________________
४८
न्यायविनिश्चयविवरणे
[२।२४
एव सिद्धेः, अतद्विषयस्य चानुमानादप्रतिपत्तेः तस्यैवानवतारात् । एतदेवाह-'सम्बन्ध' इत्यादि । व्याख्यानं पूर्ववत् । एकत्र विशेष सम्बन्धग्रहणमेव सामान्यस्यान्यत्रापि तद्ग्रहणं तदयमदोष इति; स्यादेवं यदि विशेषाणामेकत्वं भवेत् , न चैवम् , देशादिभेदाभावापत्तेः ।
तदाह-'किम्' इत्यादि । तदेव सम्बन्धज्ञानवेद्यमेव विशेषरूपम् , किम् ? नैव भवति । ६ कीदृशं न भवति ? देश आदिर्यस्य कालादेस्तेन भेदवदिति ।
सामान्यादपि सामान्यमनुमेयं यदीप्यते । कस्तेनानुमितेनार्थो यदेकमुपकल्प्यते ॥ १३४१ ॥ वाहदोहादिरर्थश्चेत् सामान्यात्प्रथमादयम् । --- असम्भवी कथन्नाम सामान्यान्तरतो भवेत् ॥ १३४२ ॥ तदन्तराच्च सामान्यमन्यच्चेदनुमीयते ।
अनुमानानवस्थेयं चेतःखेदाय ते भवेत् ॥ १३४३ ।। किं वा प्रयोजनं सामान्यात् ? तत्र लिङ्गस्य प्रतिबन्धनिर्णय इति चेत् ; विशेषेष्वेव किन्न भवति ? तेषामानन्त्येन दुरवबोधत्वादिति चेत् ; सामान्यस्यापि न भवेत् , दृष्टिविशेषे तस्य निर्णय एवान्यत्रापि तन्निर्णयो दृष्टसमानत्वात्तस्येति चेत् ; न ; लिङ्गस्याप्येवं तन्निर्णयप्रसङ्गात् । कुतो वा तस्य दृष्टसमत्वम् ? तत्र सामान्यभावात् । सोऽपि कुतः ? तत्र तत्प्रतिबन्धस्य निर्णयात् । अयमपि कस्मात् ? तस्य दृष्टसमानत्वादिति चेत् ; न; चक्रकदोषात् । यदि पुनः स्वत एव तस्य तत्समत्वं तर्हि सामान्यप्रयोजनस्य तत एव भावाद् व्यर्थमर्थान्तरतत्कल्पनम् । यदि सामान्यमप्रतिपन्नम् , कथं तस्य प्रतिषेधः पिशाचादिवत् ? प्रतिपन्नं चेत् ; तथापि
कथम् ? तत्प्रतीत्यैव बाधनादिति चेत् ; कथमिदानी प्रत्यनीकव्यवच्छेदेन स्वपक्षस्थापनम् ? २० शक्यं हि वक्तुम्
प्रतीतिः प्रत्यनीकस्य न चेन्नास्ति निषेधनम् । प्रतीतिः प्रत्यनीकस्य यदि नास्ति निषेधनम् ॥ १३४४ ।। अनिषेधे च तस्य स्यात् कथमन्यः पराजयी ? तदभावे कथन्नाम यौगो विजयमुद्वहेत् ॥ १३४५ ॥ परोक्त्या विदितस्यापि युक्तिसाङ्गत्यवर्जनात् ।
निषेधस्तस्य चेदेवं सामान्यस्याप्यसौ भवेत् ॥ १३४६ ॥ साम्प्रतमुक्तन्यायेन सौगतमपि प्रतिक्षिपन्नाह- -
एतेन भेदिनां भेदसंवृतेः प्रतिपत्तितः ।
तत्रैकं कल्पयन् वार्यः [समाना इति तद्ग्रहात् ] ॥२४॥ इति ।
तत्र तेषु भेदिषु एकम् अनुगतमाकारम् कल्पयन् सौगतो वार्यो निवारयितव्यः। कुतस्तत्कल्पयन् ? प्रतिपत्तितः प्रतीतेरेकस्याकारस्य । कुतः प्रतिपत्तितः ? भेदसंवृतेः संव्रियते प्रच्छाद्यतेऽनयेति संवृतिर्विकल्पिका बुद्धिः । भेदस्य परस्परव्यावृत्तेः संवृतिः भेदसंवृतिस्तत इति । केषां स भेदो यस्य संवृतिरिति चेत् ? भेदिनां विजा
१ अदृष्टविशेषस्य । २-समत्वादि-आ०, ब०, प० । ३ भेदेषु आ०, ब०, प० ।
30