________________
२।२८]
२ अनुमानप्रस्तावः कथं च न स्यात् ? शाबलेयप्रत्यक्षेण बाहुलेयादेरप्रतिपत्तेः । न हि तदप्रतिपत्तौ तत्प्रतियोगितया तदाकारस्य सम्भवति प्रतिपत्तिरिति चेत्;किमिदानी प्रत्यर्थनियता एव बुद्धयः ? तथा चेत; तद्बहुत्वमपि न भवेत्, अप्रतिपत्तेः । मा भूत्,एकव्यक्तिकस्यैव संवेदनस्याभ्युपगमादिति चेत्, न; तस्यापि निष्कलपरमाणुरूपस्याप्रतिवेदनात् । नानाकारमेकं तदिति चेत्, सिद्धं नः समीहितम् । एकेनानेकस्य व्याप्तिवत् ग्रहणस्याप्युपपत्तेः । ततः शाबलेयदर्शनेन बाहुलेयादेरप्युपलम्भादुपपन्नं परस्परप्रतियोगितया ततस्तत्सदृशाकारस्य परिज्ञानं ५ विसदृशाकारवत् । कथं पुनः स एव सदृशो विसदृशश्चेति चेत् ? न; दृष्टत्वात्, दृष्टं चानुषपत्तिपरिप्रश्नायोगात्' । ततः सूक्तम्-'सन्तस्ते दृशिर्यत:' इति । अतश्च ते सन्त इत्याह
___ तत्रैकमन्तरेणापि सङ्केताच्छब्दवृत्तयः ॥ २८ ॥ इति ।
नत्र इत्यत्रावधारणं द्रष्टव्यम् । तत्रैव तेषु सदृशासदृशात्मस्वेव । शब्दवृत्तयो वचनव्यापारा यतस्ततः ते सन्तः इति। न हि निर्भागे भावे तत्सम्भवः । यदि स्यात् एक इव सा स्यात् न बहवः । १० बहवश्च दृश्यन्ते शब्द इत्यनित्य इति कृतक इति च । न हि शब्दत्वादिसदृशेतरधर्मबहुत्वमन्तरेण एकत्रानेकतत्प्रवृत्तिः पर्यायत्वापत्तेः । तदभावेऽपि व्यावृत्तिभेदात् तत्प्रवृत्तिरिति चेत्; न; 'तभेदस्य वस्तुसत्त्वे निरंशवादव्याघातात् । अवस्तुसतश्च प्रत्यक्षेणानवगमात् । विकल्पेनावगम इति चेत्, न; ततोऽपि वस्तुपराङ्मुखत्वेन वस्तुगतत्वेनाऽनवगमात् । अवस्तुगतत्वेनावगमस्यापि वैफल्याद् व्यवहारानुपयोगात् । वस्त्वेकत्वाध्यवसायात्तस्य तदुपयोग इति चेत्; न; तम्य निषिद्धत्वात् । तन्न एकत्रानेक- १५ शब्दवृत्तिः असद्भावे सम्भवति । एतदर्थमेव 'शब्दवृत्तयः' इति बहुवचनम् । कथं पुनर्वस्तुवशत्वे "तत्प्रवृत्तेः "देवदत्तादावेकत्रैव 'आत्मानमात्मना वेत्ति' इति कारकभेदस्यापोद्धारा इति, कलत्रे जलबिन्दौ" च बहुत्वस्य वचनमिति चेत् ? अत्रोत्तरम्-एकमन्तरेण एकधर्म विना अनेकधर्मभावेनेत्यर्थः । भवति हि तत्र "शक्तिभेदरूपोऽवयवनानात्वादिलक्षणश्च धर्मभेद इत्युपपन्नैव तद्वाच्ये” तद्वचनप्रवृत्तिः । न चैवम्, तत्र देवदत्त इति जलमिति कलत्रमिति चैकवचनम्याप्रयोगः, एकस्यापि शक्तिम- २० "दादिरूपस्य तद्वाच्यस्य भावात् । एतत् अपिशब्देनैकत्वसद्भावं समुच्चिन्वता दर्शयति । यद्येवं किन्न कलत्रादिपदवद् दारादिषदेनाप्येकार्थकथनं यतस्तत्रैकवचनं न भवेदिति चेत् ? न; प्रायशस्तस्य बहुत्व एव सङ्केतात् । न हि शब्दाः स्वसामर्थ्यादेव वस्तुवाच्यमावेदयन्ति, यतो दारादिभिरेकत्वमप्यावेद्येत,अपितु सङ्केतबलात् । सङ्केतश्च वृद्धानां यत्र यथा तत्र तथैव तन्मार्गप्रवृत्तेरनुसतव्यः, तद्वयतिक्रमे प्रयोजनाभावात् । तच्चोक्तम्-'सङ केतात्' इति ।
१ 'प्रत्यक्षेण प्रतीतेऽर्थे यदि पर्यनुयुज्यते । स्वभावैरुत्तरं वाच्य दृष्टे काऽनुपपन्नता ॥ इति सौगतैः स्वयमेवाभिधानात् । ताटि०।२ सन्तो यच्छब्द-ता०1३न्यायेकाकसाध्यस्यान्न बहवश्च प०।४ शब्दवृत्तिः । ५'वेदक्तिनो की (शा सू० ११३१५८) इत्यनुवर्तने सति बहादेः (शा०सू०१।३।६ ।) इति सूत्रेण विकल्पेन डीप्रत्ययः तेन बहवः बह्वयः इति रूपद्वयम् ।"-ता० टि० । ६ शब्दवृत्तयः । ७-दात्प्र-आ०, ब०, प० । ८ व्यावृत्तिभेदस्य । ९ सदृशेतरधर्मबहुत्वाभावे ।-त्तिस्तद्भावे आ०, ब, प०। १० शब्दप्रवृत्तेः । ११ देवदत्तादावनेकत्रैव आ०, ब०, ५०। १२-न्दौ ब-ता। १३ भक्ति-आ०, ब०, प० । १४- च्ये वस्तुनि बहुवचनप्रबृ-आ०, ब०, प० । १५ 'आदिशब्देन अवयव्यादिः ।' -ता० टि० ।