________________
२।२३ ]
२ अनुमानप्रस्तावः
सम्बन्धो लिङ्गस्याविनाभावः सिद्ध्येदिति शेषः । कुतः ? यत्र यस्मिन् साध्ये गोवा समतः तत्सिद्धेः । न च तत्सिद्धिरुक्तान्न्यायादिति भावः । ततश्च अनुमानमलम् अनुमानस्य मलं दूषणमभावलक्षणमित्यर्थः । सम्बन्धप्रतिपत्तिपूर्वकत्वेन तस्य तदभावेऽनुपपत्तेः । अतश्च तन्मलम्, अन्यतः अन्येषु विशेषेषु अप्रतिपत्तितः । सम्बन्धस्येति विभक्तिपरिणामेन सम्बन्धः ।
४७
भवतु विशेषेषु देशत एव तत्परिज्ञानं न साकल्येनेति चेत्; अत्राह - सम्बन्ध इत्यादि । यत्र यस्मिन् विशेषरूपे लिने साध्ये च सम्बन्धो ज्ञातस्तयोस्तज्ज्ञानादेव सिद्धिः तत्सिद्धिः तस्याः संम्बन्धसिद्धेः सम्बन्धसिद्धित एवोपपत्तेः अनुमानमलं पर्याप्तं निष्प्रयोजनत्वात् । अन्यत्र सप्रयोजनमिति चेत्; न; अन्यतः अन्यस्मादप्रतिपन्नसम्बन्धालिङ्गाद् अप्रतिपत्तितः साध्यस्यापरिज्ञानादतिप्रसङ्गादनुमानमलं कल्पयित्वेति शेषः । नायं दोषः ; १० सामान्ये सम्बन्धज्ञानात्, तस्य च निदर्शनवदन्यत्रापि भौवेन अनुमानोपपत्तेरिति चेत् ; न ; दत्तोत्तरत्वात् । अपि च, सामान्यं यदि प्रतिव्यक्ति भिन्नम् ; कस्तस्य विशेषेभ्यो विशेषो यतस्तत्र सम्बन्धग्रहणम् ? अथाभिन्नमेव निदर्शनगतस्यैवान्यत्रापि भावात् तर्हि निदर्शनस्थान एवान्यत्र गतस्यापि किन्न प्रतिपत्तिः न हि प्रतिपन्नादभिन्नमप्रतिपन्नमुपपन्नं नाम विरोधात् । अस्त्येव तस्यापि प्रतिपत्तिरिति चेत्; न; तदधिकरणानामपि तत्प्रसङ्गात् । न हि तदप्रतिपत्तौ १५ तन्निष्ठस्य प्रतिपत्तिः । मा भूत्तन्निष्ठतया तस्य सेति चेत् ; न तस्य त्वात् प्रतीतस्य चेतरस्वभावानुपपत्तेः । नासौ तस्य स्वभावः समवायत्वेनार्थान्तरत्वादिति चेत् ; तेन कथं तन्निष्ठं नाम ? अनभिमतव्यक्तिनिष्ठताया अप्यनुषङ्गात्तदविशेषात् । तथापि स्वगतात्कुतश्चिद्विशेषात् नियतविशेषनिष्ठमेव तदिति चेत्; स तर्हि विशेषः प्रतीयमानः तद्विशेषानपि प्रत्याययति, अन्यथा स्वयमप्रतिपत्तेः । न हि तदभिमुखस्य तदप्रतिपत्तौ सम्भवति प्रतिपत्तिः । न च स्यापि तदर्थान्तरत्वं पूर्वप्रसङ्गादनवस्थापत्तेश्च । दृश्यमानव्यक्त्यभिमुखस्यैव तस्य ज्ञानं न तदन्याभिमुखस्येति चेत्; किमिदानीं प्रतिव्यक्ति तस्य भेद: ? तथा चेत् ; न ; तँदनन्यत्वेन सामान्यस्यापि तत्प्रसङ्गात्, 'भिन्नादभिन्नं भिन्नमेव, इति न्यायात् । तदाह'किं तदेव देशादिभेदवत्' इति । तदेव एकमेव । किम् ? नैव । सामान्यम् । कीटशम् ? देशस्तदंशो व्यक्त्यभिमुखस्वभाव आदिर्यस्याश्रयादेः सोऽस्यास्तीति देशादिभेदवत् २५ इति । तन्न सामान्यं नाम किञ्चित्, यत्र प्रतिबन्धग्रहणं लिङ्गस्य ।
तत्स्वभाव
१- रुक्तन्या - अ०, ब०, प० । ४ प्रतिपत्तिप्रसङ्गात् । ५ समवायेन । तथापीति तत्र तत्प्र-आ०, ब०, प० । ९
आ०,
ब०, प० ।
५
भवतु वा तत्, तथापि किं तत्प्रतिपस्या ? तदनुमानमिति चेत्; तेनापि किम् ? अर्थक्रियार्थिनस्तत्र प्रवृत्तिरिति चेत्; न; तत्र तस्यासामर्थ्यात् विशेषकल्पनावैयर्थ्यापत्तेः । विशेषेष्वेव तदनुमानात्प्रवृत्तिरिति चेत्; कथमन्यानुमानादन्यत्रं प्रवृत्तिः", अतिप्रसङ्गात् । अनुमितादनुमानादिति चेत्; न; प्रतिबन्धापरिज्ञाने तदनुपपत्तेः । तत्परिज्ञानञ्च न साकल्येन; ३० अस्मदादेरशेषविशेषप्रतिपत्तेरभावात्, देशत इति चेत्; न ; तत्रापि प्रतिबन्धज्ञानविषयस्य
२ सम्बन्धिसि -आ०, ब०, प० । ३ भावे अ-आ०, ब०, प० । ६ तदभिमुखत्वस्यापि । ७ तदन्यत्वेन आ०, ब०, प० । ८-तु " प्रतिबन्धप्रतिपच्या " - ता० टि० । १० विशेषे । ११ प्रतिपत्तिः
२०