________________
२२२९] ८
२ अनुमानप्रस्तावः यतः प्रत्यय इत्येवं व्यवहारोऽवकल्पते । श्रोतृणां स्यादसावित्थं वक्तृणां नावकल्पते ॥४॥ अज्ञात्वा कमसौ शब्दमादावेव विवक्षितम् । जानाति चेदवश्यञ्च पूर्व तेनाधारितः ॥५॥ तेजप्रत्यक्षशेषत्वानून्नेऽपि प्रकाशकम् ।"
[ मी० श्लो० शब्दनि० श्लो० २४२-४७ ] इति चेत्; अत्राह
तत्रैकमभिसन्धाय समानपरिणामिषु ।
समयस्तत्प्रकारेषु प्रवतेति साध्यते ॥२६॥ इति । समय ईदृश ईदृशस्य वाच्यो वाचकश्चेति संवित्तिः प्रतिपाद्यस्य । साध्यते निष्पाद्यते गणधर-१. देवादिभिः । किं कृत्वा ? तत्र तेषु पूर्व निरूपितेषु समानपरिणामिषु सदृशविवर्तनशीलेषु वाच्येषु वाचकेषु च एकं वाच्यं वाचकश्च अभिसन्धाय दर्शनस्मरणाभ्यां प्रत्यवमृश्य । तथाप्युपलब्धशब्दानुस्मरणेनाभिसन्दधानः तथाविधस्यैव प्रतिपाद्यस्य संङ्केतयति—'योऽसौ त्वयाऽभिसन्धीयते तादृशादीदृशः प्रत्येतव्यः' इति । ततो न युक्तम् –'सम्बन्ध' इत्यादि, कालान्तरानवस्थितावप्यभिसन्धानविषयस्य सम्बन्धज्ञानसिद्धेः । 'अन्यस्मिन्' इत्याद्यपि न सङ्गतम् ; अन्यस्यापि प्रतिपन्नसम्बन्ध- १५ सदृशस्यैव वाचकत्वान्नापरस्य । 'अथ' इत्याद्यपि न साधीयः; सादृश्यस्य तन्निश्चयनिबन्धनस्य भावात् । प्रत्ययस्य तु तत्त्वं नेष्यत एव, येतो 'यतः प्रत्यय' इत्यादि ब्रूयात् । एवम् 'अज्ञात्वा' इत्यादिकमपि तज्ज्ञानस्य निषेधितत्वात् । न चायं 'जानन्नप्येकत्वेन जानाति सदृशतयैव प्रतिपत्तेः । ततो 'जानाति चेत्' इत्याद्यपि दुर्व्याहृतमेव, नित्यत्वप्रसङ्गाभावात् ।।
सादृश्याद्वाचक इत्ययुक्तम् । तस्यैव दुरवगमत्वेनाभावात् । भावेऽपि कस्य सादृश्यादुत्तरस्य २० वाचकत्वमवकल्प्येत ? अनर्थकस्येति चेत्, नः तस्योत्तराविशेषात् । अर्थवतश्चेत्; कुतस्तस्य तावान् क्षणो यावताऽर्थवत्त्वप्रतिपत्तिः । न हि द्वित्रादिक्षणानवस्थितस्यार्थवत्त्वं शक्यावसायम्, इत्यप्यचोद्यम्, सादृश्यपरिज्ञानस्य सुलभत्वात्, अनर्थकसादृश्यस्य चानभ्युपगमात्, द्विस्त्रिरप्रतिपत्तिकत्वेऽर्थवत्त्वप्रतिपत्तेनिरूपितत्वात् । तत इदमपि दुर्भाषितमेव---
“सदृशत्वात्प्रतीतिश्चेत्तद्वारेणाप्यवाचकः । कस्य वैकस्य सादृश्यात् कल्प्यतां वाचकोऽपरः ॥१॥ अदृष्टसङ्गतित्वेन सर्वेषां तुल्यता यदा। अर्थवान् पूर्वदृष्टश्चेत्तय तावान् क्षणः कुतः ॥२॥
१-नशरीरेषु आ०, ब०,१०। २ संकेतो यदि आ०, ब०, प० । ३ इतीति त-आ०, ब., प.। ४ इत्येतदपि आ०, ब०,०। ५ ततो आ०, ब०,०। ६ तानप्येक- आ० ब०, ५०। ७-र्थत्वप्रआ०, ब०, प० । ८ द्विः प्रवृत्तिक- आ०, ब०, प० ।