________________
२।३१-३३ ]
२ अनुमानप्रस्तावः तस्मादेकस्वभावं तद्यद्यभिन्नं विशेषतः ।
तत्रैव न परत्रेति सामान्यं तन्न युज्यते ॥ १३८० ॥ कथं तर्हि सामान्यम् ? इत्याह--'अन्यत्रापि समानत: इति । अन्यत्र खण्डवत् मुण्डादावपि समानतः सदृशपरिणामात् सामान्यमिति । सर्वतः सर्वस्य व्यावृत्तत्वेन विलक्षणत्वात् • कथं तत्परिणाम इति ? अत्राह--
व्यावृत्तिं पश्यतः कस्मात् सर्वतोऽनवधारणम् ॥ ३१ ॥ इति
सर्वतः सजातीयाद्विजातीयाञ्च व्यावृत्तिं स्वलक्षणानां विच्छेदं पश्यतः कस्मात् अनवधारणम् अनिश्चयनम् । एवं मन्यते-दर्शनविषयत्वे व्यावृत्तेनिश्चयेनं भवितव्यं नीलादिवत् , तथा च व्यर्थमनुमानं निश्चिते समारोपाभावादिति । न दृष्टमित्येव निश्चयः, तत्रापि मारूप्याद्विभ्रमोपपत्तेः मायागोलकवदिति चेत्; अत्राह
सादृश्यायदि साधूक्तं [ तत्किं व्यावृत्तिमात्रकम् ] । इति ।
सादृश्याद्यदि अनवधारणं व्यावृत्तेस्तर्हि साधूक्तं जैनेन 'अन्यत्रापि समानतः' इति । सादृश्यमपि व्यावृत्तिरूपमेवेति चेत् आह—'तत्किं व्यावृत्तिमात्रकम्' इति । तत् सादृश्यम् । किं नैव, व्यावृत्तिरेव तन्मात्रकम् अपि त्वन्यदेव । एवं मन्यते-यद्यन्यव्यावृत्तिरेव हेतुफलयोर्घटक्षणयोः सादृश्यं घटकपालक्षणयोरपि तद्भावान्नान्त्यक्षणेऽपि व्यावृत्तिनिश्चय इति । १५ "अन्ते क्षयदर्शनादावपि क्षयः" । ] इति प्लवेत । ततो यदभावात् सत्यामपि तद्व्यावृत्तौ अन्त्यक्षणे तन्निश्चयस्तदेव सादृश्यं न तन्मात्रमिति । परमाशङ्कते परिहर्तुम्
एकान्ते चेराथाऽदृष्टेरिष्टं [ वक्तुरकोशलम् ] ॥ ३२॥ इति ।
एकोऽसहायोऽन्तः स्वभावो यस्य तस्मिन् वस्तुनि तथा तेन जैनोक्तेने प्रकारेण अदृष्टः अदर्शनात् सादृश्यस्य इटम् अभ्युपगंतम् 'व्यावृत्तिमात्रकं तत्' इति । अत्रायमभिसन्धिः-वस्तु २० तावदेकस्वभावमेव । स्वभावान्तरकल्पनायां तत्स्वभावप्रच्युतेः । न ह्यप्रच्युततत्स्वभावं तदन्तरवद् भवति, तथापि तदेकस्वभावमेव पुनस्तदन्तरकल्पनायामव्यवस्थापत्तेः । एकश्चान्तो वैलक्षण्यमेव अन्यथा सङ्करापत्तेः । अतो नान्यस्य सादृश्यस्य दर्शनमिति व्यावृत्तिमात्रकमेव तत् इति । चेत् इति पराकूते । अत्रोत्तरमाह—'वक्तुरकौशलम्' इति । एकान्तं वदतो न कौशलं तत्र प्रमाणाभावात् प्रत्यक्षादेरप्रवेशात् । तथा हि-वैलक्षण्यैकान्ते परत इव स्वतोऽपि तस्यैव भावादभाव एव भावानामिति न २५ तद्वादिनः कौशलमव्यवस्थितवस्तुवादित्वात् । तदाह
सर्वैकत्वप्रसङ्गो हि [ तद्दष्टं भ्रान्तिकारणम् ] । इति ।
१ इति अन्यस्मादन्यत इत्यन्यत्र आ०, ब०, प० । २ "अकलङ्कदेवस्याभिप्रायमाह"ता० टि० । ३-ये भ- ता०। ४-णेन त- आ०, ब०, प० । ५ जैनोक्तप्रका- भा०, ब०, १०। ६-गन्तव्यम आ०, ब०,१०।