________________
न्यायविनिश्चयविवरणे
[२।२३ तदुपाधिभिरण्युपाधिरूपतयैव तस्य लक्षणाददोष इति चेत्ः न; अन्यरूपतयाऽन्यस्य लक्षणायोगादनवस्थाप्रसङ्गाच्च । कथञ्चोपाधेरपि चोदनम् , कथञ्च न स्यात् ? सम्बन्धापरिज्ञानात् । न ह्यपरिज्ञातसम्बन्धादेव लिङ्गादेस्तत्परिचोदनम् ; अतिप्रसङ्गात् । तत्परिज्ञानञ्च सिद्ध एव गोत्वादा उपाधौ भवति नासिद्धे खरविषाणवत् । सिद्ध एवायं 'खण्डो गौमुण्डो गौः' इत्यनुगमप्रत्ययादिति चेत् ; ततः पूर्वं कीदृशस्तत्स्वभावः ? सिद्ध एव तदापि तत्प्रत्ययादिति चेत् ? न; ततोऽपि पूर्वं तत्प्रययात्तत्सिद्धौ तत्प्रसङ्गात् , तस्य चाप्रतिपत्तेः, विषयान्तरसञ्चारव्यतिक्रमाच्च असिद्ध एवेति चेद् ; उच्यते
तत्प्रत्ययेऽपि तस्यासौ स्वभावश्चन्न नश्यति । से कथन्नाम सिद्धः स्यात्तादृगन्यपदार्थवत् ॥ १३३६ ॥ स एव प्रत्ययस्तस्य सिद्धिश्चेत् सर्ववस्तुनः । स एव सिद्धिरेवं च विफलं प्रत्ययान्तरम् ॥ १३३७ ।। प्रतीतिस्तस्य सर्वस्य न परिस्फुरतीति चेत् । अंत्यक्तासिद्धरूपस्य प्रकृतस्यापि तत्समम् ॥ १३३८ ॥ यदि तस्य परित्यागे सति तत्प्रत्ययो भवेत् । कथं नित्यस्वभावत्वं गोत्वादेरुपवर्णितम् ॥ १३३९ ॥ न चानेकान्तवादेऽस्ति परस्याभिरुचिर्यतः ।
उत्पत्तिस्थितिसंहारस्वभावोऽयं प्रकल्प्यताम् ॥ १३४० ॥ किञ्च, अंयमनुगमरूपतया कुतश्चित्सिध्यन् विशेषादव्यतिरिक्तश्चेत् ; विशेषस्यैवानुगमः स्यात् अव्यतिरेकस्यैवंरूपत्वात् । न चैवम् , खण्डादिरेव मुण्डादिरित्यप्रतिपत्तेः, वस्तु२० साङ्कर्यदोपाच्च । नैकान्तेनाव्यतिरेकः व्यतिरेकस्यापि भावादिति चेत् ; न ; उभयस्वभावतया
सावयवत्वापत्तेः । न चेदमुचितम्-"विभुत्वावयवाभावौ प्रतिपाद्यौ च शब्दवत् ।' [ मी० श्लो० वन० श्लो० ३१ ] इत्यस्य विरोधात् । व्यतिरिक्तश्चेत् ; न ;
"सर्ववस्तुषु बुद्धिश्च व्यावृत्यनुगमात्मिका । जायते द्वयात्मकत्वेन विना सापि न युक्तिमत् ॥" [मी० श्लो० आकृति० श्लो०५]
इत्यस्य व्यापत्तेः, अनेनाव्यतिरेकस्य प्रतिपादनात् । तन्न गोत्वादेः सिद्धिर्यत्र सम्बन्धपरिज्ञानं लिङ्गस्य । भवतु विशेषेष्वेव तस्य तदिति चेत् ; न ; तेषामानन्त्येनाग्दिशां तत्र' तदसम्भवादित्यभाव एवानुमानस्य । इदमेवाह
सम्बन्धो यत्र तत्सिद्धरन्यतोऽप्रतिपत्तितः।
अनुमानमलं [ किं तदेव देशादिभेदवत् ] ॥२३॥ इति । १ उपाधिमतः। २ गोत्वादिः। ३ तथापि आ०, ब०, प० । ४ अनुगतप्रत्ययात् । ५ असिद्धः स्वभावः। ६ कथन्नाम भवेत्सिद्धस्ता-आ०, ब०, प०। ७ सिद्धश्चे-आ०, ब०, प०। ८ अध्यक्ताआ०, ब०, प० । ९ गोत्वादिः । १०-स्यैव रूपात्वत् आ०, ब० । ११ तत्र सम्भ-अ०, ब०, प०।