________________
न्यायविनिश्चयविवरणे
[२।२५ "प्रतिभासो धियां भिन्नः समाना इति तद्ग्रहात् ।" [प्र० वा०३।१०६] इति । तत्कथं स एव तदेवैकं संवृतिनिबन्धनमभिदध्यादिति चेत् ? स एवेदं प्रष्टव्यो य एवं स्ववाग्विरुद्धमवरुणद्धि।
स्यान्मतम्-नासौ संवृतिवेदनेऽप्येकमनेकसाधारणमाह यतः स्ववचनविरोधः । किं तहिं ! ५ खण्डादीनामतद्धेतुफलापोहमेव, तस्यैव तेषु समानत्वेन सामान्यव्यवहारगोचरत्वात् । तस्यापि तेभ्यो
भेदे तदपोहशब्देन सामान्यमेव योगप्रसिद्धमभिहितं भवेत् । अभेदेऽपि मीमांस[क]परिकल्पितम् । तदुक्तम्
"अगोनिवृत्तिः सामान्यं वाच्यं यः परिकल्पितम् ।
गोत्वमेव च तैरुक्तमगोऽपोहगिरा स्फुटम् ॥" [मी० श्लो०अपोह० श्लो० १] १० इत्यपि न चोद्यम्; तेभ्यस्तस्य तत्त्वान्यत्वाभ्यामवाच्यत्वात् । अवस्तुरूपा हि खण्डादयस्तत्सामान्यञ्च,
उभयेषामप्यपोहकल्पितत्वात् । न च तेषामन्योन्यं तत्त्वमन्यत्वं वा; वस्तुष्वेव तद्विकल्पोपपत्तेः । "वस्तुन्येष विकल्पः स्यात्" [ ] इत्यादिवचनात् । ततस्तत्र भेदाभेदाभ्यां दोषोपकल्पनं परमतानभिज्ञान पिशुनयतीति । तदेवाह
अतद्ध'तुफलापोहः सामान्यं चेदपोहिनाम् ।
सन्दश्यते तथा बुद्धया [न तथाऽप्रतिपत्तितः] ॥ २५ ॥ इति । हेतुश्च फलञ्च हेतुफले तद्विवक्षिते खण्डादिवाहादिलक्षणे हेतुफले येषामन्येषां खण्डादीनां ते तद्धेतुफला न तद्धेतुफला अतद्ध तुफलाः कर्कादयस्तेषामपोहः सामान्य गोत्वादि नापरम् । केषाम् ? अपोहिनाम् विजातीयविशेषवतां खण्डादीनाम् । कुत एतत् ? सन्दश्यते सम्यग
बाधितत्वेन प्रकाश्यते सामान्यम् । तथा तेन तदपोहप्रकारेण, बुद्धया विकल्पवित्या यतः । चेत् २० शब्दः पराकूतद्योतने । तत्रोत्तरमाह-न तथाऽप्रतिपत्तितः इति । न नास्ति परोक्तम् ।
कस्मात् ? तथा तेन तदपोहरूपप्रकारेण । अप्रतिपत्तितोऽपरिज्ञानात् सामान्यस्य । तथा तत्प्रतिपत्तिर्हि न तत एव सामान्यज्ञानात् ; तथैवानिश्चयात् । न हि तदेव तद्विषयस्यापोहरूपैंतां निश्चिनोति; निर्विवादापत्तेः । विचारात्तस्य ताप्यमिति चेत् ; कुतएतत् ? तस्य निश्चयरूपत्वात् ; न तज्ज्ञानस्यापि सविकल्पत्वेन तदविशेषात् । निश्चितस्थापि निश्चयान्तरापेक्षणे अनवस्थानं २५ तत्रापि तदन्तरापेक्षणात् । विचारश्च सामान्यज्ञानस्यान्यतोऽसम्भवादेव अवतरति । न चासावस्ति
सादृश्यविशेषादपि तदुपपत्तेः । सोऽपि नैयायिकादिसामान्यवत् भेदाभेदाभ्यां परिचिन्त्यमानो न सम्भवत्येवेति चेत्; उच्यते
अपोहो यदि केकदिर्न समः खण्डमुण्डयोः । असमानात् कथं तस्मात् समानप्रत्ययो भवेत् ॥१३४७॥
१-ल्पसंवि-आ०, ब०, प० । २ च शब्दः आ०, ब०, प० । ३-व तन्निश्च-आ०, ब०, प० । ४-खान्निश्चि-आ०,ब०प० । ५ सामान्यस्य । ६ अपोहरूपत्वम् । ७ एतस्य आ०, ब०, प० । ८-त्तद्विचाआ०, ब०, प०। ९ सामान्यज्ञानस्य अन्यतोऽसम्भवः । १० सादृश्यविशेषोऽपि । ११ कर्कादिः आ०, ब०, प० ।