________________
टाटा १५
२।२५]
२ अनुमानप्रस्तावः समानश्चेत्कथं भद्र, सादृश्यं दृषितं त्वया । अपोह एव सादृश्यं भावानामिति चाकुलम् ॥ १३४८ ॥ तस्य वस्तुष्वसद्भावात् कल्पनारोपितात्मनः। एकत्वाध्यवसायाच्चेत् तस्य वस्तुषु सम्भवः ॥१३४९॥ नैकत्वस्याप्यसभावात्तेष्वारोपितरूपिणः । तस्याप्येकत्वनितिरन्यतस्तत्र सम्भवे ॥ १३५० ॥ अनवस्थालतापाशबन्धनान्मुच्यते कथम् । तन्न व्यावृत्तिसामान्यं विचारक्षममीक्षते ॥ १३५१ ॥ अविचार्येव चेदिष्टं व्यवहाराय तत्परैः । मीमांसकादिसामान्यं तथैव न किमिष्यते ॥ १३५२ ॥ अविचारितरम्यत्वाविशेषेऽपि क्वचित् कथम्।
पक्षपातः सतां युक्तो न्यायनिर्मलचेतसाम् ॥ १३५३ ॥ मा भूत् कल्पनागतस्तदपोहः सामान्यं विचारासहत्वात्, खण्डादिगतस्तु भवत्येव विपर्ययात् । न हि ते खण्डादयः कर्कादिभिरात्मानं मिश्रयन्ति स्वरूपप्रच्युतिप्रसङ्गात् । ततः स एव तेषां सामान्यमिति चेत्; न; एवमप्यतिप्रसङ्गात् । तथा हि- यथा खण्डादयः कर्कादिव्यावृत्त्या गोव्यपदेशविषयास्तथा तृणवनगुल्मतूलोपलादयोऽपि स्युः; तेषामपि तदविशेषात् । न हि तेऽपि तैरात्मानं मिश्रयन्ति तद्भेदापरिज्ञानप्रसङ्गात्, तथा च गामानयेति चोदितेन तत्रापि प्रवर्त्तितव्यम् । तदविशेषेऽपि खण्डादय एव गावः तत्रैव वाहदोहादेरेककार्यस्य भावात् , न तृणादयो विपर्ययादिति चेत् तत्रैव कुतस्तद्भावः ? तदपोहादिति
चेत; न: तृणादावपि तत्प्रसङ्गात् । शक्तिसाम्यादिति चेत् । तदेव तर्हि सामान्यं न तदपोहः, सतोऽषि तस्य वनगुल्मादौ ताप्याभावात् । तदाह—'न तथा' इत्यादि । न तदपोहः सामान्यं तथा तेन .. सामान्यरूपप्रकारेण अप्रतिपत्तितो वनतृणादौ तस्यापरिज्ञानात् । कथं पुनः शक्तिसाम्यमपि सामान्यम् ? कथं च न स्यात् ? तस्य वस्तुष्वेकस्याभावात् शक्तिमदभेदात् सामान्यस्य चैकरूपत्वादिति चेत; कथमिदानी तत एक कार्यम् ? शक्तिभेदे तद्भेदस्यैवोपपत्तेः । मा भूदिति चेत्; कथमिदमुक्तम् -
"एकप्रत्यवमर्शार्थज्ञानाघेकार्थसाधने ।" [प्र० वा० ३।७२] इति ? तदपि वस्तुतो भिन्नमेव, अभेदस्तु तत्राप्यन्यस्मादेवैककार्यादिति चेत् ; न; तस्यापि तदभेदे । भेदेस्यैवोपपत्तेः। तस्याप्यन्यस्मात् तत एकत्वकल्पनायामनवस्थादोषात्। न जैनस्यैकरूपत्वादेव सामान्यम्, अपि तु तत्प्रयोजनात्, तच्चानेकत एव सदृशादुषपन्नम् । अत एव वक्ष्यति-"नानेकत्र न चैकत्र वृत्तिः सामान्यलक्षणा" न्यायवि० श्लो० २००] इति । अपि च, के नामाषोहिनो येषां तदपोहः सामान्यमुपकल्प्येत ? प्रसिद्धा एव खण्डादय इति चेत्; न तेषां तत्त्वतोऽसम्भवात्, अवयविवादप्रतिषेधात् । संवृत्या सम्भव इति चेत् ; न तर्हि तदपोहः; तेषामवस्तुत्वाद् वस्तुसतामेव क्वचित्तत्त्वान्यत्वयोरु-,
१ तस्याव-आ०, ब०, प० । २-यन्तीति त-आ०, व०, प० । ३ तृणगुल्मादिषु । ४-सामान्यादि-आ०, ब०, प० । ५-सामान्यमपि आ०, ब०, प० । ६ शक्तिमदभेदे । ७ सम्प्रत्ययसंमा०, ब०, प०।
Ya