________________
१०
न्यायविनिश्वयविवरणे
एवञ्च सर्ववक्तृणां न शब्दः कश्चिदर्थवान् ।”
२५
[ मी० श्लो० शब्दनि० २६० - ६३ ] इति
तदप्यत्र समानम् । तथाहि
वर्णवान् कतरो नादः श्रोतुर्वक्त्रा निवेद्यताम् । यदपूर्वोद्भवं नादं नासौ शक्नोति भाषितुम् ॥१३७२ ॥ न तावद्वर्णवन्तं स ब्रवीति सदृशं वदेत् । न वर्णवत्समो नादः 'श्रोतुस्तत्रोपपद्यते ॥१३७३॥ वर्णवद्ग्रहणाभावान्न चासौ वर्णवान् स्वयम् । 'वक्तुः श्रोतृत्ववेलायामेतदेव प्रसज्यते ॥ १३७४ ॥ एवञ्च सर्ववक्तॄणां न नादः कोऽपि वर्णवान् । इति कृतं प्रसङ्गेन ।
[ २।३०-३१
साम्प्रतमुक्तार्थस्मरणार्थम् ' संदृशासदृशात्मानः' इत्यादि व्याचक्षाण आहनानेकत्र न चैकत्र वृत्तिः सामान्यलक्षणम् ||३०|| इति ।
अनेक अनेकस्मिन् खण्डादौ वृत्ति: वर्त्तनं समवायो न सामान्यस्य गोत्वादे१५ लक्षणम् । न च नापि । एकत्र एकस्मिन्निति । अत्र हेतुमाह
अतिप्रसङ्गतः [ तत्त्वादन्यत्रापि समानतः ] । इति ।
कार्यद्रव्यसंयोगादेरनेकवृत्तित्वे कर्मणश्चैकवृत्तित्वेन सामान्यरूपत्वापत्तेरिति दोषात्, मीमांसकं प्रत्यनेकवृत्तेरसम्भवाच्च । तदाह - 'तत्त्वात्' इति तत्त्वं सामान्यस्य व्यक्तिभ्यो ऽनर्थान्तरत्वं ततः, न तस्यानेकत्र वृत्तिस्ततश्च न तल्लक्षणम् । तथा हिव्यक्तिवत्तदभिन्नस्य तस्यानेकत्र वर्त्तनम् ।
२०
कथं स्यादन्यथा तस्य तदभेदः कथं भवेत् ॥ १३७५॥ सामान्यं तद्विशेषेभ्यो भिन्नाभिन्नं मतं यदि । कथं सावयवं न स्याद्येनेदमभिलप्यते ॥१३७६॥ "कास्यवयवशो वृत्तिः प्रष्टुं जातौ न युज्यते ।
नहि भागविनिर्मुक्ते कात्स्न्यवयवकल्पनम् ।। १३.७७ ॥ इति । दृश्यादृश्यात्मकञ्च स्याद् भिन्नाभिन्नात्म तद्यदि । तथा सत्यन्तरालेषु नाग्रहात्तन्निषेधनम् ॥१३७८॥ “व्यक्तिष्वेव च सामान्यं नान्तरा गृह्यते यतः ।" इति सर्वत्र तद्वृत्तेः प्रागेवोत्तरमीरितम् ॥ १३७९ ॥
१ श्रोतुमत्र - आ०, ब०, प० । २ - वक्तृश्रो- आ०, भा०, ब०, प० । ४ सामान्यस्य । ५ मी० इलो० वन० श्लो० इको० २५ ।
ब०, प० । ३ - पत्तेरतिव्याप्ते मी३३ । ६ मी० इलो० आकृति •