________________
१०
१५
२०
४४
तथा हि
न्यायविनिश्चयविवरणे
शब्दाच्चेत्तदनित्यत्वमेकान्ताव्यतिरेकवत् ।
तदूग्रहे ग्रहणात्तस्याप्यनुमानेन किं फलम् ॥ १३२४ ॥ निश्चयश्चेन्न तस्यापि तन्निश्चित्यैव निश्चयात् । निश्चितानिश्चितत्वेन तद्भेदोऽप्यन्यथा भवेत् ।। १३२५ ।। निश्चिते च समारोपो विरोधान्नावकल्पते ।
यतस्तस्य व्यवच्छेदः फलं स्यादानुमानिकम् ॥ १३२६ ॥
तथा यौगस्य
अर्थान्तरत्वमेवात्मा भागेभ्यो यदि भागिनः ।
तथैवासौ प्रतीयेत. नानुस्यूततया जनैः ॥ १३२७ ॥ अस्ति चायमनुस्यूतप्रत्ययस्तन्तवो हि ते । पटोऽयमिति लोकस्य प्रवादादप्रमादिनः ।। १३२८ ॥ न चायं विभ्रमादेव निश्चिते तदसम्भवात् । सुप्रसिद्धं च योगस्य प्रत्यक्षं निश्चयात्मकम् ।। १३२९ ॥ न तन्निश्चित भेदस्याप्यभेदविषया मतिः । निवेदितमिदं देवैः स्वयमन्यत्रे तद्यथा ॥ १३३० ।। "प्रत्यक्षं सविकल्पं चेत्सामान्यसमवायिनाम् । अनुस्यूतधियो न स्युरेकस्यात्र विनिश्वयात् ||" इति । सामान्यगुणकर्मस्वयेवं तद्वद्विभेदिषु ।
तथैवावगमात्तेषु विवादो विदुषां कथम् ॥ १३३२ ॥ तद्वयव च्छित्तयेतस्माद्वयर्थं शास्त्रोपकल्पनम् । एकान्तव्यतिरेकस्तन्नोपाधीनां परस्परम् । १३३३ ॥
[ २।२१
२५
तस्मादुपपन्ना जात्यन्तरे कस्यचित्प्रतिपत्तावपि उपाधेस्तदन्तरस्याप्रतिपत्तिः कथञ्चिदेव तयोरव्यतिरेकात् । जात्यन्तरं विशिनष्टि - तथा तेनोपाध्युपाधिमद्भावप्रकारेण भूते स्वहेतोरे - वोत्पन्ने इति । न हि स्वहेतोरनुपजातमन्यतो भवति । समवायाद्भवत्येवेति चेत् ; न ; तस्य निषिद्धत्वात् । कथं तत्र तद्दर्शनमिति चेत् ? सर्वथा सर्वेण परमार्थप्रकारेण चेति । न कल्पना नाम जात्यन्तरमन्तरेण, तस्या अभिलाप्येतरस्वरूपतया तदात्मत्वात् । अन्यथा तदसम्भवस्य निवेदितत्वादित्यलं प्रसङ्गेन ।
परस्यै तु मतम्--न शब्दाल्लिङ्गाद्वोपाधिमतः प्रतिपत्तिर्यतस्तस्य निरवशेषोपाधिशबलित३० स्यैकस्मादेव शब्दादेरवगमात् तद्न्तरस्य तत्र वैफल्यं स्यात्, अपि तूपाधीनामेव । तत्र, चैकतम -
१ सिद्धिविनिश्चये ( परि० २ ) । २ " मीमांसकस्य " - ता० टि० । “ अनन्तधर्म के धर्मिण्येक धर्मावधारणे । शब्दोऽभ्युपायमात्रं स्यान्नात्माध्यारोपकारणम् ||" - मी० श्लो० १|१| ४ श्लो० १७८ ।