________________
०३२]
२ अनुमानप्रस्तावः सम्बन्धकथनेऽप्यस्य स्यादेषैव निराक्रिया। नष्टासद्वर्तमानेषु नाख्यानस्य हि सम्भवः ॥६॥"
[मी० श्लो० शब्दनि० श्लो० २५४-५९] इति चेत; न, शब्दस्योच्चारणानन्तरनाशेऽपि सङ्कलनबुद्धयवस्थापितत्वेन तत्र सम्बन्धकरणतत्कथनयोरुपपत्तेरभिहितत्वात् ।
यत्तक्तम्– 'देशाकालादिभिन्नानाम्' इत्यादि, तदपि न समीचीनम् ; वक्तमुखनिष्क्रान्तस्यैव शब्दपर्यायिणः पुद्गलस्कन्धस्यानेकधाराकारेण प्रतिश्रोतृ श्रोत्रप्रदेशं प्रवेशाद् देवदत्तस्यायं शब्द इति प्रतीतेरस्खलनात् । उच्चारणानन्तरविनाशस्यापि तत्प्रवेशानन्तरभङ्गाभिप्रायेणैवाभिधानात् । कथश्चैवं ध्वनीनामपि वर्णसम्बन्धो यतस्तदभिव्यक्तये तदुपादानं क्रियेत ? शक्यं हि वक्तुम्
सम्बन्धकरणे युक्तिस्तदुक्तमिति कथ्यते । ध्वन्यनित्यत्वपक्षेऽपि विशेषेण स दुष्करः ॥१३६६॥ ध्वनि तावदनुत्पाद्य सम्बन्ध करणं कुतः । न चोगादितनष्टस्य सम्बन्धेन प्रयोजनम् ॥१३६७॥ तेनासम्बद्धय नष्टत्वात् पूर्वस्तावदवर्णवान् । उत्तरोऽकृतसम्बन्धो वर्णवान् वेद्यते कथम् ॥१३६८॥ ध्वन्युत्पादनसम्बन्धकरणव्यावहारिकाः । क्रियाः क्रमस्वभावत्वात् कः कर्याधुगपत्त्वचित् ॥१३६९॥ देशकाल दिभिन्नानां पुंसां ध्वन्यन्तरश्रुतेः । न प्राकृत्रिमसम्बन्धो ध्वनिरेकोऽपि सिध्यति ॥१३७१॥ सम्बन्धकथनेऽप्यस्य स्यादेषैव निराक्रिया ।
नष्टासद्वर्तमानेषु नाख्यानस्य हि सम्भवः ॥१३७१॥इति यच्चेदमपरमपरस्य वचनम् -
"अर्थवान् कतरः शब्दः श्रोतुर्वक्त्रा च कथ्यताम् । यदपूवश्रुतं शब्दं नासौ शक्नोति भाषितुम् ॥ न तावदथान्तं स ब्रवीति सदृशं वदेत् । नार्थवत्सदृशः शब्दः श्रोतुस्तत्रोपपद्यते ॥ अर्थवद्हणाभावान चासावर्थवान् स्वयम् । वक्तुः श्रोतृत्ववेलायामेतदेव प्रसज्यते ॥
१-णान्नाशे- आ०, ब०,प० । २ -लनाबु- आ०, २०, ५०। ३-धाका- आ०, ब०, प०। ४ प्रदेशादौ दे- आ०, ब०, प० । ५ -परं पर- श्रा, ब०, ५०1 "साहश्यादर्थवान् स्वप्तो वेति विकल्पद्वयं मनसिकृत्याह"- ता०टि०। ७ श्रोत्रे आ०, ब०, प.। .