________________
५८
२०
न्यायविनिश्चयविवरणे
द्विस्त्रिर्वानुपलब्धो हि नार्थवान् सम्प्रतीयते ।"
‘अर्थवान्' इत्यादेः पुनरुक्तत्वाच्च तदर्थस्य 'सम्बन्धदर्शनञ्चास्य' [ प्रतिपादितत्वात् ।
[२/२९
[मी० श्लो० शब्दनि० इलो ०२४८-५० ]
] इत्यनेनापि
'सादृश्यादर्थवत्त्वमशब्दान्तरवेदिनं प्रति न भवेत्, तेन तत्सादृश्यस्यापरिज्ञानात् । भवतु * तदन्तरवेदिनं प्रत्येवेति चेत्; अद्भुतमेतत् - स एवार्थवानन्यथा च इति विरोधात् । अतद्वेदिनं प्रत्यर्थवानेवायं स्वत एव केवलमुपायाभावान्न जानातीति चेत्; उत्तरोऽपि तर्हि स्वत एव वाचक इति किं तत्र सादृश्याद्वाचकत्वकल्पनया ? तन्नानन्यश्रुतिं प्रत्युत्तरस्यार्थवत्त्वमुपपन्नम् । अनर्थवत्त्वे तु पूर्वस्यापि स्यात्; तत्राप्यनन्यश्रुतिसद्भावात्, इत्यनर्थकत्वमेव सर्वस्यापि शब्दप्रबन्धस्य प्राप्तम् ।
१०
अपि च, शब्दान्तरवेदिनामर्थवत्सदृशत्वेन योऽसावभिमतः स एवातद्वेदिनां मुख्यो भवेत्, तत्रैव प्रथमं तैरर्थवत्त्वप्रतिपत्तेः तथा चायं पूर्वस्मान्मुख्यादभिन्न एव भवेत् मुख्यत्वात्तद्रूपवदिति न शब्दे नित्यत्वप्रतिक्षेपः ; इत्यपि न चोद्यम्; अनेकान्तवादिनः क्वचिदर्थवत्त्वेतरयोर पेक्षाभेदेनाऽविरोधात्, दृश्येतरत्ववत् । नहि चक्षुरन्यतोऽप्यदृश्यमेव तद्व्यवहारविलोपापत्तेः । न च स्वशक्तितः पूर्वस्यार्थवत्त्वं यत उत्तरस्यापि तथैव वाचकत्वात् 'सादृश्याद्वाचकः' इति कल्पनं न भवेत्, अपि तु सङ्केतादेव १५ सादृश्यविशेषालम्बनात्, तद्वदुत्तरस्यापि । न चानन्यश्राविणं प्रत्यनर्थकत्वेऽपि वचनप्रबन्धस्य सर्वथा ऽनर्थकत्वम्, प्रतिषन्नसङ्गतिं प्रत्यर्थवत्त्वप्रतिपत्तेः । न च ' मुख्य' इत्येव पूर्वस्मादुत्तरस्याभेदः, कालविच्छेदेन तयोर्भेदाध्यवसायात् । तन्न तत्र नित्यत्वप्रसक्तिः । तत इदमप्यपर्यालोच्य जल्पितम् -- "अप्रतीतान्यशब्दानां तत्कालेऽसावनर्थकः । प्रतीतान्यश्रुतीनां स्यादर्थवानिति विस्मयः ॥ १ ॥ अथास्य विद्यमानisfy कैश्चिदर्थो न गृहयते । तत्तुल्यमुत्तरस्येति किं सादृश्येन वाचकः ||२|| अनर्थकत्वमस्य स्यादथानन्यश्रुतीन् प्रति । पूर्वस्मिन्नपि तत्सत्त्वात् सर्वस्यानर्थता भवेत् || ३ || अर्थवत्सदृशत्वेन यो वा श्रुतवतां मतः । मुख्योऽसावश्रुतीनां स्यान्नित्यत्वेन प्रयुज्यते ॥४॥”
[ मी० श्लो० शब्दनि० श्लो० २५०-५४ ] इति । धूमादौ हेतावप्यस्य समानत्वाच्च । नहि तस्यापि सादृश्यादन्यतो गमकत्वम्। तत इदं तत्र
वक्तव्यम्
१ - वत्तत्त्वम- आ०, ब०, आ०, ब०, प० । ४ स्वशक्तित एव । ता । ७ “ स एवान्यश्रुतीनाम्”- मी० चदेकत्वेन युज्यते" - मी० इलो० ।
प० । २ तदनन्तरवे- आ०, ब०, प० । ३ चक्षुष्मतो - ५ - वचनप्रतिबन्धस्य प्रति आ०, ब०, प० । ६ -लोऽसावश्लो० । ८ अर्थवान् स- आ०, ब०, प० । ९ " स्या