________________
२।२६ ]
२ अनुमानप्रस्तावः
यथानिश्चयनं तस्य दर्शनं तद्वशास्किल ॥ २६ ॥ इति ।
निश्चयनस्यानतिक्रमात् यथानिश्चयनम्, पञ्चम्यन्तमेतत् । तस्य रूपस्य । दर्शनं किले मेति यावत् । किलशब्दस्यारुचिवाचिनो निषेधपरत्वात् । कीदृशात्ततस्तद्दर्शनं नं रुच्यत इति चेत् ? तद्वशात् सदृशेतरात्मक वस्तुवशात् । न ह्यन्यवशान्निश्चयादन्यदर्शनम्, नीलनिश्चयात् पीतादेरपि तत्प्रसङ्गात् । कुतः पुनस्तद्वशत्वं निश्चयस्येति चेत् ? स्वतस्तस्य बहिरन्तश्च जात्यन्तरविषयतयैव प्रसिद्धेः। ५ असाधारणविषयत्वे तु निश्चय एव न भवेद्दर्शनवत् । तत्र चोक्तम् — “अनिश्चितस्य न दर्शनम् " [ ] इति । पुनर्निश्चयान्तरपरिकल्पनायामनवस्थानं पूर्वप्रसङ्गानतिवृत्तेः । ततस्तद्वश एवायं तथाप्रसिद्धेः । एतदेव किलशब्देन प्रसिद्धिवाचिना दर्शयति । तद्वशत्वेऽपि निश्चयस्य कथं दर्शनस्य तत्त्वम् ? न हि तदनुसार्येव निश्चयो विपरीतस्यापि दर्शनात् । मरीचिदर्शनात्तोयनिश्चयवदिति चेत्; भवतु तत्रैव यत्र बाधकप्रत्ययः, न चेहासावस्ति । जात्यन्तरविलक्षणविषयस्य कस्यचिदपि तस्यानुपलम्भात् । जात्यन्तर- १० विषयमपि न किञ्चिदुपलभ्यत इति चेत्; न; निश्चयस्यैव दर्शनात्, तस्य विकल्पेतरात्मकतया विकल्पा - न्तरसदृशेतरात्मकतया च स्वत एवोपलम्भात् । दर्शनं तद्विषयं नोपलभ्यते यदनुसारी निश्चय इति चेत्; न; तस्यापि संस्कारप्राग्भाविनः अंवायस्योपदर्शनात् । निश्चयरूपत्वे तस्य किं संस्कारेण तद्रूपेणेति चेत् ? निश्चयतारतम्यात् प्रयोजनविशेषाच्च । विचारितचैतत् प्रथमप्रस्ताव इति नेह विचार्यते । ततः समानपरिणाम एव सामान्यं निर्बाधप्रत्ययत्वान्नापरं विपर्ययात् । तत्परिणामोऽपि यद्यनेकवृत्ति - १५ रेकः; कथं तस्य ग्रहणम् ? अनेकविशेषदर्शनादिति चेत्; न; सन्निहितवर्त्तमानविशेषदर्शनस्य तदन्यत्राप्रवृत्तेः, तद्वतो विश्ववेदित्वापत्तेः तथा च किं तस्य शब्देनानुमानेन वा ? यतस्तदर्थेन परिणामिनि सम्बन्धपरिकल्पनेन किं क्लिश्येत ? न च तदनुपलम्भे तद्गतस्य तत्परिणामस्य प्रतिपत्ति : ; व्यापकप्रतिपत्तेर्व्याप्यप्रतिपत्तिं विनाऽनुपपत्तेः । भवतु दृष्टे तस्य ग्रहणम्, अग्रहणञ्चान्यत्रेति चेत्; न; विरुद्धधर्माध्यासेन भेदे स्वरूपविरहापत्तेः । सत्यपि तस्मिन् गृहीतेतरात्मना तस्याभेदे विशेषाणामपि २० परस्परं तत्प्रसङ्गः; तथा चासन्निहितवत्तदव्यतिरेकान्न सन्निहितस्यापि तस्य दर्शनम् । दर्शने वा तत एवासन्निहितस्यापि सर्वस्य दर्शनमिति प्रतीतिप्रत्यनीकमापद्येत । विशेषेभ्यो भिन्न एव तत्परिणामः, ततो न दर्शनादर्शनाभ्यां तत्र तत्कल्पनमुपपन्नमिति चेत्; अस्तु नामैवं तथापि कथं स े कश्चित् खण्डादीनामेव न कर्कादीनामपि । तैरेवोपकारादिति चेत्; न; तस्य बहुभिरेकस्यासम्भवात् । अनेकत्वे तु तत्परिणामस्यापि तदव्यतिरेकादनेकत्वं कार्यत्वञ्चेति कथमसावेको नित्यश्चोपगम्येत ? व्यतिरेके स एव २५ प्रसङ्गः कथं स तस्येति ? तेनापि तदपरस्य करणादिति चेत्; न; तत्रापि तथा प्रसङ्गादनवस्थादोषाच्च । नोपकारवशात् स तेषाम् अपि तु तदभिव्यङ्ग्यत्वात् तत्रावस्थानात्, तैस्तत्पातप्रतिषेधाद्वेति चेत्; न; अभिव्यङ्ग्यत्वादीनामप्युपकारविशेषत्वेनानुपकारिभिरसम्भवात् । तन्नैकस्तत्परिणामः सम्भवति यस्य दर्शनं यतो वा सामान्यप्रयोजनमुपकल्प्येत । तदेवाह -
५३
१ किलेति आ०, ब०, प० । २ निश्चयरूपप्रत्यक्षस्य । ३ अवायस्य । ४ समानपरिणामोऽपि । ५- दिताप - आ०, ब०, प० । ६ विना कृत्यानुप - आ०, ब०, प० । ७ भेदस्व - आ०, ब०, प० । ८ विरुद्धधर्माध्यासे । ९ कथमसौ यः क -आ०, ब०, प० ।