________________
२।२१]
२ अनुमानप्रस्तावः
[छान्दो० ६।३।२ ] इति ? सत्यं वस्तुवृत्त्या तदभेदिन एव ते भेदस्तु कल्पनात इति चेत् ; न; भेदेऽप्युपाधित्वस्य निषेधात् । कुतो वा तत्कल्पना ? न तावद् ब्रह्मण एव; तस्य सत्य. ज्ञानत्वात् । “सत्यं ज्ञानमनन्तं ब्रह्म" [ तैत्ति० २।१।१ ] इत्याम्नायात् , तस्य च मिथ्याप्रतीतेरसम्भवात् , कल्पनायाश्च तत्प्रतीतिरूपत्वात् । नाप्यन्यतः तदभावात् । कल्पनातस्तद्भावे स एव प्रसङ्गः 'न तावत्' इति । अस्याप्यन्यतः कल्पनायाम् अनवस्थापत्तिः । नायं दोषः, ५ कल्पनायास्तादृक्-प्रबन्धस्यानादित्वादिति चेत् ; न; तस्यापि ब्रह्माभेदेनाभावात् । पुनरन्यतस्तत्प्रबन्धात् तत्परिकल्पनायाम अनवस्थापत्तेरप्रतिपत्तेश्च । न हि परापरस्य तत्प्रबन्धस्य प्रतिपत्तिः । कुतो वा तस्य व्यवस्थितिः ? न तावद् ब्रह्मणः; तन्निषेधात् । नापि स्वतः; स्वयं प्रकाशरूपत्वे ब्रह्मवत् परमार्थत्वापत्तेः । ब्रह्मसम्पर्कात्तस्य ताद्रप्यं घटस्येव प्रतिसम्पर्कात् , न स्वत इति चेत् ; न; सत्यपि तस्मिन स्वयमतद्रूपस्य तद्रूपत्वानुपपत्तेः । घटस्य तु न तन्मात्रात्ताद्रप्यमपि तु स्वयं १० तथा परिणामादेव, अन्यथा परमाण्वादेरपि तत्प्रसङ्गात् तत्सम्पर्कस्य तत्राप्यविशेषात् । तन्न तद्वत उपाधीनामभेदे तद्भावः । नाप्युपाधिमत उपाध्यभेदे; तत्र हि तस्याभाव एव स्यात् तत्र च नोपाधयस्तेषां तदपेक्षत्वात् । एतदेवाह-'एकत्वप्रसङ्गाच्च' इति । उपाधीनामुपाधिमदभेदे तद्वदेकत्वस्य उपाधिमतश्चोपाध्यभेदे चशब्दात्तद्वन्नानात्वस्य च प्रसङ्गानोपाधय इति । कथं पुनर्भेदाभेदाभ्यामुपाधितद्वद्भावनिराकरणं जैनस्य स्वयमपि तदभ्युपगमादिति चेत् ? अत्राह- १५
नोपधयो न तद्वन्तो भिन्नाभिन्ना अपि स्वयम् । इति ।
अपि स्वयम् आत्मनो जैनस्य नोफ्धयो न विशेषणानि कृतकत्वादीनि सन्ति न तद्वन्त उपाधिमन्तः शब्दादयः । कीदृशाः ? अभिन्नाः परस्परमेकान्तेनाव्यतिरिक्ता साङ्ख यवत् । तथा भिन्ना अपि व्यतिरिक्ता अपि यौगवत् , उक्तन्यायादिति भावः । तत्रैवोपपत्त्यन्तरमाह
जात्यन्तरे तथाभूते सर्वथा दर्शनादपि ॥२१॥ इति ।
ऐकान्तिका दादभेदाचान्या जातिः जात्यन्तरं भेदाभेदात्मकं वस्तु तत्र दर्शनात् उपाध्युपाधिमद्भावस्योपलम्भात् , न केवलं पूर्वोक्तन्यायादित्यपिशब्दः । भवति चात्र प्रयोगःयद्यस्य विरुद्ध एव दृश्यते न तत्तत्र विद्यते तथा कृतकत्वादिकं नित्यत्वादौ, दृश्यते चैकान्तविरुद्ध जात्यन्तर एवोपाध्युपाधिमद्भाव इति । न चेदं तत्रैव तद्दर्शनमसिद्धम् ; कृतकश्शब्द इत्युपाधितद्वतोः कथञ्चिद्व्यतिरेकस्य प्रतिपत्तेः । न चात्र कुतश्चिद्विरोधः; प्रतिपन्ने तदयोगात् । प्रति- ।। पत्त्यपह्नवे च न किञ्चित् स्यात् , तदन्यस्य वस्तुव्यवस्थानिबन्धनस्याभावात् । भवतु सर्वनैरात्म्यमेवेति चेत् ; न; तद्वादे तदसम्भवाद् विरोधात् । नापि तादृशात् ; तस्यापि तादृशात् सिद्धावनवस्थानात् । नायन्याशात् ; तद्वादे तदसम्भवाद् विरोधात् । कथं पुनरव्यतिरेकाविशेषे शब्दस्योपाधिमत्त्वमेव नोपाधित्वमिति चेत् ; न; 'पौद्गलिकः शब्दः' इत्युपाधिमत्त्ववत 'शब्दः पुद्गलः' इत्युपाधित्वस्यापि तत्र प्रतीतेः । एकोपाधिप्रतिपत्तौ किन्न सर्वोपाधिप्रतिपत्तिरिति १० चेत् ? ना; एकान्ताभेद एवं दोपात्
१ कल्पनाप्रबन्धस्य । २ कल्पनाप्रबन्धस्य । ३ प्रदीपादिसंपर्कात् । ४ प्रदीपादिसम्पर्कमात्रात् । ५ उपाधिमतः । ६ उपाधिमदपेक्षत्वात् । ७ यद्यद्विरु-आ०, ब०, प०। ८ प्रतीतिव्यतिरिक्तस्य ।