SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरणे [ २।२९ शब्दप्रवृत्तिसङ्केतात् सदृशासदृशात्मसु । विचित्ररूपा दृष्टेयं न निषेध्या विपश्चिताम् ॥ १३५४ ॥ तत इदं प्रत्युक्तम् "न चादृष्टार्थसम्बन्धः शब्दो भवति वाचकः । तथा चेत्स्यादपूर्वोऽपि सर्वः सर्व प्रकाशयेत् ॥" मी० श्लो० शब्दनि० श्लो० २४२ ] इति । सङ्केतादेव शब्दस्यार्थप्रतिबन्धपरिज्ञानात् । ततोऽपि कथमनित्यस्य तत्परिज्ञानम्, उपलब्धस्य सङ्केतकाले ऽनवस्थानात् ? अवस्थितस्य तत्परिज्ञानसिद्धौ नित्यत्वमेव तस्य कालान्तरावस्थितिलक्षण त्वात् । सत्यपि कथञ्चित्तत्परिज्ञाने न प्रयोजनं परिज्ञातप्रतिवन्धस्य व्यवहारेऽनन्वयात्, तत्काल१० भाविनश्च ततोऽन्यत्वात् । न चान्यस्य तत्परिज्ञाने तदन्यस्य वाचकत्वम् ; गोशब्दस्य तत्प्रतिपत्तौ अश्वशब्दस्यापि तत्त्वापत्तेः । गोशब्दाद् गवाश्वशब्दयोः भेदेऽपि गोशब्द एव स्वाभाव्याद्वाचकः खण्डादीनां तथाप्रतीतेः, नाश्वशब्दो विपर्ययात् । दृष्टं चैतत् तेजसः कस्यचित् रूपसम्बन्धपरिज्ञानेऽपि तदपरस्यापि तेजस एव रूपप्रकाशकत्वं नापरस्येति चेत्; भवेदेवं यदि तत्र किञ्चिन्निबन्धनम्, तदभावे कोऽसाविति तन्निश्चयानुपपत्तेः । भवतु प्रतीतिरेव तत्र निबन्धनम्-यस्मिन्नुच्चारिते सत्यसौ भवन्ती व्यवहार१५ मवकल्पयति स एवाभिघित्सितस्य वाचको नापर इति तन्निश्चयोपपत्तेरिति चेत् ; इत्थं भवतु वा श्रोतुस्तदुषपत्तिर्न तु वक्तुः, उच्चारणात् पूर्व तन्निबन्धनाभावात् । अनुत्पन्नतन्निश्चयश्च कथमसौं शब्दं नियता र्थोपदर्शनार्थमुच्चारयेत् ? अथ सोऽपि जानात्येव 'अयमेवास्य वाचकः' इति; यद्येवं प्रागपि तेनायमवधारित एव तत्क्षणप्रत्युत्पन्नशरीरे तथापरिज्ञानानुषपत्तेः, एवञ्च नित्य एवायम् । यत्तुक्तम्- 'दृष्टं चैतत्, इत्यादि; तदपि न युक्तम् ; न हि तेजसः सम्बन्धपरिज्ञानात् प्रकाशकत्वम्, अपि तु चक्षुरादीनां २० सन्निधिमात्रेण सहकारित्वात् । ततो यदुक्तम्-"प्रतिनवस्यापि तस्य तत्त्वं न शब्दस्य ।" [ ] तत्र तत्परिज्ञानस्यावश्यापेक्षत्वात् । तस्य चानित्यशब्दवादिनामुक्तन्यायेनासम्भवात् । उक्तञ्चैतत् "सम्बन्धदर्शनञ्चास्य नानित्यस्योपपद्यते । सम्बन्धज्ञानसिद्धिश्चेद् ध्रुवं कालान्तरस्थितिः ॥१॥ अन्यस्मिन् ज्ञातसम्बन्धे न चान्यो वाचको भवेत। गोशब्दे ज्ञातसम्बन्धे नाश्वशब्दो हि वाचकः ॥२॥ अथान्योऽपि स्वभावेन कश्चिदेवावबोधकः । तत्रानिबन्धने न स्यात्कोऽसाविति विनिश्चयः ॥३॥ १ सङ्केतिताद् गोशब्दात् । २ रसादेः । ३-तु हि श्रो-आ०,ब०,प० । ४ वक्ता । ५-तार्थप्रदर्शआ०, २०,०।
SR No.007280
Book TitleNyayvinischay Vivaran Part 02
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year1954
Total Pages538
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy