________________
२।२२ ]
२ अनुमानप्रस्तावः
विषयेणान्येषामनवगमात् न तदन्तरवैयर्थ्यमिति । तत्राह—
४५
तद्वत्यचोदिते शक्तेऽशक्ताः किं तदुपाधयः ।
चोद्यन्ते शब्दलिङ्गाभ्याम् [समं तैस्तस्य लक्षणे] ॥ २२ ॥ इति । ते उपाधयो विद्यतेऽस्येति तद्वान् खण्डादिस्तस्मिन् । कीदृशे ? शक्ते वाहदोहादि - प्रयोजननिर्वर्तनसमर्थे । किं न किञ्चित् तदर्थिनां तत्र प्रवृत्त्यादिकम् । यदि स तत्र समर्थः कथं ५ प्रवृत्त्यादिकमिति चेत् ? आह-अचोदिते बुद्धिविषयत्वेनाप्र रिते । शब्दलिङ्गाभ्यां शब्देन गवादिना लिङ्गेन ककुद्मत्त्वादिना । न हि शक्त इत्येव क्वचित् कस्यचित् प्रवृत्तिरतिप्रसङ्गात्, अपि तु प्रतिपन्ने । न च शब्दादेस्तद्वतः प्रतिपत्तिः । अस्तूपाधिष्वेव प्रवृत्तिः तेषां ततः प्रतिपत्तेः, तदाह- 'तदुपाधयश्चोद्यन्ते शब्दलिङ्गाभ्याम्' इति । तत्रोत्तरम् - किं न किञ्चिद् वाहादि - प्रयोजनं तदुपाधिभिरिति विभक्तिपरिणामेन सम्बन्धः । कुतः ? अशक्ताः ते तत्रासमर्था यत इति । १० उपाधयश्चेत्ते तत्र समर्थाः परिकल्पिताः ।
उपाधिमान् परः कस्मात् कल्प्यते निष्प्रयोजनः ? ।। १३३४ ॥ तस्मादशक्तितस्तेषां चोदितैरपि तैः फलम् ।
न किञ्चिद्वयवतां व्यर्था तच्चोद्ना ततः ।। १३३५ ॥
यदि चोपाधिमतो न चोदना कुत इदानीं 'खण्डादेर्गोत्वादि:' इति प्रतिपत्तिः ? १५ प्रमाणान्तरादिति चेत्; यत्र तर्हि नोभयविषयं तदस्ति तत्र कथं यथा 'श्रेयःसाधनत्वं द्रव्यादेः ' इति । न ह्यत्र द्रव्यादेरिव तदुपाधेः श्रेयःसाधनत्वस्यापि प्रमाणान्तरात् प्रतिपत्तिः, आगमादेव तद्भावात् । अत एवोक्तम्- "धर्मे चोदनैव प्रमाणम्" [ ] इति । न च तत्साधनत्वस्येव द्रव्यादेरपि तद्वतः शब्दादेव प्रतिपत्तिः 'उपाधय एव चोद्यन्ते' इत्यस्य विरोधात् । न चोभयविषयमन्यदस्ति यतोऽयमस्येति सङ्कलनम् । आत्मास्तीति चेत्; न ; ततोऽप्यप्रमाणात्तदयोगात् प्रमाणकल्पनावैफल्यात् । प्रमाणत्वेऽपि नोभयविषयत्वम् ; प्रत्यक्षादित्वे द्रव्यादावेव, शब्दत्वे च तत्साधनत्व एव पर्यवसानात् । न चैकैकमात्रपर्यवसित इदमस्येति सङ्कलयितुमर्हति सत्ये - वोभयविषयत्वे तदर्शनात् यथा देवदत्तस्य कम्बल इति । ततो न युक्तमिदम्-
9
२०
" द्रव्य क्रियागुणादीनां धर्मत्वं स्थापयिष्यते ।
२५
[ मी० श्लो० १।१।२ श्लो० १३ ] इति । तन्न उपाधिमतोऽचोदनायामसङ्कलनं प्रवृत्तिर्वा । तत्रोपाधिभिस्तत्परिज्ञानात् प्रवृत्तिरिति चेत ; शब्दादिनैव किन्न तत्परिज्ञानं यतः पारम्पर्यं परिकल्प्येत ? तद्वतामानन्त्यात् तत्र शब्दसम्बन्धस्य दुरवबोधत्वादिति चेत्; न; उपाधिसम्बन्धस्यापि तदविशेषात् । न ह्युपाधयोऽ प्यपरिज्ञातसम्बन्धा एव तमवगमयन्ति अतिप्रसङ्गात् । कथं वा तत्र शब्दान्तरादिप्रवृत्तिः ? एकोपाधिद्वारेणैकवत् तद्वतः सकलोपाधिशबलितस्य प्रतिपत्तेः । तदाह -: समं तैस्तस्य लक्षणे ।' इति । समं सदृशं दूषणम् । तैरुपाधिभिः तस्य तद्वतः लक्षणे परिज्ञाने इति ।
३०
१ “वाहदोहादिप्रयोजने" - ता० टि० । २ शाब्दत्वञ्च आ०, ब०, प० । ३ उपाधिमत्परिज्ञानात् । ६ तदुपगम - आ०, ब०, प० ।
४ उपाधिमतः परिज्ञानम् । ५ तद्वता नूनं स्यात् आ०, ब०, प० ।