________________
[ २।२०
पादनार्थत्वात् । सदृशात्मत्वे वस्तुनस्तस्य कुतश्चित्प्रत्ययादभिधानतो वा प्रतिपत्तौ तदन्तस्य वैफल्यं स्यात्, अनधिगतस्य तद्विषयस्याभावात् । अधिगतविपयत्वे च प्रयोजनाभावादिति चेत् ; सत्यमिदम् ; यद्येकस्वभावो भावः स्यात् । न चैवम् सदृशरूपस्येव विसदृशस्यापि रूपस्य विचित्रस्य तत्र भावात् । न चैवं कुतश्चित् कस्यचिदधिगमेऽपि तदन्तरवैफल्यम् ; ५ अनधिगतस्य तद्विषयस्य भावात् कथं पुनः सदृशस्येतरदितरस्य वा सदृशं रूपं विरोधात् तापहिमस्पर्शवदिति चेत् ? उपपन्नं तापेतरस्पर्शयोः विरोधवत्त्वं तदेकस्येतरपरिहारेणैव प्रतिपत्तेः, न चैवं सदृशेतरयोः, परस्परात्मतयैव सर्वदा संवेदनात् । संविदिते च न विरोधो वस्तुमात्रेऽपि प्रसङ्गेन शून्यतापत्तेः । निरूपितं चैतत् पूर्वम् ।
अपि च, सदृशेतरवदेकानेकरूपयोरपि विरोधाविशेषात् कथमेकत्रानेकोपाधिसम्भवो १० यतस्तैस्तद्वान् व्यपदिश्येत ? अर्थान्तभूतैरेव स तैर्व्यपदिश्यत इति चेद्; अत्राह - ततोऽनुपकारेऽपि भेदे कथमुपाधयः । इति ।
१५
,
उपाधयो विशेषणानि गोत्वशुक्लत्वादीनि तद्वत उपाधिमतः कथम् न कथञ्चित् भवेयुरित्युपस्कारः । कदा ? भेदे तद्वतस्तेषामर्थान्तरत्वे घटस्येव पटादय इति भावः । भे सम्बन्धात्ते' तस्येति चेत्; न; तस्य निषेधात् अनिषेधे खण्डादेरिवात्मादेरपि ते भवेयुः तस्य सर्वत्र भावात् । उपकारादिति चेत्; न; नित्यानामनुपकारात् । उपकारेऽप्यतिप्रसङ्गात् । न ह्युपकारादेव ते तस्य महेश्वरस्यापि तत्प्रसङ्गात् तस्य सर्वोपकारकारित्वेन प्रसिद्धेः । एतदेवाह - अनुपकारेsपि । अपिशब्दादुपकारेऽपीति । यदि चोपकर्ता द्वाँस्तदा स केनचिदुपाधिना प्रतीयमानः स्वोपकार्यानुपाधीनपि सर्वान् प्रत्याययति उपकार्याप्रतीतावुपकर्तुरप्रतिपत्तेः । तथा च न तत्र प्रमाणान्तरप्रवृत्तिः अनधिगतस्य तद्विषयस्याभावात् । प्रमाणसम्प्लवस्याभिमतत्वान्न दोष इति चेत्; एवमपि कथं परप्रतिपादनं तस्यापि तत्राविप्रतिपत्तेः । न हि प्रतीयमान एवानित्यत्वादौ विप्रतिपत्तिः धर्मिणि शब्देऽपि तत्प्रसङ्गेन हेतोराश्रयासिद्धत्वापत्तेः । एकोपाधिद्वारेण प्रतीयमानस्तदुपकारशक्त्यैव प्रतीयते न तदन्तरोपकारशक्तिभिरिति चेत्; न; शक्तीनां तद्वतोऽनर्थान्तरत्वात् । अर्थान्तरत्वेऽपि कथं तस्येति व्यपदिश्यन्ताम् ? उपकारादिति चेत्; अनिवृत्त व्याघातः । तदुपकारशक्तिरूपतया तत्प्रतीतौ तच्छक्तीनां तदुपाधीनाञ्चावश्यन्तया प्रतिपत्तेः पुनस्तच्छक्तीनां तदर्थान्तरत्वकल्पनायामनवस्थापत्तिः । तन्नोपाधितद्वतां भेदे तद्व्यवहारः ।
२०
२५
३०
४२
न्यायविनिश्चयविवरणे
"
भवत्वभेद एवेति चेत्; अत्राह -
तत्रैकत्वप्रसङ्गाच्चाभेदे कथमुपाधयः ॥ २० ॥ इति ।
तत्र तस्मिन् विवाद्गते । कस्मिन् ? अभेदे शब्दादेरुपाधिमतः कृतकत्वादीनामनर्थान्तरत्वे कथं नैव उपाधयः तदा शब्दादेर्धर्मिण एवावशेषात् । तथा च न स्वभावलिङ्गजमनुमानं साध्यसाधनभेदस्याभावात् । कल्पितस्तद्भेद इति चेत्; न; कल्पनस्यैवास्मिन् पक्षे निर्विकल्पेतरोपाधिद्वयाधिष्ठानस्यासम्भवात् । कल्पनातस्तत्सम्भवे अनवस्थादोषात् । । एवं ब्रह्मणो जीवानामभेदे न इति कथं तद्विशिष्टतया तत्प्रतिपत्तिर्यत एवमाम्नायते - " अनेन जीवेनात्मना " १ उपाधयः । २ उपाधिमान् । ३ तदनन्तरो - आ०, ब०, प० । ४ ब्रह्मैव । ५ जीवादयः ।