________________
२।२४ ]
२ अनुमानप्रस्तावः
तीयव्यावृत्तिमतां खण्डादीनाम् । 'भेदिनाम्' इत्यस्यापेक्षणेऽपि गमकत्वात् "भेदसंवृत्तेः' इति वृत्ति': । केन स वार्यत इति चेत् : एतेन मीमांसकादिदूषणेन । तथा हि-संवृतिविकल्पितस्याकारस्य भेदिभ्यो भेदे तस्यैव लिङ्गादेः प्रतिपत्तेः प्रवृत्तिरपि तत्रैव स्यात् न भेदेषु । न चेदमुचितम् ; अशक्तत्वात् । न हि तस्य वाहादौ शक्तिः, भेदिकल्पनावैफल्योपनिपातात् । भवतु भेदिष्वेव प्रवृत्तिस्तेषां तदाकारेण लक्षणादिति चेत् ; न ; लिङ्गादिनैव तत्प्रसङ्गात्, तदाकारस्येव ५ तस्यापि तत्र प्रतिबन्धपरिज्ञानोपपत्तेः । तेनापि सामान्यरूपेणैव तल्लक्षणे अनवस्थापत्तेश्च । ततः 'तद्वत्य चोदिते' इत्याद्यत्रापि समानम् । तेभ्यस्तस्याभेदे तु तद्वदेव वस्तुसत्त्वान्न संवृत्या प्रतिपत्तिः । कथं वा तया तत्प्रतिपत्तिः, कथञ्च न भवेत् ? अतदाकारत्वे साकारवादविनिपातेन तदयोगात् । तदाकारत्वे कथं तस्याः क्षणिकनिरंशत्वं तद्वदेव देशकालाभ्यां दैर्ध्यात् । तथा तदाकार - स्यैव दैर्घ्यं न तस्या इति चेत्; न; अविष्वग्भावे तदनुपपत्तेः । विष्वग्भूतैव सा ततः केवलमन्यैव संवृतिस्तदविष्वग्भावमाविर्भावयतीति चेत्; न; तयापि तस्याः परिज्ञाने तदयोगात् । तदाकारतया परिज्ञानेऽपि स एव प्रसङ्गः तस्याः कथं क्षणिक निरंशत्वमित्यादिः । तस्या अपि ततो विष्वग्भावकल्पनायामनवस्थापत्तिः। तन्न कुतश्चिदप्येकाकारप्रतिपत्तिः । ततो निर्विषयमिदम्
१०
४६
"पररूपं स्वरूपेण यया संवियते धिया ।
एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः । । [ प्र० वा० ३।६७] इति । १५ ‘एकार्थप्रतिभासिन्या' इत्यस्यासम्भवात् । यदपीदमन्यत् —
“तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् ।
अमेदिन इवाभान्ति भावरूपेण केनचित् ॥” [प्र० वा० ३।६८] इति ।
1
तत्र 'भेदिनः' इति न तावत्तद्बुद्ध्यपेक्षम् ; तया तन्नानात्वस्यावरणात् । न हि तदावृण्वत्येव तद्भेदमुपदर्शयति विरोधात् । बुद्ध्यन्तरापेक्षमिति चेत्; कुतः सङ्कलनम् - भेदिनः स्वयमभेदिन इव २० इति ? न नानात्वसंवृतेः; तया भेदिनामप्रवेदनात् । नापि भेदिबुद्धेः, तयापि संवृतिविषयस्यापरिज्ञानात् उभयविषयाद् बुद्ध्यन्तरादिति चेत्; न; तदसम्भवात् । न हि किञ्चिद्वेदनं कचिद्भेदमुपदर्शयदेव तद्विपर्ययमुपदर्शयितुं समर्थं नीलत्वमुपदर्शयतैव क्वचित्पीतत्वस्याप्युपदर्शनप्रसङ्गात् । तन्न सामान्याकारः शक्यप्रतिपत्तिक इति न तत्र नापि विशेषे सम्बन्धपरिज्ञानं लिङ्गस्येति प्रलीन एवानुमानव्यवहारः । तत इदमप्यत्र समानम्–'सम्बन्धो यत्र' इत्यादि । ततः सूक्तम् 'एतेन' इति ।
२५
इतरच वार्य इत्याह- 'समाना इति तद्ग्रहात्' इति । खण्डादिभिर्मुण्डादयः समानाः सदृशा इति । 'तेषां भेदिनाम् ग्रहात् प्रतिपत्तेः । 'तत्रैकं कल्पयन् वार्यः' इति । खण्डादय एव मुण्डादय इति प्रतिपत्तौ हि तत्राभेदकल्पनमुपपन्नं न समाना इति प्रतिषत्तौ, ततस्तेषु समानताया एव प्रसिद्धेर्नाभेदस्य । न च त एव ते इति प्रतिपत्तिर्लोकस्य एवं व्यवहारादृष्टेः । ननु च धर्मकीर्तिनाप्येतदभिहितम् —
३०
१ समासः । २ न्यायवि० श्लो० २।२२ । ३ न्यायवि० श्लो० २ / २५