________________
२।२९]
२ अनुमानप्रस्तावः न सादृश्येन धूमादिर्गमकस्तदवेदनात् । कस्य वैकस्य सादृश्यागमकः कल्प्यतां परः ॥१३५५।। अदृष्टसङ्गतत्वेन सर्वेषां तुल्यता यदा। गमकः पूर्वधूमश्चेत्तस्य तावान् क्षणः कुतः ॥१३५६॥ द्विस्त्रिर्वानुषलब्धो हि गमको नावगम्यते । अप्रतीतान्यधमानां न चायं गमकस्तदा ॥१३५७॥ प्रतीतापरधूमानां भवेदित्येष विस्मयः । गमकत्वं सदप्यस्य यदि कैश्चिन्न गृहयते ॥१३५८॥ तत्तुल्यमुत्तरस्येति सादृश्यागमकः कथम् । अथास्यागमकत्वं स्यादनन्यगमकं प्रति ॥१३५९॥ पूर्वस्मिन्नपि तत्सत्त्वात् सर्वोऽप्यगमको भवेत् । गमयन् सदृशत्वेन यो वा तद्वदिनां मतः ॥१३६०॥ मुख्यो ऽसावपरेषां स्यान्नित्यत्वेन प्रयुज्यते । न चादृष्टार्थसम्बन्ध इत्याद्यपि पुरोदितम् ॥१३६१॥
एवमत्रापि वक्तव्यं समानन्यायवेदिभिः । इति । भवतु नित्यत्वमेव हेतुष्विति चेत्, न; व्यक्तितस्तदभावात् । सामान्यत इति चेत्; न ततो विशेषप्रतिपत्तिः तत्प्रतिबन्धस्य दुरवबोधत्वात् । प्रतिपत्तिरपि सामान्यस्यैवेति चेत्, न तर्हि ततो विशेषे तदर्थिनां प्रवृत्तिः अपरिज्ञानात् । लक्षितलक्षणे चानवस्थानात् । निरूपितञ्चैतत् 'तद्वत्यचोदिते' इत्यादिना । ततो व्यक्तीनामेव सदृशरूपतया हेतुत्वमिति कथन्न तत्राप्ययं प्रसङ्गो यदनुमानमव्याकुलं भवेत् ।
लिङ्गेन चेत् प्रसङ्गोऽयं न शब्देऽप्यविशेषतः । ततः प्रलाप एवायमनालोचितकल्पनः ॥१३६२॥ तुल्यकक्ष्यत्वमेवैवं प्रवक्तुं शब्दलिङ्गयोः ।
अनुमानाधिकारेऽपि कृतं शब्दनिरूपणम् ॥१३६३॥ यदि न शब्दस्य कालान्तरावस्थितिः किमिति तत्र समयः साध्यते व्यवहारानुपयोगादिति २५ चेत् ? अत्रोत्तरम्
'तत्प्रकारेषु' तस्य साध्यमानसमयस्येव प्रकारः परिणतिविशेषो येषां तेषु शब्देषु । तैस्तदर्थप्रतिपादनाय तदर्थेषु च तैस्तत्प्रयोजनाय प्रवर्तेत प्रवृत्तिं कुर्वीत लोकः इति एवं स तत्र साध्यते न पुनस्तेनैव तस्यैव पुनरपि प्रतिपत्त्यर्थम् । लिङ्गमेवात्रोदाहरणम् ।
१ सर्वोऽस्य ग- आ०, ब०, प० । २ इति विशेषे प्र- आ०, ब०, प० । ३ न्यायधि. श्लो०....। इति न आ०, ब०,५०। ४ सादृश्यरूप- ता०।