________________
न्यायविनिश्चयविवरणे
[२।२६ पपत्तेः “वस्तुन्येष विकल्पः" [ ] इत्यादि वचनात् । वस्त्वेकत्वावसायात्तेऽपि वस्तुसन्त एवेति चेत् ; न; तस्य निषिद्धत्वात् । तदेवाह–'न' इत्यादिना । अपोहिनामिति । कुतः ? तथा तेनापोहिनामिति प्रकारेण खण्डादीनाम् 'अप्रतिपत्तितः' इति । भवन्तु स्वलक्षणरूपा एवापोहिन इति चेत् ;
कुतस्तत्परिज्ञानम् ? निर्विकल्पाद्दर्शनादिति चेत् ; न; तस्यापि व्यवहारिष्वभावात् । न हि ते ५ तद्दर्शनं विकल्पयन्तो दृश्यन्ते, निश्चयस्यैव बहिरन्तश्च स्थूलाकारगोचरस्य तैरवकल्पनात् । विकल्पै
कत्वावसायात्तस्य तैरॅनवकल्पनं नाभावादिति चेत् ; नः पृथगवगतस्य तदवसायानुपपत्तेः । तदवगमः सन्नप्यसत्कल्प एव निर्विकल्पत्वादिति चेत्, न तर्हि ततस्तस्यास्तित्वं व्यवहारविषयः सुप्तस्येव तदनात् । अनुमानात्तदस्तित्वं तद्विषय इति चेत्; न; प्रत्यक्षतो बहिरन्तश्चासम्भवतोऽनुमानादप्यप्रतिपत्तेः, तस्यं तत्पूर्वकत्वात् । तदुक्तम्
"ब्रुवन् प्रत्यक्षमभ्रान्तं बहिरन्तरसम्भवम् । __ अनुमानबलाद् व्यक्तमनात्मज्ञस्तथागतः ॥" [सिद्धिवि० परि० १] इति । तन्न अपोहिनः स्वलक्षणरूषा अपि । तदाह—'न' इत्यादि । न परमतं तथा तेन परोक्तासाधारणप्रकारेण । अप्रतिपत्तितः अपोहिती [ नां ] खण्डादीनामिति । ततो यदुक्तम्
___ “स च सर्वपदार्थानामन्योन्याभावसंश्रयः।
तेनान्यापोहविषयो वस्तुलाभस्य चाश्रयः ॥ [प्र० वा० ३७९] इति ; तत्प्रतिविहितम् ; वस्तुन एव परपरिकल्पितस्याभावात् । सति हि तस्मिन् समानाकारविकल्पः पारम्पर्येण तस्मादात्मलाभात् तल्लाभस्याश्रयो भवेन्नासति खरविषाणवत्। तन्न अतद्धेतुफलापोहः सामान्यम् , सदृशपरिणामस्यैव तत्त्वोपपत्तेः ।
___ कुतः पुनस्तत्परिणामो भावानाम् ? विशेषपरिणामः कुतः ? तत्प्रत्ययात्; परोऽपि तत एवास्तु २० विशेषाभावात् । ततः समानेतरपरिणामात्मानो भावास्तथैव प्रतिषत्तेरिति न्याय्यम् । प्रत्यक्षतो न तस्य प्रतिपत्तिः ; ततो बहिरन्तश्चासाधारणस्यैवाकारस्य प्रतिपत्तेः, तत्प्रतिषत्तिस्तु वासनापरिपाकजन्मनो विकल्पादेव, तस्य चावस्तुविषयत्वान्न ततस्तद्वयवस्थापनं न्याय्यमिति चेत् ; अत्राह
यन्न निश्चीयते रूपं जातुचित्तस्य दर्शनम् । इति । यत् पराभिमतं रूपं दृश्यस्य दर्शनस्य च, न निश्चीयते न संशयादिव्यवच्छेदेनावधार्यते । २५ जातुचित् प्रतिसंहारवेलायामन्यदा वा । न हि तस्य तद्वेलायां निश्चयः; निश्चयस्यैव तदा विकल्प
त्वेनासम्भवात् । नाप्यन्यदा; अनुमानवैफल्यापत्तेः, निश्चिते समारोपाभावाच्च । तस्य रूपस्य । दर्शनमुपलम्भनम् । 'न' इत्यावृत्त्या सम्बन्धः । न ह्यनिश्चितं दृष्टं नाम, अन्यथा 'सत्तामात्रस्यैव दर्शनं सर्वत्र, भेदप्रतिपत्तिस्तु तदविद्यापरिपाकजन्मनो विकल्पादेव' इति विकल्प्येत । भवतु निश्चितस्यैव तस्य दर्शनमिति चेत् , अत्राह
१ भवतः स्व-आ०, ब०, प० ।। तस्याप्यपहा-आ०, ब०, प० । ३ निर्विकल्पस्य । ४ तैरवकआ०, ब०, प० । ५-या स्युस्तस्य आ०, ब०, प०।६ अनुमानस्य । ७ "स्वलक्षणप्रकारेण"-ता. टि. । ८ अपोहितानां आ०, ब०, प० । ९न हि तदभिमतस्य आ०, ब०, प० ।