________________
न्यायविनिश्चयविवरणे
[ २०३० धूमादिकं यथा किञ्चिदभिसन्धाय कुत्रचित् । सम्बन्धस्तत्प्रकारेषु प्रवर्ततेति साध्यते ॥१३६४॥ तथा वचः क्वचित्किञ्चिदभिसन्धाय सूरिभिः ।
समयस्तत्प्रकारेषु प्रवर्ततेति साध्यते ॥१३६५ उपसंहरन्नाह
तज्जातीयमतः प्राहुर्यतः शब्दा निवेशिताः । इति ।
अतोऽनन्तरोक्तान्न्यायात् । आ (प्रा)हुः प्रतिपादयन्ति गवाश्चादयः । किम् ? तज्जातीयं तत्प्रकारम् । यतो यस्मिन् खण्डक्र्कादौ निवेशिताः स्थापिताः शब्दा
इति । किं पुनरिदं शब्दानां तत्र निवेशनम् ? सम्बन्धकरणमेव । सर्गादावीश्वरेण तत्करणस्य प्रसिद्धरिति १० चेत्, न; नित्यत्वे तदयुक्तः "तदुक्तम्" [ शाबरभा०१।१।१८ ] इत्यनेन 'भाष्येण प्रतिपादनात् ।
अनित्यत्वेऽपि विशेषतः सम्बन्धस्य दुष्करत्वात् । न हि शब्दस्यासत्युच्चारणे तदनन्तरनाशे वा तत्करणं निर्विषयत्वापत्तेः प्रयोजनविरहाच्च । ततः पूर्वस्यासम्बद्धय व नाशादुत्तरस्य चाकृतसम्बन्धत्वादुर्विज्ञानमेवार्थवत्त्वम् । न चैकदैवोच्चारणं सम्बन्धकरणं व्यवहारश्च सम्भवति, तक्रियाणां क्रमस्वभावत्वेन युगपत्करणा
योगात् । भवन्नपि कर्तृ मुखनिष्क्रान्तः शब्दः कृतसम्बन्धो नैकः श्रोतृणां सिद्ध्यति, तैर्देशकालादि १५ भिन्नैः शब्दान्तरस्यैव श्रवणात्, अन्यथा तस्य नित्यव्यापित्वापत्तेः । तन्न सम्बन्धस्य करणं निवेशनम् ।
नापि कथनम् । तस्याप्येवं निराकृतेः । न हि तदपि नष्टे सति वर्तमाने वा सम्भवति उक्ताया एवोपपत्तेः । उक्तश्चैतत्
"सम्बन्धकरणे युक्तिस्तदक्तमिति कथ्यते । शब्दानित्यत्वपक्षे हि विशेषेण स दुष्करः ॥१४॥ शब्दं तावदनुच्चार्य सम्बन्धकरणं कुतः । न चोचारितनष्टस्य सम्बन्धेन प्रयोजनम् ॥२॥ तेनासम्बद्धय नष्टत्वात् पूर्वस्तावदनर्थकः । उत्तरोऽकृतसम्बन्धो विज्ञायेत.र्थवान् कथम् ॥३॥ शब्दोच.रणसम्बन्धकरणव्यावहारिकाः। क्रियाः क्रमस्वभावत्वात् कः कुर्याधुगपत्क्वचित् ॥४॥ देशकालादिभिन्नानां पुंसां शब्दान्तरश्रुतेः। पूर्व कृत्रिमसम्बन्धोऽप्येकः शब्दो न सिद्धयति ॥५॥
१"कस्यचित्पूर्वस्य कृत्रिमसम्बन्धो भविष्यतीति चेत् तदुक्तं सदृश इति चावगते व्यामोहात्प्रत्ययो व्यावत शालाशब्दान्मालाप्रत्यय इत्र ।"- शाबरभ० १।१।१८। २ -सम्बन्धिनि श्रोआ०, ब०, ५०। ३ -"सम्बन्धस्येत्येतदत्रापि सम्बन्धनीयम् ।"- ता० टि०।