________________
५५
न्यायविनिश्चयविवरणे
[२।२८ समानपरिणामश्चेदनेकत्र कथं दृशिः । इति । समानपरिणामः सादृश्यपर्यायः, एकवचनादेकत्वस्य प्रतिपत्तेः । चेत् यदि । अनेकत्र बहुषु विशेषेषु । कथं न कथञ्चित् दृशिः दृष्टिः उक्तन्यायात् । भवतु प्रतिविशेषं भिन्न एव स इति चेत् ;
कथमिदानीमसौ सामान्यम् असाधारणत्वात् विशेषवदसम्भवाच्च विशेषाव्यतिरेकात् । व्यतिरेके सम्बन्धा५ भावात् तस्येति व्यपदेशानुषपत्तिः । तदाह
न चेद विशेषाकारो वा कथं तद्वयपदेशभाक ॥ २७ ॥ इति । न चेत् न यदि समानपरिणामोऽनेकत्र, कथं न कथञ्चित् , स एव सामान्यमिति व्यपदेशः, तस्य वा विशेषस्य स इति व्यपदेशस्तव्यपदेशस्तं भजतीति तद्वयपदेशभाक् । अत्र
निदर्शनम्-विशेषाकारी वा विशेषाकार इव । 'वा' शब्दस्येवार्थत्वात् । यथा तदाकारस्या१० साधारणत्वान्न तत्र सामान्यमिति व्यपदेशो नाप्यसौ तदपरस्येति ततो' भिन्नत्वात् तथा समानपरिणामेऽपीति परो मन्यते । प्रतिविधानमत्राह--
सदृशासदृशात्मानः सन्तो नियतवृत्तयः । इति । सदृशश्चासदृशश्च सदृशासदृशौ समानासमानपरिणामौ आत्मानौ येषां खण्डादीनां ते तथोक्ताः । सदृशात्मान इति बहुवचनमनेकवर्तिन एकस्य तत्परिणामस्य निषेधार्थम् , असदृशात्मान १५ इति तु निदर्शनार्थम् । यथैवं तेष्वसदृशात्मसु नैकोऽनेकवर्तितत्स्वभावः तथाप्रतीत्यभावात् तथा सदृशात्मस्वपि तत्स्वभाव इति । ततः समानपरिणामश्चेत्' इत्यादि न दूषणमनभ्युपगमादिति भावः ।
यद्येवं भेदाविशेषात्कथमसौ सामान्यमितरवदिति चेत् ? न; तत एव सामान्यप्रयोजनस्य भावात्, अनेकवर्तित्वेऽपि तत एव तद्पपत्तेः, अन्यथाऽतिप्रसङ्गस्य वक्ष्यमाणत्वात् । आत्मग्रहणं तयोः परस्परम
भेदार्थम् । तद्भदे तदात्मनः खण्डादेरपि तत्प्रसङ्गात् । न चैवमप्रतीतेः। नियतवृत्तयः नियता सङ्क२० रव्यतिकरविकला वृत्तिरात्मलाभो येषां ते तथोक्ताः । अनेन "चोदितो दधि" [प्र० वा० ३।१८]
इत्यादि चोद्यं प्रत्युक्तम् ; दधिद्रव्यस्य स्वगतैरेव सदृशपर्यायैरात्मलाभान्न करभगतैः तथैव प्रतीतेः । न च तादृशस्ते बुद्धिपरिकल्पिता एव अपि तु सन्तः परमार्थतो विद्यमानाः। कुत एतत् ? दृशिर्यतः, दृशिरित्यस्यानुवर्तनात् । निदर्शनमपि तेषामत्यन्तविसदृशतयैवेति चेत्; न; नीलतज्ज्ञानयोः सदृशतयापि तद्भावात्,
"सारूप्यमस्य प्रमाणम्" [ न्यायवि०पृ०२५ ] इति वचनात् । न च तत्र कल्पितमेव तत् ; २५ ज्ञानस्य प्रत्यक्षत्वव्यापत्तेः । तन्न प्रत्यक्षादत्यन्तविसदृशभावप्रतिपत्तिः । नापि विकल्पात्; तस्यातद्वि
षयत्वात् । नातद्विषयेण तत्प्रतिपत्तिः; अतिप्रसङ्गात् । नायं दोषः, प्रतिबन्धविषयस्यैव ततः सिद्धेरिति चेत्, न; प्रतिबन्धस्य प्रत्यक्षतोऽप्रतिपत्तेः तस्यासाधारणविषयस्याभावात् । न हि तदविषयात्तत्र कस्यचित्प्रतिबन्धपरिज्ञानम् । नापि विकल्पान्तरात्तत्प्रतिपत्तिः; तस्यापि तदविषयत्वात् । प्रतिबन्धेन तद्विषयत्वेऽनवस्था
पत्तिः, तत्राप्यन्यतो विकल्पात् प्रतिबन्धपरिज्ञानात् । ततो न युक्तम्-"स्वस्वभावव्यवस्थितयो ३० भावाः”[ ] इति; अत्यन्तविसदृशस्वभावव्यवस्थितेरपरिज्ञानात् । सदृशाकारस्यापि कथं परिज्ञानम् ?
१ तथाभिन्नत्वात्तया आ०, ब० । २ ‘अनेकवर्ती नैकः' इत्यन्वयः । ३ तत्वोपपत्तेः आ०, ब० ५०, । ४ "अर्थसारूप्यमस्य प्रमाणम्"-न्यायवि०। ५ नाविक-आ०, ब०, प०। ६ “सर्व एव हि भावाः स्वरूपस्थितयो नात्मानं परेण मिश्रयन्ति ।"-प्र० वा० स्ववृ० ३।४२ ।