपरिणामादेव तद्भावात् । तदाह
सदृशात्मनि सम्बन्धग्रहे भूयस्तथाविधे । प्रत्यभिज्ञादिना सिद्धयेत् प्रायो लोकव्यवस्थितिः ॥ १९॥ इति ।
सदृशः समान आत्मा स्वभावो यस्य तस्मिन् धूमादौ सम्बन्धस्य पावकाद्यविनाभावलक्षणस्य ग्रहः परिज्ञानं भूयोऽनेकवारम् । सकृत् तद्ग्रहे तस्मिन् विस्मरणस्य व्यभिचारस्य च सम्भवात् , सति तस्मिन् सिद्ध्येत् निष्पद्यत। किम् ? लोकव्यवस्थितिः लोकस्य व्यवहर्जिनस्य विशिष्टा प्रवृत्तादिलक्षणा अवस्थितिः परिणतिः । क ? तथाविधे १५ सदृशात्मनि पावकादौ । केन सा सिद्ध्येत् ? प्रत्यभिज्ञादिना तादृशमिदमिति ज्ञानं प्रत्यभिज्ञा, सादिर्यस्य तर्कादेस्तेन । प्रत्यभिज्ञासामर्थ्यादत्र दर्शनस्मरणयोरपि प्रतिपत्तिः तदभावे तदनुत्पत्तेः । तदयमर्थः-भूयोवृत्त्या क्वचित् प्रतिपन्नसम्बन्धस्य पुनस्तादृशवस्तुदर्शने संस्कारप्रबोधादनुस्मृतौ तादृशमिदमिति प्रत्यभिज्ञानम् , ततोऽपि 'इदमत्रैव नान्यत्र' इति व्याप्तिवितर्के साध्यपरिज्ञानाल्लोकव्यवस्थितिरिति । तदुक्तम्
"अक्षज्ञानरनुस्मृत्य प्रत्यभिज्ञाय चिन्तयन् ।
आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते ॥" [सिद्धिवि० पृ० ९७] इति ।
यद्येवम् 'पुनदृगादिना सिद्ध्येत्' इति स्पष्टमेव निर्देष्टव्यं किं प्रत्यभिज्ञाग्रहणेन ? ततो' दर्शनाद्याक्षेपे प्रतिपत्तिगौरवादिति चेत् ; सत्यम् ; तथापि लोकव्यवस्थित्या तदस्तित्वनिवेदनार्थं तद्ग्रहणं तस्यास्तन्नान्तरीयकत्वात् । प्रत्यभिज्ञानाभावे हि व्याप्तिवितर्कानुत्पत्तेरनुमाना- २५ सम्भवात् कुतस्तव्यवस्थितिः ? अस्ति चेयं प्रज्ञाकरस्यापि तस्मात्तेनापि साऽभ्युपगन्तव्या । ततो न युक्तमिदम्-“स इति स्मरणमयमिति प्रत्यक्षं न च तयोरेकत्वं प्रतिभासभेदात् । न च ततोऽपरं प्रतिभाति यत्प्रत्यभिज्ञानमुच्यते ।" [ ] इति तद्वयवस्थितिरपि मा भूदिति चेत् ; किमिदानीं तत्त्वम् ? सर्ववस्तुनैरात्म्यमद्वैतं वेति चेत् ; न; तस्यापि प्रतिपादनलक्षणया तद्वयवस्थित्यैव सिद्धेर्निरूपितमिदं प्रागिति न प्रतन्यते । तद्व्यवस्थित्या प्रत्यभिज्ञोपकल्पने ३० किं "प्रत्यभिज्ञा द्विधा काचिद्" इत्यादिना वक्ष्यमाणेनेति चेत् ? न ; तस्य तद्भेदप्रति
१ प्रत्यभिज्ञाशब्दतः। २ लोकव्यवस्थितिरपि । ३ न्यायवि० श्लो० २१९ ।
२०